वतोरिड्वा

5-1-23 वतोः इड् वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् कन्

Sampurna sutra

Up

index: 5.1.23 sutra: वतोरिड्वा


आ-अर्हात् वतोः संख्यायाः इट् वा

Neelesh Sanskrit Brief

Up

index: 5.1.23 sutra: वतोरिड्वा


'वतुँप्' प्रत्ययान्तेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः आर्हीय-अर्थेषु प्राप्तस्य कन्-प्रत्ययस्य विकल्पेन इडागमः भवति ।

Kashika

Up

index: 5.1.23 sutra: वतोरिड्वा


वत्वन्तस्य सङ्ख्यात्वात् कन् सिद्ध एव, तस्य त्वनेन वा इडागमो विधीयते। वतोः परस्य अनो वा इडागमो भवति आर्हीयेष्वर्थेषु। तावतिकः, तावत्कः। यावतिकः, यावत्कः।

Siddhanta Kaumudi

Up

index: 5.1.23 sutra: वतोरिड्वा


वत्वान्तात्कन इड्वा स्यात् । तावतिकः । तावत्कः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.23 sutra: वतोरिड्वा


प्राग्वतेष्ठञ् 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु 'वतुँप्' प्रत्ययान्ताः ये सङ्ख्यावाचिनः शब्दाः सन्ति, तेषां विषये सर्वेषु आर्हीय-अर्थेषु एतम् औत्सर्गिकम् प्रत्ययं बाधित्वा संख्याया अतिशदन्तायाः कन् 5.1.22 इत्यनेन कन्-प्रत्ययः विधीयते । वर्तमानसूत्रेण अस्य कन्-प्रत्ययस्य विकल्पेन इडागमः भवति ।

आदौ किम् नाम 'वतुँप्' तत् पश्यामः । 'वतुँ' इति कश्चन तद्धितप्रत्ययः । यद्तदेतेभ्यः परिमाणे वतुप् 5.2.39 इत्यनेन यद् / तद् इत्येतयोः वतुप्-प्रत्ययः विधीयते , येन 'यावत्' / 'तावत्' एतौ शब्दौ सिद्ध्यतः । बहुगणवतुडति संख्या 1.1.23 इत्यनेन एतौ शब्दौ 'सङ्ख्या' इति संज्ञां प्राप्नुतः । अतः एतेषाम् विषये संख्याया अतिशदन्तायाः कन् 5.1.22 इत्यनेन कन्-प्रत्ययः भवति । अस्य कन्-प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन इडागमः भवति । आद्यन्तौ टकितौ 1.1.46 इत्यनेन अयम् इडागमः प्रत्ययस्य आद्यवयवरूपेण आगच्छति ।

यथा - यावता क्रीतम्

= यावत् + कन्

→ यावत् + इट् + कन् [वतोरिड्वा 5.1.23 इति विकल्पेन इडागमः]

→ यावतिक

इडागमस्य अभावपक्षे 'यावत् + कन् → यावत्क' इत्यपि रूपं सिद्ध्यति । यावता क्रीतम् यावतिकम् यावत्कम् च । तथैव, तावता क्रीतम् तावत्कम् तावतिकम् च ।

Balamanorama

Up

index: 5.1.23 sutra: वतोरिड्वा


वतोरिड्वा - वतोरिड्वा ।वतो॑रित्यनेन प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते ।क॑न्निति प्रथमान्तमनुवृत्तम्,वतो॑रिति पञ्चमीतस्मादित्युत्तरस्ये॑ति परिभाषया षष्ठन्यतं प्रकल्पयति । तदाह — वत्वन्तादिति । तावतिक इति तावता क्रीत इत्यर्थः । 'यत्तदेतेभ्यः' इति वतुप् । 'बहुगणवतु' इति सङ्ख्यासंज्ञायां सङ्ख्याया अतिशदन्तायाः॑ इति कन्, तस्य इट्, टित्त्वादाद्यवयवः ।

Padamanjari

Up

index: 5.1.23 sutra: वतोरिड्वा


तस्य त्वनेनेति।'चरेष्टः' इत्यादिवत्प्रत्ययान्तरं त्विण्न भवति; टित्करणसामर्थ्यात्। अस्त्यन्यट्टित्करणस्य प्रयोजनं टित इति ङीब्यथा स्यात् ? अत इत्यधिकारे ङीप्, न चैषोऽकारान्तः, टित्करणसामर्थ्यादनदन्तादपि ङीप् स्यात्, यथा - डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् सरज इत्यत्र टिलोपः। एघं तर्हि स्वरितत्वप्रतिज्ञानेन कनोऽनुकर्षणसामर्थ्यादागमो भविष्यति ? अस्त्यन्यदनुवृतेः प्रयोजनम् - इटा बाधो मा भूत् कनोपि विधिर्यथा स्यादिति ? वावचनादेवल कन् भविष्यति ? इदं तर्हि प्रयोजनं स्यात्-इट्कनौ वा भवतः, पक्षे सामन्यविहितष्ठञिति ? तस्माद्व्याख्यानमेव शरणम्। ननु नेह कन्ग्रहणमस्ति, यदपि प्रकृतम्, तदपि प्रथमानिर्दिष्टम, षष्ठीनिर्दिष्टेन चेहार्थः, वतोरिति पञ्चमी कनिति प्रथमायाः षष्ठी प्रकल्पयिष्यति -'तस्मादित्युतरस्य' इति। तावत्क इति। तत्परिमाणमस्य'यतदेतेफभ्यः परिमाणे वतुप्' , ठा सर्वनाम्नःऽ॥