5-2-116 व्रीह्यादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिठनौ
index: 5.2.116 sutra: व्रीह्यादिभ्यश्च
'तत् अस्य, अस्मिन् अस्तीति' (इति) व्रीह्यादिभ्यः इनि-ठनौ, अन्यतरस्याम् मतुँप्
index: 5.2.116 sutra: व्रीह्यादिभ्यश्च
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः व्रीह्यादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः विकल्पेन 'इनि' तथा 'ठन्' प्रत्ययौ भवतः, पक्षे मतुँप्-प्रत्ययः अपि विधीयते ।
index: 5.2.116 sutra: व्रीह्यादिभ्यश्च
व्रीह्यादिभ्यः प्रातिपदिकेभ्यः इनिठनौ प्रत्ययौ भवतो मत्वर्थे। मतुब् भवत्येव। व्रीही, व्रीहिकः, व्रीहिमान्। मायी, मायिकः, मायावान्। न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयम् इष्यते। किं तर्हि? शिखादिभ्य इनिर्वाच्य इकन् यवखदादिषु। परिशिष्टेभ्य उभयम्। शिखा मेखला संज्ञा बलाका माला वीणा वडवा अष्टका पताका कर्मन् चर्मन् हंसा इत्येतेभ्य इनिरेव इष्यते। यवखद कुमारी नौ इत्येतेभ्य इकन्नेव इष्यते। परिशिष्टेभ्यो द्वावपि प्रत्ययौ भवतः। व्रीहिग्रहणं किमर्थम्, यावता तुन्दादिषु व्रीहिशब्दः पठ्यते, तत्र इनिठनौ चकारेण विधीयेते? एवं तर्हि तुन्दादिसु व्रीहिग्रहणमर्थग्रहणम् विज्ञायते। शालयोऽस्य सन्ति शालिनः, शाली, शालिकः, शालिमानिति। व्रीहिशिखादयः पूर्वं पठिताः। यवखद। कुमारी। नौ। शीर्षान् नञः अशीर्षी, अशीर्षिकः।
index: 5.2.116 sutra: व्रीह्यादिभ्यश्च
व्रीही । व्रीहीकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि ।<!शिखामालासंज्ञादिभ्य इनिः !> (वार्तिकम्) ॥ यवखदादिभ्य इकः ॥ अन्येभ्य उभयम् ॥
index: 5.2.116 sutra: व्रीह्यादिभ्यश्च
व्रीही। व्रीहिकः॥
index: 5.2.116 sutra: व्रीह्यादिभ्यश्च
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । व्रीह्यादिगणस्य शब्देभ्यः अस्मिन्नेव अर्थे वर्तमानसूत्रेण 'इनि' तथा 'ठन्' एतौ प्रत्ययौ अपि भवतः ।
व्रीह्यादिगणः अयम् - व्रीहि, माया, शिखा, मेखला, संज्ञा, बलाका, माला, वीणा, वडवा, अष्टका, पताका, कर्मन्, चर्मन्, हंसा, यवखद, कुमारी, नौ , शीर्षात् नञः (गणसूत्रम्) ।
अस्य सूत्रस्य विषये व्याख्यानेषु उच्यते - न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयम् इष्यते । इत्युक्ते, व्रीह्यादिगणे विद्यमानाः केचन शब्दाः केवलम् 'इनि' प्रत्ययमेव स्वीकुर्वन्ति, केचन अन्ये च 'ठन्' प्रत्ययम् एव स्वीकुर्वन्ति । क्रमेण पश्यामः -
1) 'व्रीहि' तथा 'माया' एताभ्याम् शब्दाभ्याम् 'इनि' तथा 'ठन्' द्वावपि प्रत्ययौ भवतः । यथा -
व्रीहिः अस्य अस्ति सः व्रीही व्रीहिकः वा । व्रीहि + इन् → व्रीहिन् । व्रीहि + ठन् → व्रीहिक ।
माया अस्य अस्मिन् वा अस्ति सः मायी मायिकः वा । माया + इन् → मायिन् । माया + ठन् → मायिक ।
विशेषः - अस्मायामेधास्रजो विनिः 5.2.121 इत्यनेन 'माया' शब्दात् अस्मिन्नेव अर्थे 'विनि' प्रत्ययं कृत्वा 'मायाविन्' इति अपि प्रातिपदिकम् सिद्ध्यति ।
2) व्रीह्यादिगणे विद्यमानात् 'शिखा' शब्दात् अारभ्य 'हंसा' शब्दं यावत् पाठिताः शब्दाः 'शिखादिः' नाम्नि गणे अपि स्वीक्रियन्ते । एते शब्दाः केवलम् 'इनि' प्रत्ययमेव स्वीकुर्वन्ति, ठन्-प्रत्ययम् न ।
यथा -
अ) शिखा अस्य अस्ति सः शिखी । शिखा + इन् → शिखिन् ।
आ) संज्ञा अस्य अस्ति सः संज्ञी । संज्ञा + इन् → संज्ञिन् ।
इ) कर्म अस्य अस्ति सः कर्मी । कर्मन् + इन् → कर्मिन् । नस्तद्धिते 6.4.144 इति टिलोपः ।
आदयः
3) 'यवखद', 'कुमारी' तथा 'नौ' - एताभ्यां शब्दाभ्याम् 'ठन्' प्रत्ययः एव भवति । यथा -
अ) यवखदः अस्य अस्मिन् वा अस्ति सः यवखदिकः ।
आ) कुमारी अस्य अस्ति सः कुमारिकः ।
इ) नौ अस्य अस्ति सः नाविकः ।
विशेषः - काशिकायाम् 'ठन्' इत्यस्य स्थाने 'इकन्' इति प्रत्ययः उच्यते । 'इकन्' इति 'ठन्' इत्यस्यैव पूर्वाचार्यैः दत्तम् नाम । ठस्येकः 7.3.50 इत्यनेन ठकारस्य इकारादेशं कृत्वा ठन्-प्रत्ययस्य इकन्-आदेशः भवति, स एव अत्र निर्दिष्टः अस्ति ।
4) अस्मिन् गणे 'शीर्षात् नञः' इति गणसूत्रमपि पाठ्यते । अस्य अर्थः अयम् - 'नञ्-समासे विद्यमानात् शीर्ष-शब्दात् एतयोः अर्थयोः इनि तथा ठन् प्रत्ययौ भवतः । यथा -
न विद्यते शिरः अस्य (= विग्रहवाक्ये अत्र 'शिरस्' शब्दः स्वीक्रियते) ।
अ + शिरस् + इनि / ठन्
→ अ + शिरस् + इन् / इक [इत्संज्ञालोपः, ठकारस्य ठस्येकः 7.3.50 इति इक-आदेशः]
→ अ + शीर्ष + इन् / इक [अचि शीर्षः 6.1.62 इति शिरस्-इत्यस्य शीर्ष-इति आदेशः]
→ अशीर्ष् + इन् / इक [यस्येति च 6.4.148 इति अकारलोपः]
→ अशीर्षिन् / अशीर्षिक
यस्य शिरः न विद्यते सः अशीर्षी अशीर्षिकः वा ।
ज्ञातव्यम् - व्रीह्यादिभ्यः सर्वेभ्यः शब्देभ्यः मतुँप्-प्रत्ययः तु भवत्येव । यथा - व्रीहिः अस्य अस्मिन् वा अस्ति सः व्रीहिमान् । माया अस्य अस्मिन् वा अस्ति सः मायावान् । एवमेव 'शिखावान्', 'संज्ञावान्', 'कर्मवान्' ' नौमान्' - आदीनि रूपाणि अपि सिद्ध्यन्ति ।
index: 5.2.116 sutra: व्रीह्यादिभ्यश्च
व्रीह्यादिभ्यश्च - व्रीह्रादिभ्यश्च । 'मत्वर्थे इनिठनौ' इति शेषः । शिखामालेत्यादि । वार्तिकमिदम् ।शिखा, माला, संज्ञा, वीणा, बडवा, बलाका, पताका, वर्मन्, शर्मन् एभ्य इनिरेव, नतु ठनित्यर्थः । यवखलेति । यवखल, नौ, कुमारी एभ्यष्ठनेव, न त्विनिरित्यर्थः । परिशिष्टेभ्यस्तु व्रीह्रादिगणपठितेभ्य उभावित्यर्थसिद्धम् । इदं वृत्तौ स्पष्टम् ।
index: 5.2.116 sutra: व्रीह्यादिभ्यश्च
शिखादिभ्य इति। शिखादयोऽत्रैव वक्ष्यन्ते। इकन्यवखदादिष्विति। विषयसप्तम्येषा। एतेऽप्यत्रैव पक्षयन्ते। इकन्निति। ठन्नित्यर्थः। पूर्वाचार्यप्रक्रियापेक्षस्त्विकन्निति निर्द्देशः श्लोकपूरणार्थः। परिशिष्टेभ्य उभयमिति। एतच्च सर्वमितिकरणानुवृतेर्लभ्यते। एवं तर्हीति। विपर्ययस्तु न भवति - तत्र स्वरूपग्रहणम्, इहार्थग्रहणामिति; असञ्जातविरोधित्वेनानैव स्वरूपग्रहणस्य युक्तत्वात् ॥ शीर्षान्नञ इति। नञः परो यः शीर्षशब्दस्तस्मादिनिठनौ भवतः - अशीर्षी, अशीर्षिकः। न विद्यते शिरो यस्य स एवमुच्यते। ठचि शीर्षेऽ इति शिरसः शीर्षभावः, वाक्येऽपि तस्यैव भीविनो निर्द्देशः ॥