भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा

3-4-68 भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्तरि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भव्यादयः शब्दाः कर्तरि वा निपात्यन्ते। <<तयोरेव कृत्यक्तखलर्थाः>>३.४.७० इति भावकर्मणोः प्राप्तयोः कर्ता च वाच्यः पक्ष उच्यते। भवत्यसौ भव्यः, भव्यमनेनेति वा। गेयो माणवकः साम्नाम्, गेयानि माणवकेन सामानीति वा। प्रवचनीयो गुरुः स्वाध्यायस्य, प्रवचनीयो गुरुणा स्वाध्याय इति वा। उपस्थानीयोऽन्तेवासी गुरोः, उपस्थानीयःशिष्येण वा गुरुः। जायतेऽसौ जन्यः, जन्यमनेनेति वा। आप्लवतेऽसावाप्लाव्यः, आप्लाव्यमनेनेति वा। आपतत्यसावापात्यः, आपात्यमनेनेति वा॥

Siddhanta Kaumudi

Up

एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकात्तु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्नामयम् । गेयं सामानेन वा इत्यादि । शकि लिङ् च <{SK2823}> । चात्कृत्याः । वोढुं वशक्यो वोढव्यः । वहनीयो वाह्यः । लिङा बाधा माभूदिति कृत्योक्तिः ॥ लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे कृत्याश्चेति सुत्यजम् । अर्हे कृत्यतृचोर्ग्रहणं च ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा>> - भव्यगेय । कर्तरि वेति ।कर्तरि कृ॑दित्यतः कर्तरीत्यनुवृत्तं वेत्यनेन संबध्यते । तथा च कर्तरि वा एते निपात्यन्ते । अन्यत्र नेति फलति । तत्र अन्यत्रेत्यस्याऽनिर्धारणादाह — पक्षे इति । अन्यत्रापि न सर्वत्र, किंतुतयोरेव कृत्यक्तखलर्थाः॑ इति सूत्रेण सकर्मकात्कर्मणि, अकर्मकाद्भावे एते कृत्या ज्ञेया इत्यर्थः ।तयोरेव कृत्ये॑ति सूत्रेलः कर्मणि चे॑त्यस्मात्सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भाव इत्यनुवर्तते इति भावः । भव्य इति । कर्तरि अचो यत् । भव्यमनेन वेति । भावे यत् ।गेयः साम्नामयमित । गाधातोः कर्तरि यत् ।ईद्यती॑ति प्रकृतेरीत्त्वम् । गुणः । साम्नां कर्मणामनभिहितत्वात्कृद्योगे षष्ठी । कर्तुरभिहितत्वात्प्रथमा । गेयं सामाऽनेनेति । कर्मणि यत्, सकर्मकत्वात्, नतु भावे, कर्तुरनभिहितत्वात्तृतीया । कृद्योगषष्टी तु कृत्ययोगे कर्तरि वैकल्पिकी,कृत्यानां कर्तरि वा ॑ इत्युक्तेः । इत्यादीति ।प्रवचनीयो गुरुर्वेदस्य॑ । प्रवक्तेत्यर्थः । कर्तरि अनीयर् ।प्रवचनीयो वेदो गुरुणे॑ति वा ।उपस्थानीयः शिष्यो गुरोः॑,उपस्थानीयो गुरुः शिष्येणे॑ति वा ।जन्योऽसौ॑ । जायते इत्यर्थः ।जन्यमनेने॑ति वा । आप्लवतेऽसौआप्लाव्यः॑ । 'ओरावश्यके' इति कर्तरि ण्यत् ।आप्लाव्यमनेने॑ति वा । आपतत्यसौआपात्यः ।ऋहलो॑रिति कर्तरि ण्यत् ।आपात्यमनेन वा॑ ।शकि लिङ् चे॑त्यपि व्याख्यातं प्राक् विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् । नन्विह चकारानुकृष्टकृत्यविधिव्र्यर्थः, शक्तौ अशक्तौ च भावकर्मणोः सामान्यतः कृत्यविदित एव शक्तावपि सिद्धेरित्यत आह — लिङा बाधेति ।शकि लि॑ङित्येतावत्येवोक्ते शक्तौ विशेषविहितेन लिङा कृत्यानां बाधः स्यात्, अशक्तौ कृत्यानां चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधिकारादूध्र्वं नेत्युक्तमेवेति भावः । लाघवादिति । इह चकारमात्रेण वासरूपविधेः स्त्र्यधिकारादूध्र्वमनित्यताज्ञापनं संभवति, अतःप्रैषातिसर्गे॑ति सूत्रे कृत्यग्रहणेनअर्हे कृत्यतृचश्चे॑त्यत्र कृत्यतृज्ग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः । इति कृत्यप्रक्रिया ॥ इति बालमनोरमायाम् कृत्यप्रक्रिया॥अथ क्र्यादयः । अथ श्नाविकरणधातवो निरूप्यन्ते । डु क्रीञिति ।

Padamanjari

Up

भव्य इति । ठचो यत्ऽ, गुणः,'वान्तो यि प्रत्यये' इति वान्तादेशः । गेयो माणवकः साम्नामिति । एतेन'कै गै शब्दे' इत्यस्येदं निपातनम्, न'गाङ् गतौ' इत्यस्येति दर्शयति । एतच्च निपातनाल्लभ्यते । ठीद्यतिऽ इतीत्वम् । जन्य इति । ठचो यत्ऽ इत्यत्र'तकिशसिचतियतिजनीनामुपसङ्ख्यानम्' इति वचनाद्यत् । आप्लाव्य इति । ठोरावश्यकेऽ । आपात्य इति । ठृहलोर्ण्यत्ऽ ॥