बह्वादिभ्यश्च

4-1-45 बह्वादिभ्यः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

बह्वादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितुम् विकल्पेन ङीष्-प्रत्ययः विधीयते ।

Kashika

Up

बहु इत्येवमादिभ्यः प्रातिपदिकेभ्यः स्त्रियां वा ङीष् प्रत्ययो भवति। बह्वी, बहुः॥ बहु। पद्धति। अङ्कति। अञ्चति। अंहति। वंहति। शकटि। शक्तिः शस्त्रे (ग०सू० ४७)। शारि। वारि। गति। अहि। कपि। मुनि। यष्टि। इतः प्राण्यङ्गात् (ग०सू० ४८)। कृदिकारादक्तिनः। (ग०सू० ४९)। सर्वतोऽक्तिन्नर्थादित्येके (ग०सू०५०)। चण्ड। अराल। कमल। कृपाण। विकट। विशाल। विशङ्कट। भरुज। ध्वज। चन्द्रभागाद् नद्याम् (ग०सू० ५१)। कल्याण। उदार। पुराण। अहन्। बहुशब्दो गुणवचन एव। तस्येह पाठ उत्तरार्थः॥

Siddhanta Kaumudi

Up

एभ्यो वा ङीष् स्यात् । बह्वी । बहुः । (गणसूत्रम् -) कृदिकारादक्तिनः ॥ रात्रिः । रात्री । (गणसूत्रम् -) सर्वतोऽक्तिन्नर्थादित्येके ॥ शकटिः । शकटी । अक्तिन्नर्थात्किम् ? अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थं पद्धतिशब्दो गणे पठ्यते । हिमकाषिहतिषु च <{SK992}> इति पद्भावः । पद्धतिः । पद्धती ॥

Laghu Siddhanta Kaumudi

Up

एभ्यो वा ङीष् स्यात्। बह्वी, बहुः। <<कृदिकारादक्तिनः>> (वार्त्तिकम्) । रात्री, रात्रिः। <<सर्वतोऽक्तिन्नर्थादित्येके>> (वार्त्तिकम्)। शकटी। शकटिः॥

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः ङीष् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । बह्वादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितुम् विकल्पेन ङीष्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । बह्वादिगणः एतादृशः बह्वादिगणः — बहु, पद्धति, अङ्कति, अञ्चति, अंहति, वंहति, शकटि, <<शक्तिः शस्त्रे>> (गणसूत्रम्), शारि, वारि, गति, अहि, कपि, मुनि, यष्टि, <<इतः प्राण्यङ्गात्>> (गणसूत्रम्), <<कृदिकारादक्तिनः>> (गणसूत्रम्), <<सर्वतोऽक्तिन्नर्थादित्येके>> (गणसूत्रम्), चण्ड, अराल, कमल, कृपाण, विकट, विशाल, विशङ्कट, भरुज, ध्वज, <<चन्द्रभागान्नद्याम्>> (गणसूत्रम्), कल्याण, उदार, पुराण, अहन् । इति बह्वादिगणः

Balamanorama

Up

<<बह्वादिभ्यश्च>> - बह्वादिभ्यश्च । गुणवचनत्वादेव सिद्धे बहुग्रहणं व्यर्थमेवेति प्राञ्चः । वस्तुतस्तु अनुपदोदाहृताकडारसूत्रभाष्यरीत्या सङ्ख्याशब्दानां गुणवचनत्वाऽभावादप्राप्तस्य ङीषो विधानार्तं बहुग्रहणमित्याहुः । बह्वी बहुरिति । वैपुल्यवाची बहुशब्दोऽयम् । त्रित्वादिशमनियतसङ्ख्याविशेषवाचित्वे तु एकवचनानुपपत्तेः । वैपुल्यवाचित्वेऽपिबहुगणवतुडति सङ्ख्या॑ इति सङ्ख्याशब्दत्वान्न गुणवचनत्वमिति न वैयथ्र्यमिति भावः । 'कृदिकारादक्तिनः' इति बह्वाद्यन्तर्गणसूत्रम् । कृतो यैकारस्तदन्तात्प्रातिपदिकात् ङीष् वा स्यात्, न तु क्तिन्नान्तादित्यर्थः । रात्रिः रात्रीति । 'राशदिभ्यां त्रिप्' इति राधातोरौणादि कस्त्रिप् । गुणवचनत्वाऽभावात्, उदन्तत्वाऽभावाच्चाऽप्राप्ते वचनम् ।सर्वतोऽन्नर्थादित्येके॑ इत्यपि बह्वाद्यन्तर्गणसूत्रमेव । कृदिकारान्तादृकृदिकारान्तादपि ङीष् वा स्यात्, नतु क्तिन्नर्थकप्रत्ययान्तादित्यर्थः । शकटिः शकटीति । शकटिशब्दस्य अव्युत्पन्नप्रातिपदिकत्वात् कृदन्तत्वाऽभावात् 'सर्वत' इति वचनम् । अव्युत्पतिपक्षे रात्रिशब्दोऽप्युदाहरणं बोध्यम् । अजननिरिति ।स्त्रियां क्तिन्नि॑त्यधिकारे 'आक्रोशे नञ्यनिः' इति नञि उपपदे जनेरनिप्रत्ययः । 'अक्तिन' इत्यक्तौ अत्र निषेधो न स्यादतोऽक्तिन्नर्थादित्युक्तिरिति भावः । ननु हनधातोः स्त्रियां कर्मणि क्तिनिअनुदात्तोपदेशे॑त्यादिना नलोपे हतिशब्दः, तस्य क्तिन्नन्तत्वात्कथं पद्धतिशब्दान्ङीषित्यत आह — क्तिन्नन्तत्वादिति । गणे इति । बह्वादिगण इत्यर्थः । ननु पादाभ्यां हतिरिति विग्रहेकर्तृकरणे कृता बहुल॑ शब्दस्य ग्रहणात्, भत्वाऽभावाच्च ।पादस्य पदाज्यातिगोपहतेषु॑ इत्यपि न संभवति, तस्य आज्यादिष्वेव परेषु प्रवृत्तेरित्यत आह — हिमकाषीति । हिमादिषु परेषु पादशब्दस्य पदादेशः स्यादिति तदर्थः ।

Padamanjari

Up

शक्तिः शस्त्र इति । शक्तिशब्दः शस्त्रेऽभिधेये ङीषमुत्पादयति - शक्तिः, शक्ती । शस्त्र इति किम् ? शक्तिःउसामर्थ्यम् । अन्ये शक्तिशस्त्री इति शब्दद्वयं पठन्ति - शस्त्रिः, शस्त्री । इतः प्राण्यङ्गादित्यादीनि त्रीणि वाक्यानि यथोतरमधिकविषयाणि । तत्रोतरं वाक्यद्वयम् रात्रेश्चाजसौऽ इत्यत्रैव व्याख्यातम् । इकारान्तात्प्राण्यङ्गवाचिनो वा ङीष् भवति - धमनिः, धमनी ।'सर्वतो' क्तिन्नर्थात्ऽ इत्येव ङीषि सिद्धे शकट।लदीनामिकारान्तानां पाठः प्रपञ्चार्थः । पद्धतिशब्दः क्तिन्नन्तः, पादस्य हतिः पद्धतिः,'हिमकाषिहतिषु च' इति पद्भावः । अहन्निति पठ।ल्ते, न स केवलः स्त्रियां वर्तते, तस्मातदन्तो बहुव्रीहिरुदाहार्यः - दीर्घमहरस्याः दीर्घाह्री शरत्, पाठसामर्थ्यात् ठनुपसर्जनात्ऽ इति न प्रवर्तते । अस्य ङीषो विकल्पितत्वाड् डाप्प्रतिषेधावपि भवतः, ठन उपधालोपिनःऽ इति ङीप् च । बहुशब्दो गुणवचन इति । अन्तोदातश्च'लङ्घिबंह्यएर्नलोपश्च' इत्यप्रत्ययान्तः । किमर्थं तर्हि तस्येह पाठः ? इत्यत आह - तस्येति ॥