4-1-89 गोत्रे अलुक् अचि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्
प्राग् दीव्यत इत्येव। <<यस्कादिभ्यो गोत्रे>> २.४.६३ इत्यादिना येषां गोत्रप्रत्ययानां लुगुक्तः, तेषामजादौ प्राग्दीव्यतीये विषयभूते प्रतिषिध्यते। गर्गाणां छात्रा गार्गीयाः। वात्सीयाः। आत्रेयीयाः। खारपायणीयाः। गोत्र इति किम्? कौवलम्। बादरम्। अचीति किम्? गर्गेभ्य आगतं गर्गरूप्यम्। गर्गमयम्। प्राग् दीव्यत इत्येव — गर्गभ्यो हितं गर्गीयम्॥ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक्॥ बिदानामपत्यं युवा, युवानौ। बैदः। बैदौ। बैदशब्दादत इञि ४.१.९५ कृते तस्य च इञो <<ण्यक्षत्रियार्षञितः०>> २.४.५८ इति लुकि रूपम्॥ एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि॥ बैदस्य बैदयोर्वापत्यं बहवो माणवका बिदाः। नह्यत्राञ् बहुषूत्पन्नः॥
अजादौ प्राग्दीव्यतीये विवक्षते गोत्रप्रत्ययस्यालुक् स्यात् । गर्गाणां छात्राः । वृद्धाच्छः <{SK1337}> ॥
<<गोत्रेऽलुगचि>> - गोत्रेऽलुगचि ।अलु॑गिति च्छेदः । 'प्राग्दीव्यत' इत्यनुवृत्तेः, प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लब्धम् । अचीति तद्विशेषणं । तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह — अजादावित्यादिना । गोत्रप्रत्ययस्येति । गोत्रार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लब्धम् । गर्गाणां छात्रा इति । वक्ष्यमाणोदाहरणविग्रहप्रदर्शनमिदम् । गर्गस्य गोत्रापत्यं गार्ग्यः ।गर्गादिभ्यो यञ् । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यञि कृते तस्ययञञोश्चे॑ति लुकि 'गर्गा' इति भवति । वृद्धाच्छ इति । गाग्र्य शब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः । छस्य ईयादेशः, तस्मिन्भविष्यति अजादौ परेयञञोश्चे॑ति प्राप्तो लुङ् न भवति ।
पूर्वत्रोतरत्र च लुग्विधानादिह नञ् प्रश्लिष्यते । यस्कादिभ्यो गोत्र इत्यादिनेति ।'प्राग्दीव्यतः' इत्युपजीवनाय तु प्रकरणोत्कर्षः, प्रसज्यप्रतिषेधश्चायम् । अचीति । यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयं प्राप्नोति - गार्गीया वात्सीया इतिच्छे परतोऽलुका भवितव्यम्, अलुकि च सति वृद्धत्वाच्छेन भवितव्यमिति । ननु च छे परतोऽलुग्विधीयते, किं तर्हि ? ठजादिमात्रे, तत्र य एवाजादिः सम्भवति तत्रैवालुग्भविष्यति, तद्यथा - गर्गाणां छात्त्राः,'प्राग्दीव्यतो' ण्ऽ, तत्र परतः'यञञोश्च' इति प्राप्तस्य लुकः प्रतिषेधे गर्गा इति भवति । यद्यप्यत्र सत्यसति वा लुकि नास्तिविशेषः, ठापत्यस्य च तद्धितेऽ इति यलोपविधानात् । इह त्वत्त्रेरपत्यानि बहूनि ठितश्चानिञःऽ इति ढकः ठत्रिभृगुऽ इति लुकि कृतेऽत्रीणां छात्रा इत्यणि परतः प्रतिषेधे सति आत्त्रेया इति भवति, असति तु प्रतिषेधे आत्रा इति स्यात् ? स्यादेतदेवं यदि लुप्तस्य प्रत्ययस्य पुनः प्रादुर्भावो विधीयतेत, इह त्वलुगिति वचनाल्लुकः प्रतिषेधो विधेयः, प्राप्तस्य चानभिनिर्वृस्य प्रतिषेधेन निवृत्तिः शक्यते कर्तुम्, ततश्च यद्यत्राणजादिरभिप्रेतः स्यात्, प्रागेव लुकः प्रवृत्तिरभ्युपगन्तव्या; अन्यथा वृद्धत्वाच्छ एव स्यात्, लुक चेत्प्रवृतः प्रतिषेधः किं करिष्यति ! यो हि भुक्तवन्तं प्रति ब्रूयान्मा भुक्था इति, किं तेन कृतं स्यात् ! तदिहाजादौ प्रवृतेऽलुका भवितव्यम्, अलुकि च प्रवृतेऽजादिना भवितव्यमिति व्यक्तमितरेतराश्रयम् । विप्रतिषेधात्सिद्धम्, लुकोऽवकाशो यत्र प्राग्दीव्यतीयार्थो न विवक्ष्यते - गर्गा वत्सा इति, च्छस्यावकाशः - शालीय इति; गर्गाय इत्यत्रोभयप्रसङ्गे परत्वाच्छाए भविष्यति । तत्र परतो लुकः प्रतिषेधः, अन्तरङ्गो लुग् अपत्यबहुत्वमात्रापेक्षत्वात्, बहिरङ्गश्च्छः प्राग्दीव्यतीयार्थापेक्षित्वात्, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः । एवं तर्ह्युच्यते चेदमजादौ परतो लुग्भवतीति, यदि च तावत्येव निमितमस्तीति बहुत्वमात्रापेक्षो लुक् प्रवर्तेत प्रतिषेधविधानमनर्थकं स्यादिति यावत्प्राग्दीव्यतीयोऽजादिर्नोत्पद्यते तावल्लुग् न प्रवर्तत इति कल्प्यते, ततश्च वृद्धत्वाच्छे सति लुकि प्रतिषिद्धे गर्गीय इति सिद्धमिष्टम् । विषयसप्तम्यां तु न किञ्चिद्यत्नसाध्यम्, गर्गाणां छात्रा इत्यर्थविवक्षायामजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव लुकि प्रतिषिद्धे वृद्धत्वाच्छाए भवतीति, तस्माद्विषयसप्तमीमाश्रित्याह - प्राग्दीव्यतीये प्रत्यये विषयभूत इति । खारपायणीया इति । खरपस्यापत्यानि बहूनि'नडादिभ्यः फक्' ,'यस्कादिभ्यो गोत्रे' इति प्राप्तस्य लुकः प्रतिषेधः । कौबलम्, बादरमिति । कुबली-बदरीशब्दौ गोरादिङीषन्तावन्तोदातौ, ताभ्यां फले विकारे ठनुदातादेश्चऽ इत्यञ्, तस्य'फले लुक्' इति प्राप्तस्य लुकः तस्येदमित्यर्थविवक्षायां प्रतिषेधो न भवति, तेनावृद्धत्वादणेन भवति । गर्गरूप्यमिति । यद्यत्रालुक् स्याद्, सार्ग्यरूप्यमिति स्यात् । गार्गीयमिति ।'तस्मै हितम्' इति प्राक्क्रीताच्छः । विषयसप्तम्या एव फलं दर्शयति - गोत्रस्येत्यादि । गोत्रस्येति गोत्रप्रत्ययस्येत्यर्थः । वहुषु लोपिन इति । बहुष्वर्थेषु विधीयमानलोपस्येत्यर्थः । बहुवचनान्तस्य प्रंवृताविति । प्रवृत्तिःउअर्थान्तरसंक्रान्तिः, बहुवचनान्तस्य सतोऽर्थान्तरसंक्रान्तौ सत्यामित्यर्थः । द्व्येकयोरिति । यत्रार्थान्तरे संक्रान्तस्य द्वित्वैकत्वयोः सतोरित्यर्थः । सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यनि प्रत्यय उत्पद्यते तस्य च लुक् क्रियते तदा भवति लुप्ते हि युवप्रत्यये प्रकृतिरेव तदर्थमाहेति भवति संक्रान्तिः । बिदानामिति । बदस्यापत्यानि बहूनि, ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ, बिदाः, तेषां बिधानामपत्यं युवा युवानौ वेति विवक्षायाम् ठतःऽ इति इञि विवक्षिते गोत्रप्रत्ययस्याञो लुकः प्राप्तस्यानेन प्रतिषेधः । इञः'ण्यक्षत्रियार्ष' इति लुकि बैदः, बैदाविति भवति । परसप्तमीपक्षे त्वलुग्न प्राप्नोति; अजादेरभावात् । इदमिह सम्प्रधार्यम् - इञो लुक् क्रियतामयं वाऽलुगिति ? परत्वादलुग्भवति । इञो लुग्नित्यः, कृतेऽप्यस्मिन्नलुकि प्राप्नोति अकृतेऽपि, अयं पुनरलुगनित्यः, न हीञो लुकि कृते प्राप्नोति; अजादेरभावात् ? प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? नात्र वर्णो निमितम्, किं तहि ? प्रत्ययः, तस्यैव तु विशेषणमचीति । तत्र यथा हलादौ पिति सार्वधातुके विधीयमानः'तृणह इम्' अतृणेडित्यत्रापि भवति प्रत्ययलक्षणेन तद्वदिहापि भविष्यति ? सत्यम्; विषयसप्तमीपक्षे नैवं क्लेशोऽनुभवनीयो भवति । ननूभयोरपि पक्षयोरिहापि न प्राप्नोति - बिदानामपत्यं बहवो माणवका बिदा इति ? नैष दोषः; द्वे अत्र बहुत्वे - युवबहुत्वं गोत्रबहुत्वं च, तत्र गोत्रबहुत्वाश्रयस्य लुकः प्रतिषेधोऽस्तु पुनर्युवबहुत्वाश्रयो लुग्भविष्यति । लुग्विधौ हि लौकिकस्य गोत्रस्य ग्रहणम्, युवापि च लोके गोत्रमित्युपचर्यते - गार्ग्यायणोऽस्मि गोत्रेणेति । अथ युवबहुत्वाश्रयस्यापि लुकः पुनः प्रतिषेधः कस्मान्न भवति ? विषयसप्तम्यां तावद् यस्यामवस्थायां लुक् प्राप्तः तस्यामवस्थायां यदि कश्चिदजादिर्विषयभूतस्ततोऽलुका भवितव्यम्, इह चाजादिर्विषयभूत उत्पन्नो लुप्तश्च, पश्चाद्यौवसु बहुषु संक्रान्तौ सत्यां लुक् प्राप्तः, न चास्यामवस्थायां कश्चिदजादिविषयभूत इति पुनर्लुग्न भविष्यति । परसप्तम्यामपि गोत्रे वर्तमानस्या लुग्भवत्यजादौ परतः । कस्मिन्नजादौ ? प्राग्दीव्यतो येऽर्थास्तेषु योऽजादिस्तस्मिन्नित्युच्यमाने यस्मिन् गोत्रे वर्तमानस्य लुक् प्राप्तस्तद्व्यतिरिक्ते प्राग्दीव्यतीयेऽर्थे योऽजादिस्तत्रेति गम्यते । इह चेञेवाजादिस्तदर्थ एव च गोत्रे लुगिति प्रतिषेधो न भविष्यति । यद्वा -'समर्थानां प्रथमात्' इत्यतः प्रथमादिति वर्तते, तच्च षष्ठ।ल्न्तं विपरिणम्यते, प्रथमार्थवृत्तित्वाच्च प्राथम्यमाश्रीयते, तदयमर्थो भवति - प्रथमस्य गोत्रप्रत्ययस्य लुग्न भवति, यस्मिन्नर्थे प्रत्यय उत्पन्नस्तत्रैवार्थे वर्तमानस्य यो लुक् प्राप्तः स न भवति । इह तु द्वितीयमर्थमुपसंक्रान्तस्य लुक् प्राप्त इति न प्रतिषिध्यते । अवश्यं चैतदेवं विज्ञेयम् - प्रथमस्य लुक् प्रतिषिध्यत इति, अन्यथा अत्त्रेरपत्यम् ठितश्चानिञःऽ इति ढक्, तस्यापत्यं बहवो युवानः, अत इञः'ण्यक्षत्रियार्ष' इति लुक्, ढकः ठत्रिभृगुऽ इति लुक्, अत्रयः; भरद्वाजशब्दाद्विदाद्यञ्, तदन्ताद्यौवबहुत्वे इञो लुक्, अञः'यञञोश्च' इति लुक्, अत्रयश्च भरद्वाजाश्च अत्रिभरद्वाजास्तेषां मैथुनिकाद् द्वन्द्वाद् वुन् - अत्रिभरद्वाजिका, तत्रालुक् प्राप्नोति; कुत्सादृष्यणः ठत्रिभृगुऽ इति लुक्, कुशकादञन्तादिञो लुकि कुशिकाः, कुत्सकुशिकिकाः, वसिष्ठकश्यपिकाः, भृग्वङ्गिरसिकाः । अय वा -गोपवनादिषु गर्घभार्गविकाशब्दः पठ।ल्ते, भार्गवशब्दस्य युवबहुत्वे प्राप्तस्य लुकः प्रतिषेधार्थं तन्नियमार्थं भविष्यति - एतस्यैव द्वितीयमर्थमउपसंक्रान्तस्यालुग्भवतीति । नैव वा पुनरत्र युवबहुत्वे वर्तमानस्यालुक्प्राप्नोति, किं कारणम् ? गोत्र इत्युच्यते, यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, इह तु पारिभाषिकस्य ग्रहणम्, युवशब्दसाहचर्यात् ; अन्यथा गोत्रयुवसंज्ञयोः समावेशे योऽयं दोषो वक्ष्यते - शालङ्केरपत्यं'यञिञोश्च' इति फक्, तस्य'पैलादिभ्यश्च' इति लुक्, शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायाम्'गोत्रे' लुगचिऽ इत्यलुक् प्राप्नोति, ततश्च'यूनि लुक्' इत्यस्य'फक्फिञोरन्यतरस्याम्' इति विकल्पितत्वात्पक्षे फकः श्रवणं प्राप्नोतीति स तदवस्थ एव स्यात्, असमावेशेऽपि यूनो लौकिकगोत्रत्वादेवालुक्प्रसङ्गात् । तदेवं गोत्रस्य बहुषु लोपिन इत्यादि न वक्तव्यमिति स्थितम् । एकवचनद्विवचननान्तस्येत्यादि । एकवचनान्तस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य वा बहुष्वर्थेषु युवसंज्ञकेषु प्रवृतौ संक्रान्तौ सत्यामित्यर्थः । लोप इति । लुगित्यर्थः । लोपे हि प्रत्ययलक्षणेन वृद्धिस्वरप्रसङ्गः । ननु च युवबहुत्वाश्रयो'यञञोश्च' इत्येवात्र लुक् सिद्धस्तत्राह - न ह्यत्राञ्बहुषूत्पन्न इति । अञ्यो बहुषु, यञ्यो बहुष्विति विज्ञायमाने लुग्न सिध्यतीत्यर्थः । यदा त्वञन्तं यद्वहुषु, यञन्तं यद्वहुष्विति विज्ञायते; तदाञन्तस्य बहुषु युवसु वृतेर्लौकिकस्य च गोत्रस्यापत्यमात्रस्य तत्र ग्रहणात्सिद्ध एव लुक् । तथा च - गार्ग्यश्च वात्स्यश्च वाज्यश्च गर्गवत्सवाजाः, बैदश्च और्वश्च भारद्वाजाश्च बिदौर्वभारद्वाजा इति यञञोरुत्पत्तिवेलायामबहुत्वेऽपि द्वन्द्वे युगपधिकरणवचनतया यञन्तस्याञन्तस्य बहुत्वोपजनाल्लुग्भवति । न चैवं काश्यपस्यैकस्य बह्व्यः प्रतिकृतयः काश्यपा इति ठिवे प्रतिकृतौऽ इति विहितस्य कनः'जीविकार्थे चापण्ये' इति लुप्,'हरीतक्यादिषु व्यक्तिः' इति वचनाद् युक्तवद्वचनाभावेऽञन्तस्य बहुषु वृतेर्लुक्प्रसङ्गः; गोत्रबहुत्वे लुग्विधानात् ॥