लक्षणेनाभिप्रती आभिमुख्ये

2-1-14 लक्षणेन अभिप्रती आभिमुख्ये आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लक्षणं चिह्नम्, तद्वाचिना सुबन्तेन सहाभिप्रती शब्दावाभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति। अभ्यग्नि शलभाः पतन्ति, अग्निमभि। प्रत्यग्नि, अग्निं प्रति। अग्निं लक्ष्यीकृत्य अभिमुखं पतन्तीत्यर्थः। लक्षणेनेति किम्? स्रुघ्नं प्रतिगतः। प्रतिनिवृत्त्य स्रुघ्नमेवाभिमुखं गतः। अभिप्रती इति किम्? येनाग्निस्तेन गतः। आभिमुख्य इति किम्? अभ्यङ्का गावः। प्रत्यङ्का गावः। नवाङ्का इत्यर्थः॥

Siddhanta Kaumudi

Up

आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्रागवत् । अभ्यग्नि शलभाः पतन्ति अग्निमभि । प्रत्यग्नि अग्निं प्रति ॥

Laghu Siddhanta Kaumudi

Up

चतुर्थ्यन्तात् कष्टशब्दादुत्साहेर्ऽथे क्यङ् स्यात्। कष्टाय क्रमते कष्टायते। पापं कर्तुमुत्सहत इत्यर्थः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लक्षणेनाभिप्रती आभिमुख्ये>> - लक्षणेनाभि । लक्षणेनेत्येतद्व्याचश्टे-चिह्नवाचिनेति । प्राग्वदिति ।समस्येतेसोऽव्ययीभाव॑ इत्यर्थः । अभ्यग्नीति । शलभाः-क्षुद्रजन्तुविशेषाः स्थूलमक्षिकाः । अग्निमभीति । विग्रहोऽयम् । 'अभिरभागे' इतिलक्षणेत्थ॑मिति चाभिप्रत्योः कर्मप्रवचनीयत्वम्, अग्निज्ञाप्यं तदभिमुखं च शलभपतनमित्यर्थः ।

Padamanjari

Up

अभ्याग्न, प्रत्यग्नीति। अग्नि प्रतीति विग्रहः, ठभिरभागेऽ'लक्षणेत्थम्भूत' इति अभिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया। तत्राग्निर्लक्षणम्, तेन हि शलाभानां पातो लक्ष्यते, अभिप्रती च लक्ष्यलक्षणभावं द्योतयित्वाभिमुख्यमपि द्योतयतः। स्रुघ्नं प्रतिगत इति येन देशेनाग्निर्गतस्तेनेति प्रतीतिर्भवति, गमनस्याग्निर्लक्षणभाभिमुख्यं चास्ति,'येन-तेन' शब्देन सह समासः स्यात्। अभ्यङ्काः, प्रत्यङ्काः इति। अभिनवोऽङ्क आसाम्, प्रतिनवोऽङ्क आसामिति बहुव्रीहिः। अङ्कोऽत्र भवति गवां लक्षणम्, आभिमुख्यं तु नास्ति। ननु च सति संभवेऽव्ययार्थे प्रधानेऽव्यीभाव इत्युक्तम्, कथमत्र प्रसङ्गः? एवं तर्ह्येतज्ज्ञापयति-भवतियत्र प्रकरणे बहुव्रीहिविषयेऽव्ययीभाव इति। तेन'संख्या वंश्येन' , द्विमुनि व्याकरणमित्येतत्सिध्दं भवति॥