7-3-8 श्वा देः इञि वृद्धिः अचः ञ्णिति तद्धितेषु आदेः न
index: 7.3.8 sutra: श्वादेरिञि
श्वादेः अङ्गस्य इञि परतो यदुक्तं तन भवति। श्वभस्त्रस्य अपत्यम् श्वाभस्त्रिः। श्वादंष्ट्रिः। श्वन्श्बदो द्वारादिषु पठ्यते, तत्र च तदादिविधिर्भवतीति एतदेव वचनं ज्ञापकम्। इकारादिग्रहणम् कर्तव्यं श्वागणिकाद्यर्थम्। श्वगणेन चरति श्वागणिकः। श्वायूथिकः। तदन्तस्य च अन्यत्र अपि तद्धिते प्रतिषेध इष्यते। श्वाभस्त्रेः इदम् श्वाभस्त्रम्।
index: 7.3.8 sutra: श्वादेरिञि
ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्टिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ ॥<!इकारादाविति वाच्यम् !> (वार्तिकम्) ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥
index: 7.3.8 sutra: श्वादेरिञि
श्वादेरिञि - आआदेरिञि । 'न कर्मव्यतिहारे' इत्यतो नेत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । आन्शब्द आदिर्यस्येति विग्रहः । आन्शब्दपूर्वपदस्याङ्गस्य इञि परे नैजागम इत्यर्थः । आआमस्त्रिरिति ।अत इञ् । आआदंष्ट्रिरिति ।आदंष्ट्रस्याऽपत्यमित्यर्थः । ननु आन्शब्द एव द्वारादौ पठते नतु आभस्त्रशभ्दः । ततश्च तस्य द्वारादित्वाऽभावादैजागमप्रसक्तिरेव नेत्यत आह — तदादिविधाविति । द्वारादिगणे आन्शब्दस्य पाटेऽपि अस्मादेव प्रतिषेधात् आन्शब्दपूर्वकस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः । तत्फलं तु आवहनस्येदं शौववहानं नाम नगरम् ।ननु प्रकृते आआगणिके इञभवात्कथमयं निषेध इत्यत आह — इकारादाविति वाच्यमिति । इञीति परित्यज्य इकारादाविति वाच्यमित्यर्थः । इढि तु व्यपदेशित्त्वेन इकारादित्वम् । आआगणिक इति ठञि आदिवृद्धिः । आगणिक इति । ष्ठनि रूपम् । आआगणिकीति । ठञन्तात्टिड्ढाण॑ञिति ङीप् । आगणिकीति । षित्त्वान्ङीष् ।
index: 7.3.8 sutra: श्वादेरिञि
तत्र चेत्यादि । यदि तत्र तदादिविधिर्न स्यात् एतद्वचनमनर्थकम्, कथम् ? केवलश्वन्शब्दो द्वारादिषु पठ।ल्ते, तत्र कः प्रसङ्गो यतदादेः स्यात् ! तदादिविधिर्भवतीति । अस्मिन्प्रकरणे यदुक्तं तद्वृद्धिभाजोऽचो विशेषणमित्यस्मिन्नर्थे ज्ञापकमित्यर्थः । इकारादिग्रहणं चेत्यादि । श्वादेरितीति वक्तव्यमित्यर्थः । तत्र वर्णग्रहणे सप्तमीनिर्देशातदादिविधिः । श्वागणिक इति ।'श्वगणाट्ठञ्' इति ठञ् । तदन्तस्येति । इञन्तस्य । श्वाभस्त्रमिति । ठिञश्चऽ इत्यण् । तन्निमितो वृद्धिप्रतिषेधः, ऐजागमश्च भिन्नकक्षत्वादशक्य इञाश्रयेण प्रतिषेधेन निवारयितुमिति वचनारम्भः ॥