सहेः साडः सः

8-3-56 सहेः साडः सः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः

Sampurna sutra

Up

सहेः साडः अपदान्तस्य सः मूर्धन्यः

Neelesh Sanskrit Brief

Up

सह्-धातोः 'साड्' अस्य रूपस्य अपदान्तसकारस्य मूर्धन्यः षकारः भवति ।

Neelesh English Brief

Up

The अपदान्त-सकार present in the 'साड्' form of the verb सह् is converted to षकार.

Kashika

Up

सहेर्धातोः साड्रूपस्य यः सकारस्तस्य मूर्धन्य आदेशो भवति। जलाषाट्। तुराषाट्। पृतनाषाट्। सहेरिति किम्? सह डेन वर्तते सडः, तस्यापत्यं साडिः। साड्ग्रहणं किम्? यत्रास्यैतद् रूपं तत्र यथा स्यात्। इह मा भूत् — तुरासाहम्। स इति किम्? आकारस्य मा भूत्॥

Siddhanta Kaumudi

Up

साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि । तुरं सहत इत्यर्थे छन्दसि सहः <{SK3409}> इति ण्विः । लोके तु साहयतेः क्विप् । अन्येषामपि <{SK539}> इति पूर्वपदस्य दीर्घः ॥

Laghu Siddhanta Kaumudi

Up

साड्रूपस्य सहेः सस्य मूर्धन्यादेशः। तुराषाट्, तुराषाड्। तुरासाहौ। तुरासाहः। तुराषाड्भ्यामित्यादि॥

Neelesh Sanskrit Detailed

Up

'सह्' इति भ्वादिगणस्य कश्चन धातुः । यदि अस्य धातोः 'साड्' इति रूपान्तरम् प्रक्रियायाम् दृश्यते, तर्हि अस्य सकारस्य षकारादेशः भवति । यथा, 'तुरम् (=वेगम्) सहते' अस्मिन् अर्थे सह्-धातोः 'तुरासाह्' इति हकारान्तः शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् - तुरासाह् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → तुरासाह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] → तुरासाढ् [<<हो ढः>> 8.2.31 इति पदान्तहकारस्य ढकारः] → तुरासाड् [<<झलां जशोऽन्ते>> 8.2.39 इति ढकारस्य डकारः] → तुराषाड् [<<सहे साडः सः>> 8.3.56 इत्यनेन सह्-धातुनिर्मितः यः साड्-शब्दः, तस्य अपदान्तस्य सकारस्य मूर्धन्यः षकारादेशः भवति ।] → तुराषाड्, तुराषाट् [<<वाऽवसाने>> 8.4.56 इति वैकल्पिकं चर्त्वम् ]

Balamanorama

Up

<<सहेः साडः सः>> - अत तुरासाह्शब्दात्सोह्र्यल्ङ्यादिलोपे हस्य ढत्वे कृते विशेषमाह — सहे) साडः सः ।इक्श्तिपौ धातुनिर्देशे॑ इति 'षह मर्षणे' इति धातोरिक्प्रत्यये 'धात्वादेः षः सः' इति षस्य सत्वे सहिशब्दः । षह्धातोरित्यर्थः । साडिति कृतढत्वडत्ववृद्धेरनुकरणं । तदाह — साडपस्येति । मूर्धन्येति ।अपदान्तस्य मूर्धन्यः॑ इति तदधिकारादिति भावः । मूर्धनि भवः — मूर्धन्यः । मूर्धस्थानक इत्यर्थः । तुराषट् तुराषाडिति । सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्यः षकारः, विवृतप्रयत्नसाम्यात् । 'वाऽवासाने' इति चर्त्वपक्षेऽपि मूर्धन्यो भवत्येव, सूत्रे 'साड' इति कृतजश्त्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भावः । तुरासाहाविति । अपदान्तत्वान्न मूर्धन्य इति भावः । इत्यादीति । तुराषाड्भिः । तुराषाड्भ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः । तुराषाट्सु-तुराषाट्त्सु । अथ तुराषाट्शब्दं व्युत्पादयति — तुरं सहते इत्यर्थे छन्दसि सह इतीति । कर्मण्युपपदे सहेर्ण्विः स्याच्छन्दसीति तदर्थः । णकार इत्, उपदावृद्धिः, अपृक्तलोपः । ननु ण्विप्रत्ययस्य छन्दोविषयत्वेन तुरासाह्शब्दस्य कथं लोके प्रयोग इत्यत आह — लोके त्विति । सहेर्ण्यन्तात्क्विपि णिलोपेऽपृक्तलोपे च सति लोके प्रयोज्य इति भावः । ननुनहिवृत्तिवृषिव्यधिरुआआवसाहतनिषु क्वौ॑ इति हि सहौ क्विबन्ते पर एव पूर्वपदस्य विहितो दीर्घः कथमिह स्यादित्यत आह — अन्येषामपीति । सहेः किम् । डकारेण सहितः सडः=मृडादिशब्दः, स यस्य नाम सोषपि लक्षणया सडः । तस्यापत्यम् । [साडिः] । अत इञ् ।यस्येति चे॑त्यकारलोपः । आदिवृद्धिः । साडिरिति रूपम् । अत्र न मूर्धन्य इति भाष्ये स्थितम् । इति हन्ताः । अथ वकारान्ताः । दिव्शब्दः स्त्रीलिङ्गः ।द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बर॑मित्यमरः । सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंसि सुदिव स् इति स्थिते- ।

Padamanjari

Up

साड्रूपस्येति । साडिति रूपं प्राप्तस्येत्यर्थः । जलाषाडिति ।'भजो ण्विः' ,'च्छन्दसि सहः' , उपधावृद्धिः, ढत्वम्, जश्त्वचर्त्वे, ठन्येषामपि दृश्यतेऽ इत्युपपदस्य दीर्घः, सकारस्यान्तरतमो मूर्धन्यः षकारः । सहेरिति किमिति । अन्यत्र साडशब्दस्यासम्भवं मन्यमानस्य प्रश्नः । सह डेनेति । अडः उ वृश्चिरकलाङ्गलम्, तस्यापत्यं साडिरिति । साड इत्यत्र तु साड्शब्दस्यानर्थकत्वादप्रसङ्गं मत्वा तद्धितान्तः प्रत्युदाहृतः, तत्र हि यस्येतिलोपे कृते साडशब्दोऽर्थवान् भवति । न च यस्येतिलोपस्य स्थानिवत्वम्;'पूर्वत्रासिद्धे न स्थानिवत' इति वचनात् । एवमपि'षत्वतुकोरसिद्धः' इत्यकादेशस्यासिद्धत्वात् साड्शब्दस्याभावः । तस्मात्सह डेन वर्तत इति सड इति पाठः । यस्य नाम्नि डशब्दो वर्तते स सडः, यथा - मृड इति, तस्यापत्यं साडिः । नन्वत्रापि बहिर्भूततद्धितापेक्षत्वाद्बहिरङ्गा वृद्धिः, क्व तर्हि स्यात् ? जलाषाडिति । नन्वत्रापि बहिर्भूत-णव्यपेक्षया बहिरङ्गैव वृद्धिः ? अथ तत्र वचनाद्भवति, इहापि प्राप्नोति - तुरासाहमिति ? तुरासाहं पुरोधायेत्यादौ तु ण्विरेव दुर्लभः, प्रागेव षत्वम् । आकारस्य मा भूदिति । ठन्त्यस्य मा भूत्ऽ इति तु नोक्तम्; डकारस्य डकारवचने प्रयोजनाभावात् । अथाप्यनन्तरतममूर्धन्यार्थं वचनं स्याद् ? एवमप्यपदान्तस्येत्यन्त्यस्य न भविष्यति । नन्वेवमपि ठलोऽन्त्यस्यऽ इत्यस्मिन्बाधिते सर्वादेशो मूर्धन्यः प्राप्नोति, तत्किमुच्यते - आकारस्य मा भूदिति ? उच्यते; ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इत्याकरस्य मूर्धन्यः प्राप्नोति ॥