5-1-62 त्रिंशच्चत्वारिंशतोः ब्राह्मणे सञ्ज्ञायां डण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् अस्य परिमाणम्
'तत् अस्य परिमाणम्' (इति) त्रिंशत्-चत्वारिंशतोः संज्ञायां ब्राह्मणे डण्
'एषाम् ब्राह्मणानाम् परिमाणम्' अस्मिन् अर्थे प्रथमासमर्थात् त्रिंशत्-शब्दात् चत्वारिंशत्-शब्दात् च संज्ञां दर्शयितुम् 'डण्' प्रत्ययः भवति ।
तदस्य परिमाणमित्येव। वर्ग इति निवृत्तम्। त्रिंशच्चत्वारिंशच्छब्दाभ्यां संज्ञायां विषये डण् प्रत्ययो भवति तदस्य परिमाणमित्येतस्मिन् विषये ब्राह्मणेऽभिधेये। अभिधेयसप्तम्येषा, न विषयसप्तमी। तेन मन्त्रभाषयोरपि भवति। त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि ब्राह्मणानि। चात्वारिंशानि ब्राह्मणानि। कानिचिदेव ब्राह्मणान्युच्यन्ते॥
त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ॥
'त्रिंशत् परिमाणम् एषाम् ब्राह्मणानाम्' तथा च 'चत्वारिंशत् परिमाणम् एषाम् ब्राह्मणानाम्' अनयोः अर्थयोः भाषायां प्रयुज्यमाणौ 'त्रैंश' तथा 'चात्वारिंश' एतौ संज्ञावाचिनौ शब्दौ अनेन सूत्रेण सिद्ध्यतः । अत्र 'ब्राह्मण'शब्दः 'वेदस्य मन्त्रभिन्नः भागः' अस्मिन् अर्थे प्रयुक्तः अस्ति, न हि 'ब्राह्मणजातिः' अस्मिन् अर्थे । यथा - 1. त्रिंशत् अध्यायाः परिमाणम् एषाम् ब्राह्मणानाम् = त्रिंशत् + डण् → त्रैंशत् + अ [इत्संज्ञालोपः, णित्वात् <<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → त्रैंश् + अ [<<टेः>> 6.4.143 इति टिलोपः] → त्रैंश 2. तथैव - चत्वारिंशत् सूक्तानि परिमाणम् एषाम् ब्राह्मणानाम् = चात्वारिंश । यथा - त्रैंशानि ब्राह्मणानि, चात्वरिंशानि ब्राह्मणानि - एतादृशाः प्रयोगाः दृश्यते । तेषाम् समर्थनार्थम् इदम् सूत्रम् निर्मितमस्ति ।
<<त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्>> - तिंरशच्चत्वारिंशतोः । तदस्य परिमाणमित्यर्थे परिमाणिनि ब्राआहृणे वाच्ये त्रिशच्चत्वारिंशद्भ्यां डण्स्यादित्यर्थः । ब्राआहृणं=वेदेषु मन्त्रव्यतिरिक्तो भागः । त्रैंशानीति । डित्त्वात् 'टेः' इति टिलोपः ।
न विषयसप्तमीति। ब्राह्मणविषयश्चेत्प्रयोगो भवतीति नैवमत्रार्थः, नैवमत्रार्थः, तथा हि सति मन्त्रे भाषायां च प्रयोगो न स्यात्, ब्राह्मणादन्यस्य च संज्ञायां शङ्क्येत, एवं च'ब्राह्मणसंज्ञायाम्' इति षष्ठीसमासेन निर्देअष्टव्यम्, तथा तु न कृतमितेयेव सूत्रे च ये ओकारादन्तरं रेफमधीयते तेषां पञ्चम्यर्ये षष्ठीद्विवचनम्। ये तु न, तेषां समाहारद्वन्द्वे पञ्चम्येकवचनम् ॥