अन्तर्वत्पतिवतोर्नुक्

4-1-32 अन्तर्वत्पतिवतोः नुक् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

'अन्तर्वत्' तथा 'पतिवत्' इत्येताभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् नुक् आगमः भवति ।

Kashika

Up

प्रकृतिर्निपात्यते, नुगागमस्तु विधीयते। अन्तर्वत्पतिवतोर्नुग् भवति ङीप् च प्रत्ययः, स तु नकारान्तत्वादेव सिद्धः। निपातनसामर्थ्यात् च विशेषे वृत्तिर्भवति। अन्तर्वत् पतिवदिति गर्भभर्तृसंयोगे। इह न भवति — अन्तरस्यां शालायां विद्यते, पतिमती पृथिवी। अन्तर्वदिति मतुब् निपात्यते, वत्वं सिद्धम्। पतिवदिति वत्वं निपात्यते, मतुप् सिद्धः। अन्तर्वत्नी गर्भिणी। पतिवत्नी जीवपतिः।

अन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात्।

गर्भिण्यां जीवपत्यां च वा छन्दसि तु नुग्विधिः॥

सान्त॑र्व॒त्नी (मै०सं० ४.२.९) देवानुपैत्। सान्तर्वती देवान् (काठ०सं० ८.१०) उपैत्। पतिवत्नी तरुणवत्सा। पतिवती तरुणवत्सा॥

Siddhanta Kaumudi

Up

एतयोः स्त्रियां नुक् स्यात् ॥ ऋन्नेभ्यो ङीप् <{SK306}> गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते । तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्ति सामानाधिकरण्याभावाद- प्राप्तो मतुप् निपात्यते । पतिवत्नीत्यत्र तु वत्वं निपात्यते । अन्तर्वत्नी । पतिवत्नी । प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अन्तर्वत् तथा च पतिवत् इत्येताभ्याम् शब्दाभ्याम् स्त्रीत्वं द्योतयितुम् नुक् इति आगमः प्रकृतसूत्रेण विधीयते । कित्त्वात् <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन अयम् आगमः अन्त्यावयवरूपेण विधीयते । आगमे कृते नकारान्तम् प्रातिपदिकं सिद्ध्यति, अतः अग्रे <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्ययः अपि भवति । क्रमेण विवरणम् एतादृशम् — 1. अन्तर्वत् अन्तर्वत् इति शब्दः प्रकृतसूत्रेणैव निपात्यते । अन्तः (= मध्ये) अस्ति अस्यां गर्भः इत्यस्मिन् अर्थे अन्तर्-शब्दात् मतुप्-प्रत्ययस्य निपातनं कृत्वा <<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> 8.2.9 इत्यनेन मकारस्य वकारादेशे कृते अन्तर्वत् इति शब्दः सिद्ध्यति । अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण नुक्-आगमः, ततश्च <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्ययः विधीयते । सम्पूर्णा प्रक्रिया इयम्‌ — अन्तः अस्ति अस्यां (गर्भः) → अन्तर् + मतुँप् + नुक् + ङीप् [<<अन्तर्वत्पतिवतोर्नुक्>> 4.1.32 इत्यनेनैव सूत्रेण मतुप्-प्रत्ययः निपात्यते; ततः स्त्रीत्वं द्योतयितुम् अनेनैव सूत्रेण नुक्-आगमः अपि विधीयते । ततः <<ऋन्नेभ्यो ङीप्>> 4.1.5 इति ङीप्-प्रत्ययः भवति ।] → अन्तर् + मत् + न् + ई [इत्संज्ञालोपः] → अन्तर् + वत् + न् + ई [<<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> 8.2.9] → अन्तर्वत्नी अनेन प्रकारेण सिद्धः अन्तर्वत्नी शब्दः 'गर्भिणी' अस्मिन् अर्थे प्रयुज्यते । 'गर्भिणी' इति अर्थं विहाय अन्येषु अर्थेषु अन्तर्वत् इत्येव शब्दः न निपात्यते; अतः तत्र प्रकृतसूत्रस्य प्रयोगः अपि न सम्भवति । यथा, अन्तः अस्ति अस्यां (शालायां) घटः इत्यस्मिन् अर्थे शालायाः निर्देशं कर्तुं अन्तर्वत्नी इति शब्दः नैव प्रयुज्यते । 1. पतिवत् पतिवत् इति शब्दः प्रकृतसूत्रेणैव निपात्यते । पतिः अस्ति अस्याः इत्यस्मिन् अर्थे पति-शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> 5.2.94 इति सूत्रेण मतुप्-प्रत्यये कृते ततः मतुप्-प्रत्ययस्य मकारस्य निपातनेन वकारादेशं कृत्वा पतिवत् इति शब्दः सिद्ध्यति । अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण नुक्-आगमः, ततश्च <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्ययः विधीयते । सम्पूर्णा प्रक्रिया इयम्‌ — पतिः अस्ति अस्याः → पति + मतुँप् + नुक् + ङीप् [<<तदस्यास्त्यस्मिन्निति मतुप्>> 5.2.94 इति सूत्रेण मतुप् । ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण नुक्-आगमः । ततः <<ऋन्नेभ्यो ङीप्>> 4.1.5 इति ङीप्-प्रत्ययः ।] → पति +मत् + न् + ई [इत्संज्ञालोपः] → पति + वत् + न् + ई [<<अन्तर्वत्पतिवतोर्नुक्>> 4.1.32 इति मकारस्य वकारादेशनिपातनम्] → पतिवत्नी अनेन प्रकारेण सिद्धः पतिवत्नी शब्दः भर्तृसंयोगनिर्देशार्थम् (इत्युक्ते, पतिः जीवितः अस्ति इति अर्थं दर्शयितुम्) प्रयुज्यते । 'भर्तृसंयोगः' इति अर्थं विहाय अन्येषु अर्थेषु परिवत् इत्येव शब्दः न निपात्यते; अतः तत्र प्रकृतसूत्रस्य प्रयोगः अपि न सम्भवति । यथा, पतिः (= राजा) अस्ति अस्याः इत्यस्मिन् अर्थे पृथिव्याः निर्देशं कर्तुं प्रकृतसूत्रं नैव प्रयुज्यते; अपितु तत्र <<तदस्यास्त्यस्मिन्निति मतुप्>> 5.2.94 इति सूत्रेण मतुप् इत्यनेन मतुप्-प्रत्यये कृते, ततः स्त्रीत्वं द्योतयितुम् <<उगितश्च>> 4.1.6 इत्यनेन ङीप्-प्रत्ययं कृत्वा पतिमती इत्येव शब्दः सिद्ध्यति । प्रकृत्योः निपातनस्य प्रयोजनम् ; वेदेषु नुग्विकल्पः अन्तर्वत् तथा च पतिवत् इति प्रकृत्योः निपातनम् अपि प्रकृतसूत्रेणैव क्रियते । तदित्थम् — 1. अन्तर् इति शब्दः मध्ये इत्स्यस्मिन् अर्थे प्रयुज्यते । इत्युक्ते, अस्य शब्दस्य प्रयोगः नित्यम् अधिकरणे अर्थे एव भवति । अतः <<तदस्यास्त्यस्मिन्निति मतुप्>> 5.2.94 इति सूत्रेण अस्मात् शब्दात् मतुप्-प्रत्ययविधानं नैव सम्भवति यतः अस्य सूत्रस्य कृते प्रथमासामर्थ्यम् आवश्यकम् वर्तते; न हि सप्तमीसामर्थ्यम् । अतएव अन्तर्वत् इति शब्दस्य निर्माणार्थम् अन्तर्-शब्दात् मतुप्-प्रत्ययस्य निपातनम् आवश्यकं वर्तते । तदेव प्रकृतसूत्रेण कृत्वा ततः स्त्रीत्वं द्योतयितुम् नुमागमः अपि विधीयते । 2. पतिः अस्याः अस्ति इत्यस्मिन् अर्थे पति शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> 5.2.94 इति सूत्रेण मतुप्-प्रत्यये कृते पतिमत् इति शब्दः सिद्ध्यति । अत्र मकारस्य वकारादेशविधानम् न केनचित् सूत्रेण सम्भवति । एतादृशस्य वकारादेशस्य निपातनार्थम् प्रकृतसूत्रे पतिवत् इति शब्दः प्रयुक्तः अस्ति । अयमेव विषयः भाष्यकारेण एकया कारिकया निर्दिष्टः वर्तते — अन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात् । गर्भिण्यां जीवपत्यां च वा च च्छन्दसि नुग्भवेत् ॥ — महाभाष्यम् कारिकायाः अन्वयः — अन्तर्वत्-पतिवतोः तु (यथासङ्ख्यम्) मतुप्-वत्वे निपातनात् (भवतः) । गर्भिण्यां जीवपत्यां च (निर्देशे कर्तव्ये एतौ शब्दौ प्रयुज्येते) । छन्दसि वा नुग् भवेत् । कारिकायाः अर्थः — अन्तर्वत्-शब्दः मतुप्-प्रत्ययार्थं निपात्यते; पतिवत्-शब्दः तु वत्वार्थं निपात्यते । एतौ शब्दौ यथासङ्ख्यम् गर्भिणी तथा जीवपतिः (जीवति सः जीवः, जीवः पतिः यस्याः सा = जीवपतिः स्त्री) इत्येतयोः अर्थयोः प्रयुज्येते । वैदिकप्रयोगे तु नुग्विधिः विकल्पेन भवति । यथा, सान्तर्वत्नी देवानुपैत्, सान्तर्वती देवानुपैत्‌ इति उभयथा प्रयोगः वेदेषु दृश्यते । एवमेव, पतिवत्नी तरुणवत्सा, पतिवती तरुणवत्सा इत्यपि उभयथा प्रयोगः दृश्यते । यत्र नुक्-आगमः विधीयते; तत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यत्र नुक्-आगमः न भवति तत्र तु <<उगितश्च>> 4.1.6 इति सूत्रेणैव ङीप्-प्रत्ययः सिद्ध्यति ।

Balamanorama

Up

<<अन्तर्वत्पतिवतोर्नुक्>> - अन्तर्वत्पतिवतोर्नुक् । नुक्स्यादिति । कित्त्वसामर्थ्यादयमागमः, नतु प्रत्यय इति भावः । कित्त्वादन्तावयवः । अन्तर्वत्-न, पतिवत्-न इति स्थिते आह — ऋन्नेभ्यो ङीबिति । गर्भिण्यामिति । गर्भिण्यां जीवद्भर्तृकायां च स्त्रियामन्तर्वत्पतिवदिति प्रकृतिभागौ नुक्संनियोगेन निपात्येते इत्यर्थः । वार्तिकमेतत् । कतरस्मिन् किं निपात्यत इत्यत आह — तत्रेति । तयोर्मध्य इत्यर्थः । अन्तरस्त्यस्यां गर्भ इति विग्रहेऽप्राप्तो मतुप् निपात्यत इत्यन्वयः । कथमप्राप्तिर्मतुप इत्यत आह — अन्तःशब्दस्येत्यादि, अभावादित्यन्तम् ।तदस्यास्त्यस्मिन्निति मतु॑बिति सूत्रे अस्तिसमानाधिकरणात्कर्तृकारकप्रधानप्रथमान्तान्मतुप्प्रत्ययो विहितः । यथा गौरस्यास्तीति गोमानित्यादौ । प्रकृते प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरणो, नत्वन्तश्शब्दः, तस्याधिकरणकारकप्रधान तया अस्तिसामानाधिकरण्याऽसंभवात् । अतोऽत्राऽप्राप्तो मतुब्निपात्यत इत्यर्थः । ततश्चमादुपधायाश्च मतोर्वः॑ इति मकारस्य वत्वेऽन्तर्वदिति प्रकृतिभागः संपद्यत इति भावः । वत्वमिति पतिरस्या अस्तीति विग्रहेतदस्यास्त्यस्मिन्नि॑ति मतुपो मकारस्य मादुपधात्परत्वाऽभावेन 'मादुपधायाः' इति वत्वमप्राप्तं निपात्यत इत्यर्थः । प्रत्युदाहरणं त्विति । गर्भिण्यामेव मतुब्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहवाक्यमेव, नतु मतुबित्यर्थः । पतिमती पृथिवीति । जीवद्भर्तृकायामेव वत्वनिपातनादिह वत्वाऽभाव इति भावः ।

Padamanjari

Up

निपातनसमार्थ्याच्चेति । कार्यान्तरवदर्थविशेषवृत्तिरपि लभ्यत इति भावः । कस्मिन्विशेष इत्यत्राह अन्तर्वत्पतिवदिति । गभभर्तृसंयोगे इति । अन्तर्वदिति । गर्भसंयोगे, गर्भिण्यामित्यर्थः । पतिवदिति । भर्तृसंयोगे, भर्तृमत्यामित्यर्थः, जीवपत्यामिति यावत् । इह न भवति अन्तरस्यां शालायां विद्यते इति । अस्मिन्विषये एवंविधं वाक्यमेव भवति, न तु मतुबादीत्यर्थः । क्वचिद् अन्तर्वती शालेति पठ।ल्ते, तदयुक्तम् ; अत्र मतुबभावस्योक्तत्वात् । पतिमती पथिवीति । स्वामिपर्यायोऽत्र पतिशब्दः । मतुब्निपात्यत इति । अधिकरणप्रधानस्यान्तः शब्दस्यास्तिनाऽसामानाधिकरण्यान्न प्राप्नोतीति कृत्वा । वत्वं तु सिद्धमिति ।'मादुपधायाश्च' इत्यनेनादुपधत्वात् । अन्तर्वत्पतिवतोरित्यादि । एतयोः शब्दयोर्निपातनान्मतुब्वत्वे भवतः, नुक्तु विधीयते यथाक्रमं गर्भिण्यां जीवपत्यां चाभिधेयायाम् -जीवः पतिरस्याः जीवपतिः'विभाषा सपूर्वस्य' इति ङीम्नकारयोरभावपक्षे रूपम् । तत्र ङितिह्रस्वश्चऽ इति नदीसंज्ञापक्षे ठिदुद्भ्याम्ऽ इति णेóरामादेशः, जीवपत्यामिति भवति । वा तु च्छन्दसि नुग्विधिः । च्छन्दसि विषये तु विकल्पेन नुग्विधिर्भवति - अन्तर्वती, अन्तर्वत्नी । पुंस्यापि दृश्यते - सोऽन्तर्वानभवत् ॥