यज्ञर्त्विग्भ्यां घखञौ

5-1-71 यज्ञर्त्विग्भ्यां घः खञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अर्हति

Sampurna sutra

Up

'तत् अर्हति' (इति) यज्ञ-ऋत्विग्भ्यां घ-खञौ

Neelesh Sanskrit Brief

Up

'अर्हति' अस्मिन् अर्थे 'यज्ञ'शब्दात् घ-प्रत्ययः तथा ऋत्विज्-शब्दात् खञ्-प्रत्ययः भवति ।

Kashika

Up

यज्ञशब्दादृत्विक्शब्दात् च यथासंख्यं घखञौ प्रत्ययौ भवतः तदर्हतीत्यस्मिन् विषये। ठकोऽपवादौ। यज्ञियो ब्राह्मणः। आर्त्विजीनो ब्राह्मणः॥ यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम्॥ यज्ञकर्मार्हति यज्ञियो देशः। ऋत्विक्कर्मार्हति आर्त्विजीनं ब्राह्मणकुलम्। आर्हीयाणां ठगादीनां पूर्णोऽवधिः। अतः परं प्राग्वतीयष्ठञेव भवति॥

Siddhanta Kaumudi

Up

यथासंख्यं स्तः । यज्ञमृत्विजं वार्हति यज्ञियः । आर्त्विजीनो यजमानः ॥<!यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् !> (वार्तिकम्) ॥ यज्ञियो देशः । आर्त्विजीन ऋत्विक् ॥ इति आर्हीयाणां ठगादीनां द्वादशानां गतोऽवधिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'यज्ञमर्हति' अस्मिन् अर्थे 'यज्ञ'शब्दात् घ-प्रत्ययः तथा च 'ऋत्विज्' शब्दात् 'खञ्' प्रत्ययः भवति । यथा - 1. तम् यज्ञमर्हति यज्ञ + घ → यज्ञ + इय [<<आयनेयीनियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय्-आदेशः] → यज्ञ् + इय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → यज्ञिय । यज्ञमर्हति सः यज्ञियः ब्राह्मणः । 2. तम् ऋत्विजम् (= दानम् / sacrifice इत्यर्थः) अर्हति = ऋत्विज् + खञ् → ऋत्विज् + ईन [<<आयनेयीनियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → आर्त्विज् + ईन [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आर्त्विजीन ऋत्विजमर्हति सः आर्त्विजीनः ब्राह्मणः । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!यज्ञर्त्विग्भ्यां तत्कर्म अर्हति इत्युपसङ्ख्यानम्!> । इत्युक्ते, अनेन सूत्रेण निर्दिष्टौ शब्दौ 'यज्ञकर्म अर्हति' तथा 'ऋत्विक्कर्म अर्हति' एतयोः अर्थयोः अपि प्रयुज्येते । यथा - यज्ञकर्म अर्हतो सः यज्ञियः देशः । ऋत्विक्कर्म अर्हति तत् आर्त्विजीनम् ब्राह्मणकुलम् । अत्र यद्यपि विग्रहवाक्ये 'यज्ञकर्म' / 'ऋत्विजकर्म' एतौ शब्दौ भवतः, तथापि प्रत्ययविधानम् तु 'यज्ञ / ऋत्विज्' शब्दादेव भवति, न हि 'यज्ञकर्म / ऋत्विक्कर्म' शब्दात् - एतत् स्मर्तव्यम् । ज्ञातव्यम् - <<प्राग्वतेः ठञ्>> 5.1.18 इत्यस्मिन् अधिकारे <<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> 5.1.19 अनेन सूत्रेण यत् आर्हीयप्रकरणम् प्रारभ्यते, तत् अत्र समाप्यते । इत्युक्ते, <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> 5.1.19 इत्यस्मात् आरभ्य <<द्वित्रिपूर्वादण् च>> 5.1.36 इति यावत्सु सूत्रेषु निर्दिष्टाः अपवादाः अग्रिमसूत्रात् आरभ्य अग्रे न विधीयन्ते ।

Balamanorama

Up

<<यज्ञर्त्विग्भ्यां घखञौ>> - यज्ञत्वग्भ्यां घखञौ । तदर्हतीत्येव । यज्ञमृत्विज्ञं वेति । यज्ञमर्हतीति यज्ञिकः । ऋत्विजमर्हतीत्यात्वजीन इत्यन्वयः । तत्कर्मेति । यज्ञर्मार्हतीत्यर्थे यज्ञशब्दादृत्विक्कर्मार्हतीत्यर्थे ऋत्विक्छब्दाच्च यथासह्ख्यं घखञोरुपसह्ख्यानमित्यर्थः । यद्यपि यज्ञत्वक्छब्दयोस्तत्कर्मणि लक्षणया सिध्यति तथाप्यत्र प्रकरणे मुख्यार्थेभ्य एव प्रत्यय इति ज्ञापनार्थमिदम् । ठगादीनां द्वादशानामिति ।प्राग्वते॑रित्यारभ्यतेन क्रीत॑मित्यतः प्राक्र त्रयोदश प्रत्यया अनुक्रान्ताः । तत्रप्राग्वते॑रिति ठ#ं विनाआर्हा॑दित्यादिविहितानां ठगादीनां द्वादशानां विधिः पूर्ण इत्यर्थः ।* इति बालमनोरमायामार्हीयाणां द्वादशानां पूर्णोऽवधिः । ***अथ तिङन्ते आत्मनेपदप्रक्रिया ।

Padamanjari

Up

यज्ञमर्हतीति। स पुनर्यस्य विदुषोऽर्थिनः शास्त्रेणामर्युदस्तस्य द्रव्यवतो यझेऽधिकारः, स वेदितव्यः। देशस्यानैवंविधत्वाद्वचनम्। यज्ञत्विग्भ्यां तत्कर्मार्हतीत्युपसंखयानमिति। यज्ञकर्मार्हतीति। यज्ञकर्मानुष्ठनयोग्य इत्यर्थः। ऋत्विक्कर्मार्हतीति। ऋत्विग्भवितुमर्हतीत्यर्थः ॥