न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्

7-3-3 न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्याम् ऐच् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यकारवकाराभ्यां पदान्ताभ्याम् उत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति, ताभ्यां तु यकारवकाराभ्यां पूर्वमैजागमौ भवतो ञिति णिति किति च तद्धिते परतः। यकारादैकारः, वकारादौकारः। व्यसने भवं वैयसनम्। व्याकरणमधीते वैयाकरणः। स्वश्वस्यापत्यं सौवश्वः। य्वाभ्यामिति किम्? न्रर्थस्यापत्यं न्रार्थिः। पदान्ताभ्यामिति किम्? यष्टिः प्रहरणमस्य याष्टीकः। यतश्छात्रा याताः। प्रतिषेधवचनमैचोर्विषयप्रक्ऌप्त्यर्थम्, इह मा भूत् — दाध्यश्विः, माध्वश्विरिति। न ह्यत्र य्वाभ्यामुत्तरस्य वृद्धिप्रसङ्गोऽस्ति। वृद्धेरभावात् प्रतिषेधोऽपि नास्तीत्यप्रसङ्ग। उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते। पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः। यत्र तूत्तरपदसंबन्धी यण् न भवति, तत्र नेष्यते प्रतिषेधः। द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः॥

Siddhanta Kaumudi

Up

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः । इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किं तु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः। व्याकरणमधीते वेद वा वैयाकरणः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्>> - न य्वाभ्यां । य्च वश्च य्वाविति विग्रहः । वकारादकार उच्चारणार्थं । तदाह — यकारवकाराभ्यामिति ।परस्ये॑त्यध्याहारलभ्यम् । न वृद्धिरिति ।मृजेर्व-द्धि॑रित्यतस्तदनुवृत्तेरिति भावः । 'तु' शब्दो विशेषप्रदर्शनार्थ इत्याह — किंत्विति । ताभ्यामिति । यकारवकाराभ्यामित्यर्थः । पूर्वाविति । पूर्वावयवावित्यर्थः । तेन आगमत्वं लभ्यते । तदाह — ऐचावागमाविति । ऐच् — प्रत्याहारः । यथासङ्ख्यं यकारात्पूर्व ऐकारः, वकारात्पूर्व औकारः । वैयासकिरिति । वेदान्व्यस्यति=विवधमस्यति — शाखाभेदेन विभजतीति वेदव्यासः । कर्मण्यण् । अत्र नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः । प्रकृतेरकडादेशः । अत्र यकारः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति, किंतु यकारात्पूर्व ऐकार आगमः । वैयसकिरिति रूपम् । स्वआस्यापत्यं सौवइआरित्यत्र वकारात्परस्य न वृद्धिः, किन्तु ततः पूर्व औकारः । नच ऐचो वृद्द्यापवादत्वादेव वृद्ध्यभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यं, यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धेर्निषेधस्तत्रैव ऐजागमाविति विषयनिर्देशार्थत्वात् । तेन दाध्यइआरित्यादौ न । वृद्धिनिषेधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धेरेव । तेन द्वे अशीती भृतो 'द्व्याशीतिक' इत्यत्रसङ्ख्यायाः संवत्सरसङ्ख्यस्य च॑ इत्युत्तरपदवृद्धिर्भवत्येव । वरुडादयो जातिविशेषाः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः ।

Padamanjari

Up

अत्रार्थद्वयविधानाद्वाक्यभेदः, तस्यैव द्योतकस्तुशब्दः,'पूर्वौ' इत्यनेन सम्बन्धादैचाविति प्राप्ते एकवचनं सौत्रम् । वृतौ तु क्रियाविशेषणत्वादेकवचनम् । ताभ्यां तु पूर्वमिति । ऐजागमो भवतीति । टित्वाद्यागमलिङ्गाभावेऽपि पूर्वशब्देन देशविशेषे भवन्नागम इत्युच्यते - आगच्छतीत्यागम इति । वैयसनमिति ।'गतिकारकोपपदानां प्राक्सुबुत्पतेः समासः' इत्युतरपदविषयमित्यवीचाम । तेन वैयसनादिषु य्वोः पदान्तत्वम् । स्वश्वशब्दः शिवदिः । याष्टीक इति ।'शक्तियष्ट।लेरीकक्' । ननु चात्राचामादेः स्थाने यौ य्वौ ताभ्यामित्याश्रयणाअदेव न भविष्यति ? तत्राह - यत इम इति । 'इण् गतौ' लटः शत्रादेशः, शपो लुक्, ठिणो यण्ऽ । इहासत्यपि प्रतिषेधे वैयसनमित्यादौ व्यसन अ अ इति स्थिते वृद्धिश्च प्राप्नोति, ऐजागमश्च; तत्र वृद्धिरनित्या, शब्दान्तरप्राप्तेः । सा ह्यएचि कृते तस्यैव प्राप्नोति; तन्मध्यपतितस्य तद्ग्रहणेन प्रहणात् । ऐजागमस्तु नित्य इति स एव तावद्भवति । तत्र कृते यद्यपि पुनः - प्रसङ्गविज्ञानाद् वृद्धिः, तथाप्यान्तर्यत ऐकारस्यैकारः, औकारस्यौकार इति न कश्चिद्दोषः, किं प्रतिषेधेन ! नन्वसति तस्मिन्, वैयाकरणी भार्या अस्य वैयाकरणभार्य इति'वृद्धिनिमितस्य' इति पुंवद्भावप्रतिषेधः स्यात्, सति तु प्रतिषेधे न भवति; कथं न भवति, यावता वृद्धेर्निमितं ञणका यस्मिंस्तद्धित इति बहुव्रीहिः, विद्यते चात्र णकारः ? सत्यं विद्यते, निमितं तु न भवति;'कुर्वद्रूपे हि निमितशब्दो मुख्यः' इत्युक्तम् । ननु च मा भूत्'तद्धितेष्वचामादेः' इत्यस्या वृद्धेर्निमितम्, य एव त्वसौ णितद्धिताश्चय ऐज्विधीयते तस्यैव वृद्धिसंज्ञकस्य निमितं णकार इति स्यादेव पुंवद्भावप्रतिषेधः ? उच्यते; न हि वस्तुतो या वृद्धिस्तस्या यन्निमितं ञकारादिस्तद्वति प्रतिषेधः, किं तर्हि ? बृद्धिरित्येवं या विधीयते तन्निमिते । अतः पुंवद्भावप्रतिषेधनिवृत्यर्थं वृद्धेः प्रतिषेधो वक्तव्य एव ? न वक्तव्यः; एकस्मिन्नङ्गे विशेषविहितावैचौ सामान्यविहिताया वृद्धेर्बाधकौ भविष्यतः, सत्यपि सम्भवे बाधनं भवतीति न्यायात्; ततश्च पूर्ववत्पुंवद्भावप्रतिषेधो न भविष्यतीति'य्वाभ्यां पूर्वमैच्' इत्येवास्तु, नार्थः प्रतिषेधेन ? इत्यत आह - प्रतिषेधवचनमिति । प्रतिषेधवचने सति याभ्यां य्वाभ्यां परस्य वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यअमेव पूर्वावैचौ भवत इत्यर्थौ भवति, असति हि तस्मिन् यौ कौचन य्वौ गृह्यएयाताम् । तस्मादैचोर्विशिष्टो विषयः प्रल्कृप्तो यथा स्यादित्येवमर्थं प्रतिषेधवचनं क्रियत इत्यर्थः । दाध्यश्विः, माध्वश्विरिति। दधिप्रियोऽश्वो यस्य स दध्यश्वः । एवं मध्वश्वः, ताभ्याम् ठत इञ्ऽ । ननु च ठछामादेःऽ इत्यनेन य्वौ विशेषयिष्यामः - अचामादेरचः स्थाने यौ य्वाविति ? एवमपि द्वे अशीति अधीष्टः,'तद्धितार्थ' इति समासः, तमधीष्ट इति'प्राग्वतेष्ठक्' , द्व्याशीतिकः - अत्र प्राप्नोति । सति तु प्रतिषेधे'तद्धितेष्वचामादेः' इत्यनुवृतेर्याभ्यां परस्य'तद्धितेष्वचामादेः' इति वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यामिति विज्ञायते; अत्र तु'संख्यायाः संवत्सरसंख्यस्य च' इत्येवमुतरपदवृद्धिर्विधीयत इति तस्य निषेधाभावादैजागमाभावः सिद्धः । स्यादेतत् - अचामादेरित्यनुवृतं स्वरूपपरं सद् वृद्धेर्विशेषणम्, अचामादेरित्येवं या वृद्धिस्तस्याः प्रसङ्गे तदपवादौ य्वाभ्यां पूर्वमैचो भवत इत्यर्थः, इह तु नैवं वृद्धेः प्रसङ्ग इत्यैचौ न भविष्यत इति ? एवमपि य्वावविशेषितौ स्याताम्, ततश्च दाध्यश्वादौ प्रसङ्गः । न च सकृच्छ्4%अतमचामादेरित्येतदेवोभयं विशेषयितुमर्हति, येनाचामादेः स्थाने य्वौ ताभ्यां पूर्वावैचो भवतः, सति तस्मिन्नचामादेरित्येवं वृद्धेः प्रसङ्ग इत्याश्रयणान्न क्वापि दोषः स्यात् । न च तन्त्रावृत्येकशेषाणामन्यतमाश्रयणे प्रमाणमस्ति, तस्मात्सुष्ठूअक्तम् - प्रतिषेधवचनमैचोर्विषयप्रल्कृप्त्यर्थमिति । उतरपदवृद्धेरपीति । एतच्च तत्रालस्याधिकाराल्लभ्यते । यत्र त्विति । एतदप्युतरपदेन य्वोर्विशेषणाल्लभ्यते - उतरपदस्य यौ य्वौ ताभ्यां परस्य वृद्धिर्न भवति, ताभ्यां च पूर्वमैजागम इति । इह - इश्च अजश्च यजौ, उश्च अजश्च वजौ, तयोरिदं ऐयजम्, औवजमिति ऐचोरभक्तत्वादतन्मध्यपतितत्वाच्च अङ्गग्रहणेनाग्रहणादैयजीयम्, औवजीयमित्यादौ शेषनिघातो न स्यात्, शेषविवक्षायां च वृद्धाच्छाए न स्यात्, प्रातिपदिकस्यावृद्धत्वात् ? उच्यते; यद्येवंविधमभिधानमस्ति, ततः पूवशब्द आवर्तयितव्यः, तत्रैकोऽवयववचनः, अपरो व्यवस्थावचनः - य्वाभ्यां पूर्वावैचौ भवतस्तौ चाङ्गस्यावयवाविति। अत्र संग्रहश्लोकौ - नाप्राप्ताया हि वृद्धेः प्रतिपदविधिरैज्बाधको नञ् किमर्थो याभ्यां य्वाभ्यां परस्यैच् प्रसजति तत एवैष पूर्वो यथा स्यात् । मा दाध्यश्वादिके भूदिति ननु विहितौ यावचां स्थान आदे- र्य्वौ ताभ्यामैजिहैवं न भवतीति चेद् द्वे अशीति अधीष्टे ॥ स्यादैज् द्व्याशीतिकेऽङ्गाद्यचेति विहितस्यैवमैच्चेत्प्रसङ्गाद् य्वौ न स्यातां विशिष्टौ श्रुतमपि च सकृन्नोभयं भेतुमर्हम् । स्यादेतस्योतरत्राप्यधिकृतिरिह च य्वोः पदस्योतरस्यै- वं पूर्वत्रैयलिन्दे भवति, न च भवेद् द्वे अशीती अधीष्टे ॥