3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्यन्
कर्त्तरि सार्वधातुके भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुटि-लषः धातोः परः श्यन् वा
कर्तरि सार्वधातुके प्रत्यये परे भ्राश्, भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् - एतेभ्यः परः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs भ्राश् , भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् get the श्यन् विकरण optionally.
उभयत्र विभाषेयम्। <<टुभ्राशृ टुभ्लाशृ दीप्तौ>>, <<भ्रमु अनवस्थाने>>, <<भ्रमु चलने>> , द्वयोरपि ग्रहणम्, <<क्रमु पादविक्षेपे>>, <<क्लमु ग्लानौ>>, <<त्रसी उद्वेगे>>, <<त्रुटी छेदने>>, <<लष कान्तौ>> एतेभ्यो वा श्यन् प्रत्ययो भवति। भ्राश्यते, भ्राशते। भ्लाश्यते, भ्लाशते। भ्राम्यति, भ्रमति। क्राम्यति, क्रामति। क्लाम्यति, क्लामति। त्रस्यति, त्रसति। त्रुट्यति, त्रुटति। लष्यति, लषति॥
एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ॥
एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्॥
टुभ्राशृँ दीप्तौ, टुभ्लाशृँ दीप्तौ, भ्रमुँ चलने, भ्रमुँ अनवस्थाने, क्रमुँ पादविक्षेपे, क्लमुँ ग्लानौ, त्रसीँ उद्वेगे, त्रुटँ छेदने, लषँ कान्तौ - एतेभ्यः धातुभ्यः सार्वधातुके प्रत्यये परे कर्तरि प्रयोगे अनेन सूत्रेण श्यन्-प्रत्ययः विकल्पेन भवति । श्यन्-प्रत्ययस्य अभावे प्रत्येकम् धातोः तस्य तस्य गणस्य यः गणविकरणप्रत्ययः, सः धातोः परः विधीयते । यदि विशिष्टः गणविकरणप्रत्ययः नास्ति, यदि वा धातुः दिवादिगणस्यैव अस्ति, तर्हि श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । प्रत्येकम् धातोः विषये क्रमेण पश्यामः - 1) टुभ्राशृँ दीप्तौ - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । - भ्राश्यते, भ्राशते । 2) टुभ्लाशृँ दीप्तौ - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । - भ्लाश्यते, भ्लाशते । 3 क) भ्रमुँ चलने - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । - भ्रम्यति, भ्रमति । 3 ख) भ्रमुँ अनवस्थाने - दिवादिगणः । श्यनः अभावे <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । - भ्राम्यति, भ्रमति । 'भ्राम्यति' इत्यत्र <<शमामष्टानां दीर्घः श्यनि>> 7.3.74 इत्यनेन अङ्गस्य दीर्घः भवति । 4) क्रमुँ पादविक्षेपे - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । - क्राम्यति, क्रामति । उभयोः रूपयोः <<क्रमः परस्मैपदेषु>> 7.3.76 इत्यनेन अङ्गस्य दीर्घः भवति । 5) क्लमुँ ग्लानौ - दिवादिगणः । श्यनः अभावे <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । - क्लाम्यति, क्लामति । 'क्लाम्यति' इत्यत्र <<शमामष्टानां दीर्घः श्यनि>> 7.3.74 इत्यनेन अङ्गस्य दीर्घः भवति । 'क्लामति' इत्यत्र <<ष्ठिवुक्लमुचमां शिति>> 7.3.75 इत्यनेन अङ्गस्य दीर्घः भवति ।] 6) त्रसीँ उद्वेगे - दिवादिगणः । श्यनः अभावे <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । - त्रस्यति, त्रसति । 7) त्रुटँ छेदने - तुदादिगणः । श्यनः अभावे <<तुदादिभ्यः शः>> 3.1.77 इति श-प्रत्ययः भवति । त्रुट्यति, त्रुटति । 8) लषँ कान्तौ - भ्वादिगणः । श्यनः अभावे <<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः भवति । - लष्यति, लषति ।
<<वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः>> - वा भ्राश । 'दिवादिब्यः श्य' नित्यतः श्यन्निति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तदाह -एभ्यः श्यन्वेत्यादि ।
वा भ्राशभ्लशभ्रमुक्रुमुक्लमुत्रसित्रुटिलषः॥ उभयत्रविभाषेयम्। अनवस्थानार्थो भ्रमिः, क्रमित्रसी च दिवादयः, त्रुटिस्तौदादिकः, इतरे भौवादिकाः। भ्राम्यतीति।'शमामष्टानां दीर्गः श्यनि' इति दीर्घः। भौवादिकस्य तु न भवति, अशमादित्वात्। क्रमेः'क्रमः परस्मैपदेषु' इति दीर्घः। क्लमेस्तु'ष्ठिवुक्लम्वाचमां शिति' इति त्रसेर्दिवादिपाठे चिन्त्यं प्रयाजनम्। क्लमेस्तु पुषादिकार्यार्थः॥