3-1-83 हलः श्नः शानच् हौ प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः कर्तरि
हलः श्नः शानच् हौ
हलन्तात् परस्य श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच्-आदेशः भवति ।
The श्ना प्रत्यय following a हल् letter is converted to शानच् when followed by the 'हि' प्रत्यय.
हल उत्तरस्य श्नाप्रत्ययस्य शानजादेशो भवति हौ परतः। मुषाण। पुषाण। हल इति किम्? क्रीणीहि। हाविति किम्? मुष्णाति। श्न इति स्थानिनिर्देश आदेशसंप्रत्ययार्थः। इतरथा हि प्रत्ययान्तरमेव सर्वविषयं विज्ञायेत॥
हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे स्तभ्नुहीत्यादि ।{$ {!1479 युञ्!} बन्धने $}। युनाति । युनीते । योता ।{$ {!1480 क्नूञ्!} शब्दे $}। क्नूनाति । क्नूनीते । क्नविता ।{$ {!1481 द्रूञ्!} हिंसायाम्$} । द्रूणाति । द्रूणीते ।{$ {!1482 पूञ्!} पवने$} ॥
हलः परस्य श्नः शानजादेशः स्याद्धौ परे। स्तभान॥
परस्मैपदस्य मध्यमपुरुषैकवचनस्य 'सि' प्रत्ययस्य लोट्लकारस्य विषये <<सेर्ह्यपिच्च>> 3.4.87 इत्यनेन हि-आदेशः भवति । अस्मिन् हि-प्रत्यये परे हलन्तात् परस्य श्ना-प्रत्ययस्य शानच्-आदेशः भवति । यथा, मुष् (स्तेये) इति क्र्यादिगणस्य धातुः । अस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति - मुष् + लोट् [<<लोट् च>> 3.3.162 इत्यनेन लोट्-लकारः] → मुष् + सिप् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन मध्यमपुरुषैकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः] → मुष् + श्ना + सिप् [सार्वधातुके प्रत्यये परे <<क्र्यादिभ्यः श्ना>> 3.1.73 इति विकरणप्रत्ययः 'श्ना'] → मुष् + श्ना + हि [<<सेर्ह्यपिच्च>> 3.4.87 इत्यनेन सि-प्रत्ययस्य हि-आदेशः] → मुष् + शानच् + हि [<<हलः श्नः शानज्झौ>> 3.1.83 इति श्ना-प्रत्ययस्य शानच्-आदेशः] → मुष् + आन + हि [इत्संज्ञालोपः] → मुष् + आन [<<अतो हेः>> 6.4.105 इति अदन्तात् परस्य हि-प्रत्ययस्य लोपः] → मुषाण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] ज्ञातव्यम् - <<स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च>> 3.1.82 इत्यनेन पाठितानाम् सौत्रधातूनाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - 'स्तन्भ्' धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनम् 'स्तभान' इति भवति । अत्रापि प्रक्रिया उपरिनिर्दिष्टसमाना एव ।
<<हलः श्नः शानज्झौ>> - स्तभानेति श्नाप्रत्ययस्य शानजादेसे कृते 'अतो हे' रिति लुक् ।
हलः श्रः शानज्झौ॥ पुषाण्, मुषाणेति। लोट्, सिप्, तस्य हिः, र्ठ्क्यादिभ्यः श्नाऽ,तस्य शानच्। चकारः स्वरार्थः। अत्र सन्निपातपरिभाषया अनित्यत्वाद् ठतो हेःऽ इति हेर्लुक्। ननु च श्नाप्रत्ययस्य प्रकृतत्वातस्यैव शानजादेशो भविष्यति, नार्थः श्न इति स्थानिनिर्द्देशेनात आह - श्र इति स्थानीत्यादि। आदेश इत्येष संप्रत्ययः - अवगमो यथा स्यादित्येवमर्थः। असति तु तस्मिन् किं स्यादित्याह - प्रत्ययान्तरमिति। अस्तु प्रत्ययान्तरम्, र्ठ्क्यादिभ्यःऽ इत्यनुवृतेस्तेभ्य एव हलन्तेभ्यो भविष्यतीति न कश्चिद्दोष इत्यत आह - सर्वविषयमिति। अर्क्यादिविषयमपीत्यर्थः। र्क्याद्यनुवृत्तिर्दुर्ज्ञानेति मन्यते। शानचः शित्करणञ्चिन्त्यप्रयोजनम्; स्थानिवद्भावेनैव सिद्धेः। इह'ञिमिदा स्नेहने' दिवादिः, व्यत्ययेन च्छन्दसि श्ना, तस्य शानजादेशः, मिदान।'मिदेर्गुणः' इति प्रतिषेधविषये विधीयमानो गुणो न भवति, पुनः शित्करणेन'सार्वधातुकमपित्' इत्यस्यापि पुनः प्रवृतेरिति केचित्। नेति वयम्; यथैव व्यत्ययेन श्ना भवति, एवं गुणविषये इकारो भविष्यति॥