5-1-84 अवयसि ठः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात् षण्मासात् ण्यत् च
index: 5.1.84 sutra: अवयसि ठंश्च
'तम् भूतः' (इति) अवयसि षण्मासात् द्विगोः ण्यत् ठन् च
index: 5.1.84 sutra: अवयसि ठंश्च
'भूतः' अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् 'मास' शब्दात् 'षट्' इत्यस्मिन् पूर्वपदे 'वयः' इति अर्थम् विहाय अन्यत्र ठन् तथा ण्यत् प्रत्ययौ भवतः ।
index: 5.1.84 sutra: अवयसि ठंश्च
षण्मासशब्दाद् वयस्यभिधेये ठण् प्रत्ययो भवति। चकारेण अनन्तरस्य ण्यतः समुच्चयः क्रियते। षण्मासिको रोगः, षाण्मास्यः।
index: 5.1.84 sutra: अवयसि ठंश्च
चाण्ण्यत् । षण्मासिको व्याधिः षाण्मास्यः ॥
index: 5.1.84 sutra: अवयसि ठंश्च
'षट् + मास' इत्यत्र द्विगुसमासस्य विषये 'वयः' इति अर्थे अभिधेये षण्मासाण्ण्यच्च 5.1.83 इत्यनेन यप् , ण्यत् तथा ठञ् प्रत्ययाः उच्यन्ते । परन्तु यदि 'वयः' इति विहाय अन्यः अर्थः वक्तव्यः अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः नास्ति । अस्यां स्थितौ तमधीष्टो भृतो भूतो भावी 5.1.80 इत्यनेन (तथा च <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन निर्दिष्टेन तदन्तविधिना) औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण ण्यत् तथा ठन् प्रत्ययौ भवतः । यथा -
षट् मासान् भूतः ज्वरः = षट् + मास + ण्यत् → षाण्मास्यः ज्वरः ।
षट् मासान् भूता पीडा = षट् + मास + ठन् → षण्मासिका पीडा । अजाद्यतष्टाप् 4.1.4 इति अत्र टाप् प्रत्ययः भवति ।
ज्ञातव्यम् - अत्र औत्सर्गिकः ठञ्-प्रत्ययः उत पूर्वसूत्रात् यप्-प्रत्ययः न भवतः ।
स्मर्तव्यम् - अस्मिन् सूत्रे 'ठंश्च' इति शब्दः 'ठन् + च' इत्यनेन एतादृशम् निर्मितः अस्ति -
ठन् + च
→ ठरुँ + च [नश्छव्यप्रशान् 8.3.7 इति नकारस्य रुँत्वम्]
→ ठंरुँ + च [अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः । एतत् सूत्रम् रुँत्वप्रकरणे एव विद्यते, अतः नश्छव्यप्रशान् 8.3.7 इत्यनेन विहितं नकारस्य रुँत्वमस्य कृते सिद्धमस्ति ।]
→ ठंः + च [खरवसानयोर्विसर्जनीयः 8.3.15 रुँ-इत्यस्य इति विसर्गः]
→ ठंस् + च [विसर्जनीयस्य सः 8.3.34 इति विसर्गस्य सकारादेशः]
→ ठंश् + च [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]
→ ठंश्च
index: 5.1.84 sutra: अवयसि ठंश्च
अवयसि ठंश्च - अवयसि टंश्च । षण्मासशब्दाद्द्वितीयान्ताद्भूते अवयसि ठन् च स्यादित्यर्थः ।
index: 5.1.84 sutra: अवयसि ठंश्च
चकारोऽनन्तरस्य ण्यतःसमुच्चयार्थ इति। न तु पूर्ववत् ठञः समुच्चयार्थः। तथा च वार्तिकम् - ठवयसि'ंअश्चेत्यनन्तरस्यानुकर्षः' इति॥