एकाजुत्तरपदे णः

8-4-12 एकाजुत्तरपदे णः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् प्रातिपदिकान्तनुम्विभक्तिषु

Sampurna sutra

Up

पूर्वपदात् रषाभ्यां प्रातिपदिकान्त-नुम्-विभक्तिषु एकाच्-उत्तरपदे नः णः , अट्कुप्वाङ्नुम्व्यवाये अपि

Neelesh Sanskrit Brief

Up

पूर्वपदस्थेन णत्वनिमित्तकवर्णेन प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः एकाच्-उत्तरपदस्य नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।

Neelesh English Brief

Up

For a समस्तपद, a रेफ or a षकार present in the पूर्वपद causes the णत्व of the नकार present in the एकाच् उत्तरपद whenever the नकार is (1) at end of a प्रातिपदिक, or (2) created due to a नुमागम, or (3) part of a विभक्ति.

Kashika

Up

एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थाद् निमित्तादुत्तरस्य नकारस्य णकार आदेशो भवति। वृत्रहणौ, वृत्रहणः। नुमि — क्षीरपाणि। सुरापाणि। विभक्तौ — क्षीरपेण। सुरापेण। ण इति वर्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेर्विस्पष्टीकरणार्थम्॥

Siddhanta Kaumudi

Up

एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाऽभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । स्वयम्भूः पुंवत् ॥

Laghu Siddhanta Kaumudi

Up

एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः। वृत्रहणौ॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्य विषये सिद्धान्तः प्रोक्तः अस्ति । यदि समस्तपदस्य पूर्वपदे षकारः रेफः वा अस्ति, तथा समस्तपदस्य उत्तरपदे एकः एव अच्-वर्णः अस्ति, तर्हि - (1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । (2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुमर्हति । (3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुमर्हति । क्रमेण उदाहरणानि पश्यामः । (1) 'वृत्रहन्' इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - वृत्रम् हतवान् सः वृत्रहन् । अत्र पूर्वपदम् 'वृत्र' इति, उत्तरपदम् च 'हन्' इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे एकः एव अच्-वर्णः अस्ति । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । यथा - वृत्रहन् + औ → वृत्रहणौ । (2) क्षीरं पिबति तत् क्षीरप । अयमकारान्त-नपुंसकशब्दः । अस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् - क्षीरप + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → क्षीरप + शि [<<जश्शसोः शिः>> 7.1.20 इति जस्-इत्यस्य शि-आदेशः] → क्षीरप + नुम् + इ [<<नपुंसकस्य झलचः>> 7.1.72 इति नुमागमः] → क्षीरपा + नि [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → क्षीरपाणि [<<एकाजुत्तरपदे णः>> 8.4.12 इति णत्वम्] अत्र अन्तिमसोपाने 'क्षीरप' इति समस्तपदमस्ति, तस्य पूर्वपदे रेफः अस्ति, उत्तरपदम् एकाच् अस्ति, तथा उत्तरपदे नुमागमः क्रियते । अतः <<एकाजुत्तरपदे णः>> 8.4.12 इत्यनेन नुमागमस्य यः नकारः तस्य णत्वं विधीयते । (3) 'क्षीरप' इत्यस्यैव तृतीया-एकवचनम् 'क्षीरपेण' इति भवति । अत्र नकारः विभक्तिरूपे आगच्छति । अतः अत्रापि अनेन सूत्रेण णत्वं भवति । ज्ञातव्यम् - यद्यपि <<रषाभ्यां नो णः समानपदे>> 8.4.1 इत्यस्मात् णकारस्य अनुवृत्तिः अस्ति, तथापि अस्मिन् सूत्रे पुनः णकारः प्रयुक्तः अस्ति । एतत् केवलं स्पष्टतायै कृतमस्ति ।

Balamanorama

Up

<<एकाजुत्तरपदे णः>> - एकाजुत्तरपदे णः । समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एकोऽच्यस्मिन्तत्-एकाच्, तदुत्तरपदं यस्य स एकाजुत्तरपदः । तस्मिन्समासे इति बहुव्रीहिगर्भो बहुव्रीहिः । 'रषाभ्यां नो णः' इत्यनुवर्तते ।पूर्वपदात्संज्ञाया॑मित्यतः पूर्वपदादित्यनुवर्तते । पूर्वं पदं यस्य तत्पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्थाभ्यामिति लभ्यते ।प्रातिपदिकान्तनुम्विभक्तिषु चे॑त्यनुवर्तते ।विद्यमानस्ये॑ति शेषः । तदाह — एकाजुत्तरपदमित्यादिना । नन्विह णकारग्रहणं व्यर्थं, 'रषाभ्यां नो णः' इत्यत एव तदनुवृत्तिसिद्धेः । नचप्रातिपदिकान्तनुम्विभक्तिषु चे॑ति विकल्पनिवृत्त्यर्थं पुनर्णग्रहणमिति वाच्यम्, आरम्भ सामर्थ्यादेव नित्यत्वसिद्धेरित्यत आह — आरम्भेति । यणमिति ।दृन्करे॑ति यणमित्यर्थः । पुनर्भूणामिति । रेफस्यहशि चे॑त्युत्त्वं तु न, रोरेव तद्विधानात् । ङेराम्, पुनर्भ्वाम् । वर्षाभूशब्दे विशेषमाह — भेकेति ।बह्वादिभ्यश्चे॑ति ङीषो वैकल्पिकत्वान्ङीषभावे वर्षाभूशब्दः । स च भेकजातौ द्विलिङ्गः ।भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान् इति यादवः । दर्दुरो भेकः । एवं चलिङ्गान्तरानभिधायकत्वमि॑ति कैयटमते नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावे सतिअम्बार्थे॑ति ह्रस्वाऽभावे सति हे वर्षाभूरिति रूपमित्यर्थः । मतान्तरे त्विति ।पदान्तरं विनापि स्त्रियां वर्तमानत्व॑मिति वृत्तिकारादीनां मते तु वर्षाभूशब्दस्य भेकजातौ स्त्रीलिङ्गमात्रावगमात्कैयटमतेऽपि नित्यस्त्रीत्वं कुतो न स्यादित्यत आह — भेक्यामिति । यादवकोशानुसारादमरकोशे स्त्रीग्रहणमुपलक्षणमिति भावः । यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्वमस्तु । अजादौ 'एरनेकाचः' इति यणो 'न भूसुधियोः' इति निषेधे प्राप्तेवर्षाभ्वश्चे॑ति यणः प्रतिप्रसव उक्तः । तं स्मारयति-वर्षाभ्वश्चेति । स्वयम्भूः पुंविदिति । स्वयम्भूशब्दस्य चतुरानने रूढत्वात्तस्य यौगिकस्य पदान्तरं विना स्त्रियामवृत्तेर्न वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेकलिङ्गत्वान्न नित्यस्त्रीत्वमितिभावः । इत्यूदन्ताः । अथ ऋदन्ताः । 'सावसेरृन्' इति सौ उपपदे असधातोः ऋन्प्रत्यये स्वसृशब्दः, भगिनीवाची ।

Padamanjari

Up

विकल्पाधिकारनिवृतेविस्पष्टीकरणार्थमिति । अन्यथा यद्यप्यत्रारम्भसामर्थ्यान्नित्यो विधिः शक्यो विज्ञातुम्, उतरत्र त्वनुवृत्तिः सम्भाव्येत ॥