4-2-38 भिक्षादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः
तस्य समूहः (इति) भिक्षादिभ्यः अण्
भिक्षादिगणस्य शब्दानां विषये 'तस्य समूहः' अस्मिन् अर्थे अण्-प्रत्ययः विधीयते ।
भिक्षेत्येवमादिभ्यः शब्देभ्योऽण् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अण्ग्रहणं बाधकबाधनार्थम्। भिक्षाणां समूहो भैक्षम्। गार्भिणम्। युवतिशब्दोऽत्र पठ्यते, तस्य ग्रहणसामर्थ्यात् पुंवद्भावो न भवति <<भस्याढे तद्धिते०>> (वा० ६.३.३५) इति। युवतीनां समूहो यौवतम्॥ भिक्षा। गर्भिणी। क्षेत्र। करीष। अङ्गार। चर्मिन्। धर्मिन्। सहस्र। युवति। पदाति। पद्धति। अथर्वन्। दक्षिणा। भूत॥
भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥
भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह <<भस्याढे तद्धिते पुंवद्भावो वक्तव्यः>> (वार्त्तिकम्) । इति पुंवद्भावे कृते -
'भिक्षादिगणः' इति कश्चन गणः । अस्मिन् गणे ये शब्दाः पाठिताः सन्ति, तेषां विषये <<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे सर्वान् अपवादान् बाधित्वा अण्-प्रत्ययः एव विधीयते । भिक्षादिगणः अयम् - भिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्, धर्मिन्, सहस्र, युवति, पदाति, पद्धति, अथर्वन्, दक्षिणा, भूत । अस्मिन् गणे ये अचित्तवाचिनः शब्दाः सन्ति, तेषां विषये <<अचित्तहस्तिधेनोः ठक्>> 4.2.47 इत्यनेन ठक्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । अन्येभ्यः शब्देभ्यः <<अनुदात्तादेः अञ्>> 4.2.44 अनेन सूत्रेण अञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । 1. भिक्षाणां समूहः = भिक्षा + अण् → भैक्षम् । 2. गर्भिणीनां समूहः गार्भिणम् । 3. क्षेत्राणां समूहः क्षैत्रम् । 4. अङ्गाराणां समूहः आङ्गारम् । 5. चर्मिणाम् समूहः चार्मिणम् । अस्य प्रक्रिया इयम् - चर्मिन् + अण् → चार्मिन् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → चार्मिण [ <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते <<संयोगादिश्च>> 6.4.166 इति टिलोपनिषेधः] 6. धर्मिणां समूहः धार्मिणम् । 7. युवतीनां समूहः यौवनम् । प्रक्रिया इयम् - युवती + अण् → युवन् + अण् [<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अनेन वार्त्तिकेन पुंवद्भावः] → यौवन् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → यौवन [<<अन्>> 6.4.167 इति टिलोपनिषेधः] 8. पदातीनां समूहः पादातम् । 9. पद्धतीनां समूहः पाद्धतम् । 10. अथर्वणां समूहः आथर्वम् । 11. दक्षिणानां समूहः दाक्षिणम् । 12. भूतानां समूहः भौतम् ।
<<भिक्षाऽऽदिभ्योऽण्>> - भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्रअचित्तहस्ती॑ति वक्ष्यमाणठगपवादोऽण् । गार्भिणमिति । गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः परश्च आद्युदात्तश्चेति इकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्ज॑मिति शिष्टस्यानुदात्तत्वे गर्भिन्शब्दः अनुदात्तादिः । ततो नान्तलक्षणङीपि तस्यअनुदात्तो सुप्पितौ॑ इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽर्थेअनुदात्तादेर॑ञिति वक्ष्यमाणे अञि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेणान्तोदात्तत्वम्, अञि तुञ्नित्यादिर्नित्यम् इत्याद्युदात्तत्वमिति स्वरे विशेषः । अणि टिलोपाऽभावोऽपि प्रयोजनमिति दर्शयति — इह भस्येति । गर्भिणीशब्दादणि सति 'भस्याऽढे' इति पुंवत्त्वेन ङीपो निवृत्तौ गर्भिन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपे प्राप्ते सतीत्यर्थः ।
अण्ग्रहणं बाधकबाधनार्थमिति । भिक्षाशब्दोऽयम्'गुरोश्च हलः' इत्यकारप्रत्ययान्तत्वादन्तोदातः, ततः ठनुदातादेःऽ इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधनार्थमण्ग्रहणम् । ननु च यद्यत्राञ्, स्यात्पुनर्वचनमनर्थकं स्यात् ? नानर्थकम्; परत्वादचि ततल्लक्षणष्ठक् प्राप्नोति, तद्वाधनार्थमत्र पुनर्वचनं स्यादित्यञ् स्यादेव, पुनरण्ग्रहणादणेव भवति । गार्भिणमिति ।'भस्या' ढेअ तद्धितेऽ इति पुंवद्भावेन ङीपो निवृत्तिः, ततोऽणि ठिमण्यनपत्येऽ इति प्रकृतिभावात्'नस्तद्धिते' इति टिलोपाभावः । तस्य ग्रहणसामर्थ्यात्पुंवद्भावो न भवतीति । यदि स्यात्,'सिद्धत्वात्प्रत्ययविधौ' इति वचनादनुत्पन्न एव तद्धिते पुंवद्भावेन भवितव्यम् । युवशब्दश्चऽ कनिन्युवृषऽ इति कनिन्प्रत्ययान्तत्वादाद्यौदात इत्यौत्सगिक एवाण् सिद्ध इति तस्येह पाठोऽनर्थकः स्यात् । यौवतमिति । यथा तु वातिकं तथा पुंवद्भाव इष्यते । आह हि -'भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ' इति ॥