ओत्
1-1-15 ओत् प्रगृह्यम् निपातः
Sampurna sutra
Up
ओत् निपातः प्रगृह्यम्
Neelesh Sanskrit Brief
Up
ओकारान्तनिपाताः प्रगृह्यसंज्ञकाः सन्ति ।
Neelesh English Brief
Up
All ओकारान्त निपातs are known as प्रगृह्य.
Kashika
Up
निपात इति वर्तते। तस्यौकारेण तदन्तविधिः। ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति । आहो इति। उताहो इति॥
Siddhanta Kaumudi
Up
ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥
Laghu Siddhanta Kaumudi
Up
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यतः <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् पञ्चमम् सूत्रम् । अनेन सूत्रेण ओकारान्तनिपातानाम् प्रगृह्यसंज्ञा भवति ।
निपातसंज्ञा — व्याकरणशास्त्रे शब्दानां कश्चन समूहः 'निपातः' नाम्ना ज्ञायते । <<प्राग्रीश्वरान्निपाताः>> 1.4.56 अस्मात् सूत्रात् आरभ्य <<अधिरीश्वरे>> 1.4.97 इति यावत्सु सर्वेषु सूत्रेषु निपातसंज्ञकाः शब्दाः पाठिताः सन्ति ।
ओकारान्त-निपातानाम् प्रगृह्यसंज्ञा — ये निपातसंज्ञकाः शब्दाः ओकारान्ताः सन्ति तेषाम् प्रकृतसूत्रेण 'प्रगृह्यम्' इति संज्ञा विधीयते । एतेषाम् आवली इयम् —
ओ, अहो, हो, आहो, उताहो, नो, अथो— एते ओकारान्तनिपाताः, अतः प्रगृह्यसंज्ञकाः निपाताः ।
प्रगृह्यसंज्ञायाम् जातायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन एतेषाम् अच्सन्धौ प्रकृतिभावः विधीयते । अतः 'अहो ईशाः', 'नो इदानीम्ः', 'अथो इति' एतेषु उदाहरणेषु अच्सन्धिः न भवति ।
Balamanorama
Up
Padamanjari
Up