4-2-29 महेन्द्रात् घाणौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता छ
'सा अस्य देवता' (इति) महेन्द्रात् घ-अणौ, छ च
महेन्द्र-शब्दात् 'सा अस्य देवता' अस्मिन् अर्थे घ-प्रत्ययः, छ-प्रत्ययः, अण्-प्रत्ययः च भवन्ति ।
The word 'महेन्द्र' gets the प्रत्ययाः घ, छ, and अण् in the meaning of 'सा अस्य देवता'.
महेन्द्रशब्दाद् घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, सास्य देवतेत्यस्मिन् विषये। महेन्द्रो देवतास्य महेन्द्रियं हविः। मा॑हे॒न्द्रम् (तै०सं० ६.५.५.४)। महेन्द्रीयम् (काठ० सं० १५.१)॥
चाच्छः । महेन्द्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् ॥
<<सा अस्य देवता>> 4.2.24 अस्मिन् अर्थे महेन्द्र-शब्दात् घ-प्रत्ययः, छ-प्रत्ययः, तथा अण्-प्रत्ययः विधीयन्ते । 1) महेन्द्रः अस्य देवता = महेन्द्र + घ → महेन्द्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय्-आदेशः] → महेन्द्र् + इय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → महेन्द्रिय 2) महेन्द्र अस्य देवता = महेन्द्र + छ → महेन्द्र + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय्-आदेशः] → महेन्द्र् + ईय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → महेन्द्रीय 3) महेन्द्र अस्य देवता = महेन्द्र + अण् → माहेन्द्र + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → माहेन्द्र् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → माहेन्द्र । अनेन प्रकारेण 'महेन्द्रिय' , 'महेन्द्रीय', तथा 'माहेन्द्र' एते शब्दाः सिद्ध्यन्ति ।
<<महेन्द्राद्घाणौ च>> - महेन्द्राद्धाणौ च । महेन्द्रियमिति । महेन्द्रो देवता अस्येति विग्रहः घस्य इयादेशः माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति । छस्य ईयादेशः ।
सौमीति । टित्वान्ङीप्,'हलस्तद्धितस्य' इति यलोपः ॥