श्वगणाट्ठञ्च

4-4-11 श्वगणात् ठञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन चरति ष्ठन्

Sampurna sutra

Up

'तेन चरति' (इति) श्वगणात् ष्ठन् ठञ् च

Neelesh Sanskrit Brief

Up

'चरति' अस्मिन् अर्थे तृतीयासमर्थात् 'श्वगण' शब्दात् ष्ठन् तथा ठञ् प्रत्ययौ भवतः ।

Kashika

Up

श्वगणशब्दात् ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। श्वगणेन चरति श्वागणिकः। श्वागणिकी। ष्ठन् — श्वगणिकः। श्वगणिकी। श्वादेरिञि ७.३.८ इत्यत्र वक्ष्यति — <<इकारादिग्रहणं च कर्तव्यं श्वागणिकाद्यर्थम्>> (वा० ७.३.८) इति। तेन ठञि द्वारादिकार्यं न भवति॥

Siddhanta Kaumudi

Up

चात् ष्ठन् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

श्वगणेन (श्वानपथकस्य साहाय्येन) यः चरति, तस्य निर्देशं कर्तुम् तृतीयासमर्थात् 'श्वगण'शब्दात् 'ष्ठन्' तथा 'ठञ्' प्रत्ययौ भवतः । यथा - 1. श्वगणेन चरति सः = श्वगण + ष्ठन् → श्वगण + ठ [इत्संज्ञालोपः] → श्वगण + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → श्वगण् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → श्वगणिक । स्त्रीलिङ्गे विवक्षिते प्रत्ययस्य षित्वात् <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन ङीष्-प्रत्ययं कृत्वा 'श्वगणिकी' इति प्रातिपदिकं सिद्ध्यति । 2. श्वगणेन चरति सः = श्वगण + ठञ् → श्वगण + ठ [इत्संज्ञालोपः] → श्वगण + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → श्वागण + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → श्वागण् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → श्वागणिक । स्त्रीलिङ्गे विवक्षिते <<टिड्ढाणञ्>> 4.1.41 इत्यनेन ङीप्-प्रत्ययं कृत्वा 'श्वागणिकी' इति प्रातिपदिकं सिद्ध्यति । ज्ञातव्यम् - 'श्वन्' अयम् शब्दः <<द्वारादीनां च>> 7.3.4 इत्यत्र द्वारादिगणे निर्दिष्टः अस्ति, अतः वस्तुतः 'श्वगण' इत्यत्र आदिवृद्धिं बाधित्वा ऐच्-आगमः भवेत् । परन्तु <<श्वादेरिञि>> 7.3.8 इत्यत्र निर्दिष्टेन <!इकारादाविति वाच्यम् !> अनेन वार्त्तिकेन अस्य ऐच्-आगमस्य निषेधः भवति । अतः [<<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धिं कृत्वैव रूपं सिद्ध्यति ।

Balamanorama

Up

<<श्वगणाट्ठञ्च>> - आगणाट्ठञ् च । 'उक्तविषये' इति शेषः । आगणशब्दात्तृतीयान्ताच्चरतीत्यर्थे ठञ् ष्ठन् च स्यादित्यर्थः । आआगणिक इत्युदाहरणं वक्ष्यति । तत्र आन्शब्दस्य द्वारादित्वादेजागमे प्राप्ते ।

Padamanjari

Up

श्वागणिक इति । ननु च श्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते, तत्कथं श्वागणिक इति ? तत्राह - श्वादेरिञीत्यत्रेति ॥