6-1-179 षट्त्रिचतुर्भ्यः हलादिः अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम्
अन्तोदात्तादित्येतद् निवृत्तम्। षट्संज्ञकेभ्यस्त्रि चतुर् इत्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति। ष॒ड्भिः। ष॒ड्भ्यः। प॒ञ्चा॒नाम् (तै० सं० १.६.१.२)। ष॒ण्णाम्। स॒प्ता॒नाम् (ऋ० ८.२८.५)। त्रि — त्रि॒भिः (ऋ० १.३४.११)। त्र्िाभ्यः। त्र॒या॒णाम् (तै० सं० ३.४.३.८)। चतुर् — च॒तु॒र्णाम् (ऋ० ८.७४.१३)। हलादिरिति किम्? चत॑स्रः (ऋ० १.६२.६) पश्य॥
एभ्यो हलादिर्विभक्तिरुदात्ता । आषङ्भिर्हूयमानः (आष॒ड्भिर्हू॒यमा॑नः) । त्रिभिष्ट्वं देव (त्रिभिष्ट्वं दे॑व) ॥
अन्तोदातादिति निवृतमिति। यद्येतदनुवर्तेत पञ्चानाम्, नवानाम्, चतुर्मामित्यत्र न स्यात्;'न्रः संख्याया' इत्याद्यौदातत्वात्, क्व तर्हि स्यात् ? सप्तानाम्, अष्टानाम्। सप्ताष्टशब्दौ घृतादित्वादन्तोदातौ।'न्रः' इति रेफनकारान्ताया इत्यर्थः। चतस्रः पश्येति। यथैतदिह हलादिग्रहणस्य व्यावर्त्यं तथा'चतुरः शसि' इत्यत्रावोचाम ॥