रात्रेश्चाजसौ

4-1-31 रात्रेः च अजसौ प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् सञ्ज्ञाछन्दसोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

'रात्रि' इति शब्दात् संज्ञानिर्देशार्थम्, वैदिकप्रयोगसिद्ध्यर्थं च स्त्रीत्वं द्योतयितुम् जस्-प्रत्ययभिन्नस्थलेषु ङीप्-प्रत्ययः भवति ।

Kashika

Up

जस्विषयादन्यत्र संज्ञायां छन्दसि च रात्रिशब्दाद् ङीप् प्रत्ययो भवति। या रात्री सृष्टा। रात्री॑भिः (ऋ० १०.१०.९)। अजसाविति किम्? यास्ता रात्रयः॥ अजसादिष्विति वक्तव्यम्॥ रात्रिं सहोषित्वा। कथं तिमिरपटलैरवगुण्ठिताश्च रात्र्यः? ङीषयं बह्वादिलक्षणः। तत्र हि पठ्यते <<कृदिकारादक्तिनः>> (ग०सू० ४९) <<सर्वतोऽक्तिन्नर्थादित्येके>> (ग०सू० ५०) इति॥

Siddhanta Kaumudi

Up

रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती (रात्री॒ व्य॑ख्यदाय॒ती) । लोके तु (ग.)कृदिकारादिति ङीष्यन्तोदात्तः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः अनेन सूत्रेण दीयते । रात्रि — इत्यस्मात् प्रातिपदिकात् वैदिकप्रयोगसिद्ध्यर्थं च स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । परन्तु यदि प्रथमाबहुवचनस्य जस्-प्रत्ययः करणीयः अस्ति चेत् एतादृशः ङीप्-प्रत्ययः न भवति ‌— इति अस्य सूत्रस्य अर्थः । कानिचन उदाहरणानि एतानि — 1. रात्री व्यख्यादायती पुरुत्रा इति रात्रिसूक्तम् ऋग्वेदे 10.127.1 इत्यत्र विद्यते । अत्र प्रथमाबहुवचनस्य सुँ-प्रत्ययस्य प्रक्रियायाम् रात्रि-शब्दात् ङीप्-प्रत्ययः कृतः अस्ति । प्रक्रिया इयम् — रात्रि + ङीप् [<<रात्रेश्चाजसौ>> 4.1.31 इति ङीप्] → रात्र् + ई [<<यस्येति च>> 6.4.148 इति इकारलोपः] → रात्री 2. रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य इत्थं ऋग्वेदे 10.10.9 इत्यत्र रात्रीभिः इति तृतीयाबहुवचनस्य प्रक्रियायाम् रात्रि-शब्दात् ङीप्-प्रत्ययः कृतः दृश्यते । 3. रात्रीः शरदश्चतस्रः इत्थं ऋग्वेदे 10.95.16 इत्यत्र रात्रीः इति द्वितीयाबहुवचनस्य प्रक्रियायाम् रात्रि-शब्दात् ङीप्-प्रत्ययः कृतः दृश्यते । 4. उत रात्रीमुभयतः परीयस इत्थं ऋग्वेदे 5.81.4 इत्यत्र रात्रीम् इति द्वितीयैकवचनस्य प्रक्रियायाम् रात्रि-शब्दात् ङीप्-प्रत्ययः कृतः दृश्यते । वार्त्तिकम् — <!अजसादिष्विति वक्तव्यम्!> <light>(अ-जसादिषु इति वक्तव्यम्)</light> प्रकृतसूत्रे अजसौ इत्यस्य स्थाने अजसादिषु इति भवेत् — इति अस्य वार्त्तिकस्य अर्थः । जस्-प्रत्ययस्य विषये रात्रि-शब्दात् संज्ञाछन्दसोः सन्दर्भे ङीप्-प्रत्ययः यथा न भवति, तथैव अन्येषां प्रत्ययानां विषये अपि कुत्रचित् ङीप्-प्रत्ययं विना एव प्रयोगः दृश्यते — इति अस्य आशयः । सर्वां रात्रिं सहोषित्वा, रात्रिं रात्रिमजानतः इत्यादयः वैदिकप्रयोगाः भाष्यकारेण अस्मिन् सन्दर्भे निर्दिष्टाः सन्ति । अत्र द्वितीयैकवचनस्य अम्-प्रत्यये परे अपि ङीप्-प्रत्ययं विना एव रूपं प्रयुक्तं दृश्यते । एतादृशानां रूपाणां सिद्ध्यर्थमेव इदं वार्त्तिकं भाष्यकारेण पाठितम् अस्ति । रात्रि-शब्दात् भाषायाम् ङीष्-प्रत्ययः रात्रि इति शब्दः <<राशदिभ्यां त्रिप्>> (4.67) इति उणादिसूत्रेण सिद्ध्यति । कृदधिकारे विद्यमानेन <<उणादयो बहुलम्>> 3.3.1 इति सूत्रेण उणादिप्रत्ययाः अपि (व्युत्पत्तिपक्षे) कृत्-प्रत्ययेषु एव परिगण्यन्ते । अस्यां स्थितौ <<बह्वादिभ्यश्च>> 4.1.45 इति सूत्रे पाठितेन <<कृदिकारादक्तिनः>> इति गणसूत्रेण रात्रि-शब्दात् स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवितुम् अर्हति । अव्युत्पत्तिपक्षे अपि तत्रैव पाठितेन <<सर्वतोऽक्तिन्नर्थादित्येके>> इति गणसूत्रेण ङीष्-प्रत्ययः एव विधीयते । अनेन प्रकारेण भाषायाम् अपि ईकारान्तः रात्री-शब्दः साधुत्वं प्राप्नोति । प्रक्रिया इयम् — रात्रि + ङीष् [<<बह्वादिभ्यश्च>> 4.1.45 इत्यत्र पाठितेन <!कृदिकारादक्तिनः!> इति गणसूत्रेण ङीष्-प्रत्ययः] → रात्र् + ई [<<यस्येति च>> 6.4.148 इति इकारलोपः] → रात्री ङीप्-प्रत्ययान्तस्य रात्री-शब्दस्य प्रत्ययस्वरः <<अनुदात्तौ सुप्पितौ>> 3.1.4 इत्यनेन अनुदात्तः भवति । परन्तु ङीष्-प्रत्ययान्तस्य रात्री-शब्दस्य प्रत्ययस्वरः <<आद्युदात्तश्च>> 3.1.4 इत्यनेन उदात्तः भवति । अनेन प्रकारेण द्वयोः अपि रात्री-शब्दयोः उच्चारणे भेदः विद्यते ।

Balamanorama

Up

Padamanjari

Up

कथमित्यादि । दीर्घान्ताज्जसि'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घप्रतिषेधाद्यणादेशे रात्र्यःऽ इति प्रयोग उपपद्यते, ह्रस्वान्तस्य तु'जसि च' इति गुणे रात्र्यःऽ इति रूपं स्यात् । दीर्घान्तश्च रात्रिशब्दः संज्ञाच्छन्दसोरपि जसि न सम्भवति, अजसाविति प्रतिषेधात्, किं पुनर्भाषायामिति प्रश्नः । ङीषयमित्यादि । बह्वादिषु रात्रिशब्दो न पठ।ल्त इति चेत्, तत्राह-तत्र हीति । कृत इकारः कृदिकारः, तदन्तान्ङीष् भवति'दृजागृभ्यां विः' , दविः, दर्वी; यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति - कृतिः, हृतिः । सर्वत इति । कृदिकारादकृदिकाराच्चेत्यर्थः । यस्तु क्तिन्नर्थस्तस्मान्न भवति - ठाक्रोशे नञ्यनिःऽ, अकरणिः, अहरणिः । रात्रिशब्दोऽयम् राशदिभ्यां त्रिप्ऽ इति व्युत्पत्तिपक्षे कृदिकारान्तः, अव्युपतिपक्षे'सर्वतो' क्तिन्नर्थात्ऽ इति ङीष् । सूत्रं तु ङीबर्थम् - रात्री व्यख्यात्, रात्रीभिरस्मा अहभिर्दशस्येत्; अत्राद्यौदातत्वं भवति ॥