षण्मासाण्ण्यच्च

5-1-83 षण्मासात् ण्यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात् वयसि यप्

Sampurna sutra

Up

index: 5.1.83 sutra: षण्मासाण्ण्यच्च


'तम् भूतः' (इति) वयसि षण्मासात् द्विगोः ण्यत्, यप् , ठञ् च

Neelesh Sanskrit Brief

Up

index: 5.1.83 sutra: षण्मासाण्ण्यच्च


'भूतः' अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् 'मास' शब्दात् 'षट्' इत्यस्मिन् पूर्वपदे वयसि अभिधेये ण्यत्, यप्, ठञ् प्रत्ययाः विधीयन्ते ।

Kashika

Up

index: 5.1.83 sutra: षण्मासाण्ण्यच्च


वयसि इत्येव। षण्मासशब्दाद् वयस्यभिधेये ण्यत् प्रत्ययो भवति, यप् च। औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः। स्वरितत्वाच्चानन्तरोऽनुवर्तिष्यते। तेन त्रैऋऊप्यं भवति। षाण्मासय्ः, षण्मास्यः, षाण्मासिकः।

Siddhanta Kaumudi

Up

index: 5.1.83 sutra: षण्मासाण्ण्यच्च


वयसीत्येव । यबप्यनुवर्तते । चाट्ठञ् । षण्मास्यः । षाण्मासिकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.83 sutra: षण्मासाण्ण्यच्च


मासाद्वयसि यत्खञौ 5.1.81 इत्यनेन 'मास' शब्दात् 'भूतः' अस्मिन् अर्थे वयसि अभिधेये यत् तथा खञ् प्रत्ययौ उक्तौ स्तः । परन्तु यदि अयम् 'मास'शब्दः द्विगुसमासस्य उत्तरपदरूपेण आगच्छति, तर्हि एतौ प्रत्ययौ बाधित्वा द्विगोर्यप् 5.1.82 इत्यनेन यप्-प्रत्ययः भवति । 'षट् + मास' इत्यत्र अयम् यप्-प्रत्ययः तु भवत्येव, परन्तु वर्तमानसूत्रेण विकल्पेन ठञ् तथा ण्यत् प्रत्ययौ अपि भवतः । यथा -

1) षट् मासान् भूतः = षट् + मास + यप् → षण्मास्यः शिशुः ।

2) षट् मासान् भूतः = षट् + मास + ठञ् → षाण्मासिकः शिशुः ।

3) षट् मासान् भूतः = षट् + मास + ण्यत् → षाण्मास्यः शिशुः ।

ज्ञातव्यम् -

  1. पूर्वसूत्रे विद्यमानस्य 'यप्' प्रत्ययस्य यकारोत्तरः अकारः स्वरितः अस्ति, अतः स्वरितेनाधिकारः 1.3.11 इत्यनेन अस्मिन् सूत्रे 'यप्' इति अनुवर्तते । परन्तु ठञ्-प्रत्ययः अप्यत्र इष्यते । अतएव अस्मिन् सूत्रे 'च' इति उक्तमस्ति । 'च' इत्यनेन ठञ्-प्रत्ययस्य ग्रहणम् कर्तव्यम् - इति अत्र व्याख्यानेषु स्पष्टीक्रियते ।

  2. अस्य सूत्रस्य प्रयोगः 'वयसि' इत्येव भवति, अन्यत्र न । यथा - 'षट् मासान् भूतः ज्वरः' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । तत्र अग्रिमसूत्रेण ठन् तथा ण्यत् द्वौ प्रत्ययौ उक्तौ स्तः, तयोः एव प्रयोगः भवति ।

Balamanorama

Up

index: 5.1.83 sutra: षण्मासाण्ण्यच्च


षण्मासाण्ण्यच्च - अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यद्यवावेव स्यातां, नतु ठञपि । इष्यते तु ठञपि । तत्राह — यवप्यनुवर्तत इति । स्वरितत्वादिति भावः । तर्हि चकारः किमर्थ इत्यत आह — चाट्ठञिति । तथा च ण्यत् यप्-ठिञिति त्रयः प्रत्ययाः फलिताः ।

Padamanjari

Up

index: 5.1.83 sutra: षण्मासाण्ण्यच्च


औत्सर्गिकोऽपि ठञिष्यते इति। स कथमिष्यमाणोऽपि लभ्यैत्याह - स इति। यदि चकारष्ठञः समुच्चयार्थः। कथं तर्हि यब्भवति ? इत्याह - स्वरितत्वाच्चेति। एतच्च व्याख्यानादेव लभ्यते ॥