कुमति च

8-4-13 कुमति च पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् प्रातिपदिकान्तनुम्विभक्तिषु

Sampurna sutra

Up

index: 8.4.13 sutra: कुमति च


पूर्वपदात् रषाभ्यां प्रातिपदिकान्त-नुम्-विभक्तिषु कुमति नः णः, अट्कुप्वाङ्नुम्व्यवाये अपि

Neelesh Sanskrit Brief

Up

index: 8.4.13 sutra: कुमति च


समस्तपदस्य अनेकाच्-उत्तरपदे कवर्गीयवर्णः अस्ति चेत् पूर्वपदस्थेन णत्वनिमित्तकवर्णेन उत्तरपदस्य प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।

Kashika

Up

index: 8.4.13 sutra: कुमति च


कवर्गवति च उत्तरपदे प्रातिपदिकान्तनुंविभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगिणौ। वस्त्रयुगिणः। स्वर्गकामिणौ। वृषगामिणौ। नुमि वस्त्रयुगाणि। खरयुगाणि। विभक्तौ वस्त्रयुगेण। खरयुगेण।

Siddhanta Kaumudi

Up

index: 8.4.13 sutra: कुमति च


कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥

Neelesh Sanskrit Detailed

Up

index: 8.4.13 sutra: कुमति च


अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति । यदि उत्तरपदम् एकाच् विद्यते, तर्हि पूर्वसूत्रेण एकाजुत्तरपदे णः 8.4.12 इत्यनेनैव णत्वं भवितुमर्हति । परन्तु यदि उत्तरपदमनेकाच् विद्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्मिन् अनेकाच्-उत्तरपदे यदि क-वर्गीयः वर्णः (क् / ख् / ग् / घ्/ ङ् एतेषु कश्चन) अस्ति, तर्हि -

(1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति ।

(2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुमर्हति ।

(3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुमर्हति ।

इति वर्तमानसूत्रस्य आशयः ।

क्रमेण उदाहरणानि एतानि -

  1. हरिकामिन् (one who wishes the god) इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - हरेः कामी सः हरिकामी । अत्र पूर्वपदम् 'हरि' इति, उत्तरपदम् 'कामी' इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे द्वौ अच्-वर्णौ तथा ककारः विद्यते । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य मकारस्य स्वरस्य च व्यवधाने अपि णत्वं भवितुमर्हति । यथा - हरिकामिन् + औ → हरिकामिणौ ।

एवमेव - वस्त्रयुगिणौ, स्वर्गगामिणौ - एतौ शब्दौ अपि सिद्ध्यतः ।

  1. 'खरयुग' इति अकारान्तनपुंसकलिङ्गशब्दः । तस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् -

खरयुग + जस् [प्रथमाबहुवचनस्य प्रत्ययः]

→ खरयुग + शि [जश्शसोः शिः 7.1.20 इति शि-आदेशः]

→ खरयुग + नुम् + इ [नपुंसकस्य झलचः 7.1.72 इति नुमागमः]

→ खरयुगा + न् + इ [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः]

→ खरयुगाणि [कुमति च 8.4.13 इति णत्वम्]

एवमेव - सर्वयुगाणि, सर्वकामाणि, सर्वकाकाणाम्, परखगाणाम् - एतादृशाः शब्दाः सिद्ध्यति ।

  1. 'खरयुग' शब्दस्य तृतीयैकवचने 'टा' प्रत्ययस्य 'इन' आदेशे कृते अस्य विभक्तिसंज्ञकस्य नकारस्यापि अनेनैव सूत्रेण णत्वं भवति । खरयुग + टा → खरयुगेण । एवमवे - सर्वकामेण, परखगेण, सर्वयुगेण - आदयः ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'कुमति' इति शब्दः प्रयुज्यते । 'कु' इत्यमात् तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इत्यनेन मतुप्-प्रत्यये कृते कुमत् इति शब्दः सिद्ध्यति, तस्य इदं सप्तम्येकवचनम् । 'कु' (इत्युक्ते, कवर्गीयवर्णः) विद्यते यस्मिन्, सः कुमान् - इति अस्य अर्थः । अतः 'कुमति' इत्यस्य अर्थः 'तादृशे शब्दे परे यस्मिन् कवर्गीयवर्णः विद्यते' - इति अस्ति । अतः अत्र उत्तरपदे कवर्गीयव्यञ्जनम् स्यात् इति आवश्यकम् ।

  2. उत्तरपदे कवर्गं विहाय अन्ये वर्णाः सन्ति चेत् ते अट्-पु-आङ्-नुम्-एतेषु केचन एव भवेयुः । अन्यः कश्चन वर्णः भवति चेत् णत्वं नैव सम्भवति । यथा - 'चन्द्रकलानाम्' अत्र पूर्वपदे यद्यपि रेफः विद्यते, तथा च उत्तरपदे यद्यपि ककारः विद्यते तथापि लकारः अपि अस्ति, यस्य व्यवधानम् णत्वं बाधते । अतः अत्र णत्वं न भवति ।

  3. प्रश्नः - अस्मिन् सूत्रे 'कुमति च' इत्यस्य स्थाने 'कौ च' इत्युच्यते चेत् कः दोषः ?

उत्तरम् - यदि 'कौ च' इति स्यात्, तर्हि <!यस्मिन् विधिस्तदादौ अल्ग्रहणे!> अनया परिभाषया केवलम् 'यस्य उत्तरपदस्य कवर्गीयवर्णेन प्रारम्भः भवति, तस्य विषये एव णत्वं स्यात्' इति अर्थः सिद्ध्येत् । अस्यां स्थितौ 'खरयुगिणौ, सर्वयोग्येण' - एतादृशेषु शब्देषु णत्वं न जायेत । अतः अत्र 'कुमति' इति मतुप्-प्रत्ययान्तप्रयोगः क्रियते । अनेन प्रयोगेण यस्मिन् उत्तरपदे कवर्गीय-वर्णः (कुत्रापि) विद्यते, तस्य विषये अस्य सूत्रस्य प्रयोगावसरः निश्चयेन विद्यते ।

विशेषः - कालिदासकृते मेघदूते प्रथमश्लोके 'वर्षभोग्येण' इति शब्दः विद्यते । अत्र विभक्तिस्थस्य नकारस्य णत्वमनेनैव सूत्रेण भवति । अत्र पूर्वपदे णत्वनिमित्तकः षकारः (रेफश्च) विद्यते, उत्तरपदे च गकारः, तथा च 'भ् , ओ, य् , ए' एतेषां व्यवधानं वर्तते । अतः अत्र वर्तमानसूत्रेण णत्वं भवति ।

Balamanorama

Up

index: 8.4.13 sutra: कुमति च


कुमति च - कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं मत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् ।

Padamanjari

Up

index: 8.4.13 sutra: कुमति च


अनेकाजुतरपदार्थोऽयमारम्भः । वस्त्रयुगिणाविति । युगशब्दादिनि कृते पश्चादिन्नन्तेन समासः कर्तव्यः । एवं तर्हि उतरपदस्य प्रातिपदिकस्यान्तो नकारो भवति; अन्यथा मातृभोगीणवल्लक्षणान्तरेणैव णत्वं सिद्धं स्यात्,'कौ' इत्युच्यमानेऽपि कवर्गमात्रस्योतरपदस्यासम्भवान्मतुबर्थो लभ्यते, नार्थो मतुपा ? सत्यम्;'कौ' इत्युच्यमाने तदादिविधिविज्ञायेत - कवर्गादावुतरपद इति ॥