4-2-31 वायुऋतुपित्रुषसः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता
'सा अस्य देवता' (इति) वायु-ऋतु-पितृ-उषसः यत्
'सा अस्य देवता' अस्मिन् अर्थे 'वायु', 'ऋतु', 'पितृ' तथा 'उषस्' शब्दात् यत् प्रत्ययः भवति ।
The words 'वायु', 'ऋतु', 'पितृ' and 'उषस्' get the प्रत्यय यत् in the meaning of 'सा अस्य देवता'.
वाय्वादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। वायुर्देवतास्य वायव्यम्। ऋतव्यम्। पित्र्य॒म् (ऋ०८.२०.१३)। उषस्यम्॥
वायव्यम् । ऋतव्यम् ॥
वायव्यम्। ऋतव्यम्॥
<<सा अस्य देवता>> 4.2.24 इत्यस्मिन् अर्थे एतेभ्यः शब्देभ्यः अण्-प्रत्ययस्य अपवादरूपेण यत्-प्रत्ययः विधीयते । यथा - 1. वायुः अस्य देवता सः = वायु + यत् → वायो + यत् [<<ओर्गुणः>> 6.4.146 इति गुणादेशः] → वायव्य [<<वान्तो यि प्रत्यये>> 6.1.79 इति अवादेशः] 2. ऋतुः अस्य देवता सः = ऋतु + यत् → ऋतो + यत् [<<ओर्गुणः>> 6.4.146 इति गुणादेशः] → ऋतव्य [<<वान्तो यि प्रत्यये>> 6.1.79 इति अवादेशः] 3. पिता अस्य देवता सः = पितृ + यत् → पित् रीङ् + य [<<रीङ् ऋतः>> 7.4.27 इति ऋकारस्य रीङ्-आदेशः । ङित्वात् <<ङिच्च>> 1.1.53 इति अन्त्यादेशः] → पित् री + य [इत्संज्ञालोपः] → पित् र् + य [<<यस्येति च>> 6.4.148 इति ईकारलोपः] → पित्र्य 4. उषाः अस्य देवता सः = उषस् + यत् → उषस्य
<<वाय्वृतुपित्रुषसो यत्>> - वाय्वृतुपित्रुषसो यत् । वायु, ऋतु, पितृ,उषस् एभ्यो यदित्यर्थः । वायव्यमिति । वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः ।वान्तो यी॑त्यवादेशः । ऋतव्यमिति । ऋतुर्देवता अस्येति विग्रहः ।
वायव्यमिति । ठोर्गुणःऽ,'वान्तो यि प्रत्यये' पित्र्यमिति । रीण्ःóतःऽ इति रीङ्, यस्येति लोपः ॥