4-4-10 पर्पादिभ्यः ष्ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन चरति
'तेन चरति' (इति) पर्पादिभ्यः ष्ठन्
पर्पादिगणस्य तृतीयासमर्थेभ्यः शब्देभ्यः 'चरति' अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति ।
पर्प इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पर्पिकः। पर्पिकी। अश्विकः। अश्विकी॥ पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पादः पच्च (ग०सू० १०७)। पदिकः। पर्पादिः॥
पर्पेण चरति । पर्पिकः पर्पिकी । येन पीठेन पङ्गवश्चरन्ति न पर्पः । अश्विकः । रथिकः ॥
पर्पादिगणे निर्दिष्टानाम् शब्दानां विषये 'चरति' अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा ष्ठन्-प्रत्ययः विधीयते । पर्पादिगणः अयम् - पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पादः पत् च (गणसूत्रम्) । यथा - 1. पर्पेण चरतिः सः = पर्प + ष्ठन् → पर्पिक । (पर्प = तत् शकटम् यस्मिन् उपविश्य पङ्गवः चरन्ति ) । प्रक्रिया- पर्प + ष्ठन् → पर्प + ठ [षकारनकारयोः इत्संज्ञा, लोपः] → पर्प + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → पर्प् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः → पर्पिक । 2. रथेन चरति सः रथिकः । प्रक्रिया तु पर्प-शब्दवदेव । पर्पादिगणे 'पादः पत्' इति गणसूत्रम् वर्तते । अनेन 'पाद' इति शब्दस्य ष्ठन्-प्रत्यये परे पद्-आदेशः भवति । पादेन चलति सः पदिकः । प्रक्रिया इयम् - पाद + ष्ठन् → पाद + ठ [षकारनकारयोः इत्संज्ञा, लोपः] → पाद + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → पद् + इक ['पादः पत् च' इति गणसूत्रम् । अनेन 'पाद' शब्दस्य पद्-आदेशः भवति ।] → पदिक ज्ञातव्यम् - 1. 'ष्ठन्'-प्रत्यये नकारः स्वरनिर्देशार्थम् स्वीक्रियते । <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन नित्-प्रत्यये परे समुदायस्य आद्युदात्तत्वं विधीयते । अतः पर्पिक, रथिक, पदिक - एतेषु सर्वेषु शब्देषु प्रथमः स्वरः उदात्तत्वं प्राप्नोति । 2. 'ष्ठन्'-प्रत्यये षकारग्रहणम् 'ङीष्'विधानार्थम् क्रियते । षित्-प्रत्ययान्तशब्दाः स्त्रीलिङ्गे <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन ङीष्-प्रत्ययं स्वीकुर्वन्ति । यथा = पर्पेण चरति सा = पर्पिक + ङीष् → पर्पिकी ।
<<पर्पादिभ्यः ष्ठन्>> - पर्पादिभ्यः ष्ठन् । ष्ठन् इति च्छेदः ।चरतीत्यर्थे तृतीयान्तेभ्य॑ इति शेषः । षित्त्वं ङीषर्थमित्याह — पर्पिकीति । अइआक इति । अओन चरतीत्यर्थः ।
पर्पादिषु'पादः पत्' इति पठ।ल्ते, पादाभ्यां चरति पदिकः,'पद्यत्यतदर्थे' इत्यत्र वक्ष्यति -ठ्पद्भाव इके चरतावुपसङ्ख्यानम्ऽ इति, सोऽस्यैव प्रपञ्चार्थः ॥