5-1-70 स्थालीबिलात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अर्हति यत् च
'तद् अर्हति' (इति) स्थालीबिलात् छः यत् च
'अर्हति' अस्मिन् अर्थे 'स्थालीबिल'शब्दात् छ-प्रत्ययः यत्-प्रत्ययः च भवति ।
छयतावनुवर्तते। स्थालीबिलशब्दात् छयतौ प्रत्ययौ भवतः तदर्हतीत्यस्मिन्नर्थे। ठकोऽपवादौ। स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः। स्थालीबिल्याः। पाकयोग्या इत्यर्थः॥
स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः । पाकयोग्याः इत्यर्थः ॥
स्थाल्याः उत पात्रस्य अन्तर्भागः 'स्थालीबिल' नाम्ना ज्ञायते । The interior of a vessel इत्यर्थः । अस्मात् शब्दात् 'अर्हति' इत्यस्मिन् अर्थे छ-प्रत्ययः तथा च यत्-प्रत्ययः भवति ।यथा, स्थालीबिलमर्हति तत् स्थालीबिलीयम् स्थालीबिल्यम् वा ओदनम् । स्थालीबिलमर्हति ते स्थालीबिलीयाः स्थालीबिल्याः वा तण्डुलाः । प्रक्रिये एतादृशे - 1. स्थालीबिल + छ → स्थालीबिल + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईय्-आदेशः] → स्थालीबिल् + ईय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → स्थालीबिलीय । 2. स्थालीबिल + यत् → स्थालीबिल् + यत् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → स्थालीबिल्य स्त्रीत्वे विवक्षिते उभयत्र <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः भवति । स्थालीबिलीया स्थालीबिल्या वा रोटिका ।
<<स्थालीबिलात्>> - स्थालीबिलात् । छयतावनुवर्तेते, तदर्हतीति च ।
च्छयतावनार्तेते इति। पूर्वसूत्रेऽपि न यच्चकारेणानुकृष्टः, तथा सति घन एव प्रसङ्गात्। किं तर्हि ? स्वरितत्वात्। अतो न सत्यानुवृत्तिर्दुलेभेति भावः। पाकयोग्या इत्यर्थ इति। त्रिफलीकृता इति यावत् ॥