5-1-61 सप्तनः खञ् छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् अस्य परिमाणम् वर्गे
'तत् अस्य परिमाणम्' (इति) वर्गे सप्तनः छन्दसि अञ्
'अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'सप्तन्' शब्दात् वेदेषु अञ्-प्रत्ययः कृतः दृश्यते ।
वर्ग इत्येव। तदस्य परिमाणमिति च। सप्तन्शब्दात् छन्दसि विषयेऽञ् प्रत्ययो भवति वर्गेऽभिधेये। स॒प्त साप्ता॑नि (तु० — तै०सं०५.४.७.५) असृजत्॥
तदस्य परिमाणम् - <{SK1723}> इति वर्ग इति च । सप्त साप्तानि असृजत् (सप्त॑ सा॒प्तानि॑ असृजत् ॥<! शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः !> (वार्तिकम्) ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनोमासाः ।<!विंशतेश्चेति वाच्यम् !> (वार्तिकम्) ॥ विंशिनोऽङ्गिरसः ।<!युष्मदस्मदोः सादृश्ये वतुब्वाच्यः !> (वार्तिकम्) ॥ त्वाववतः पुरूवसो (त्वाव॑वतः पुरूवसो) । न त्वावाँ अन्यः (न त्वावाँ॑ अ॒न्यः) । यज्ञं विप्रस्य मावतः (यज्ञं विप्र॑स्य मा॑वतः) ॥
'सप्त अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु सप्त-शब्दात् अञ्-प्रत्ययः कृतः दृश्यते - सप्त अस्य वर्गस्य परिमाणम् = सप्त + अञ् → साप्त [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] यथा - ऋग्वेदे 1.20.7 इत्यत्र 'ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते' अयम् प्रयोगः दृश्यते । अत्र 'साप्तानि' इत्युक्ते 'सप्त येषां परिमाणम्, तानि वर्गाणि' इति अर्थः । अस्य सूत्रस्य विषये कौमुदीकारः अस्मिन् सूत्रे कानिचन वार्त्तिकानि अपि पाठयति । तानि एतानि - 1. <!शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः!> । इत्युक्ते, 'तद् अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु 'शन्' तथा 'शत्' इत्यन्ताः शब्दाः 'डिनि' प्रत्ययमपि स्वीकुर्वन्ति । उदाहरणम् अ) पञ्चदशन् + डिनि → पञ्चदशिन् । यथा - 'आरण्यास्तेषां दश पञ्चदशिन एकादश दशिनः' इति मानवश्रौत्रसूत्रे उल्लेखः अस्ति । आ) त्रिंशत् + डिनि → त्रिंशिन् । वस्तुतः एतत् वार्त्तिकम् भाष्यकारेण <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यत्र पाठ्यते । 2. <!विंशतेश्चेति वाच्यम्!> । 'विंशति' शब्दात् अपि , 'तद् अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु 'डिनि' प्रत्ययः कृतः दृश्यते ।विंशतिः परिमाणमस्य तत् = विंशति + डिनि -→ विंशिन् । एतत् वार्त्तिकम् अपि भाष्यकारः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यत्र पाठयति । 3. <!युष्मदस्मदोः सादृश्ये वतुब्वाच्यः!> । 'युष्मद्' तथा 'अस्मद्' एताभ्याम् सर्वनामशब्दाभ्याम् 'सादृश्यम्' दर्शयितुम् 'वतुँप्' प्रत्ययः भवति । यथा - अ) युष्मत् + वतुँप् → युष्मत् + वत् [इत्संज्ञालोपः] -> त्वत् + वत् [<<प्रत्ययोत्तरपदयोश्च>> 7.2.98 इत्यनेन 'युष्म' इत्यस्य 'त्व' आदेशः भवति ।] → त्वावत् [<<आ सर्वनाम्नः>> 6.3.91 इति आकारादेशः । <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः ] यथा - ऋग्वेदे 6.30.4 - 'स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑' । आ) अस्मत् + वतुँप् → अस्मत् + वत् [इत्संज्ञालोपः] → मत् + वत् [<<प्रत्ययोत्तरपदयोश्च>> 7.2.98 इत्यनेन 'अस्म' इत्यस्य 'म' आदेशः भवति ।] → मावत् [<<आ सर्वनाम्नः>> 6.3.91 इति आकारादेशः । <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः ] यथा - ऋग्वेदे 1.17.2 - गन्ता॑रा॒ हि स्थोऽ॑वसे॒ हवं॒ विप्र॑स्य॒ माव॑तः । एतत् वार्त्तिकम् भाष्यकारः काशिकाकारः च <<यद्तदेतेभ्यः परिमाणे वतुप्>> 5.2.39 इत्यत्र पाठयति ।