हे मपरे वा
8-3-26 हे मपरे वा पदस्य पूर्वत्र असिद्धम् संहितायाम् मः
Sampurna sutra
Up
पदस्य मः मपरे हे मः वा
Neelesh Sanskrit Brief
Up
पदान्तमकारात् अनन्तरम् संहितायाम् 'ह् + म्' इति वर्णसमुदायः वर्तते चेत् पदान्तमकारस्य <<मोऽनुस्वारः>> 8.3.23 इत्यनेन प्राप्तं नित्यम् अनुस्वारादेशं बाधित्वा विकल्पेन मकारादेशः एव भवति ।
Neelesh English Brief
Up
In the context of संहिता, if a पदान्तमकार is followed by 'ह् + म्' then that पदान्तमकार is optionally converted to मकार.
Kashika
Up
हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति। किम् ह्मलयति किं ह्मलयति। कथम् ह्मलयति, कथं ह्मलयति॥ यवलपरे यवला वा॥ यवलपरे हकारे मकारस्य यवला यथासंख्यं वा भवन्तीति वक्तव्यम्। किय् ह्यः, किं ह्यः। किवँ् ह्वलयति, किं ह्वलयति। किल् ह्लादयति, किं ह्लादयति॥
Siddhanta Kaumudi
Up
मपरे हकारे परे मस्य म एव स्याद्वा । ह्मल ह्वल चलने । किम् ह्मलयति । किं ह्वलयति ।<!यवलपरे यवला वेति वक्तव्यम् !> (वार्तिकम्) ॥
Laghu Siddhanta Kaumudi
Up
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। <<यवलपरे यवला वा>> (वार्त्तिकम्) । किय्ँ ह्यः, किं ह्यः। किव्ँ ह्वलयति, किं ह्वलयति। किल्ँ ह्लादयति, किं ह्लादयति॥
Neelesh Sanskrit Detailed
Up
पदान्त म् + (ह् + म्) अस्याम् स्थितौ पदान्तमकारस्य <<मोऽनुस्वारः>> 8.3.23 इत्यनेन प्राप्तं अनुस्वारादेशं विकल्पेन बाधित्वा मकारस्य मकारादेशः एव भवति । यथा — किम् + ह्मलयति → किम्ह्मलयति, किं ह्मलयति । अत्र विकल्पेन मकारस्य मकारादेशः एव भवति, पक्षे <<मोऽनुस्वारः>> 8.3.23 इति अनुस्वारादेशः भवति ।
अस्मिन् सूत्रे मपरे इति शब्दे एकः मकारः विद्यते । इतोऽपि द्वयोः मकारयोः अत्र अनुवृत्तिः क्रियते । <<मोऽनुस्वारः>> 8.3.23 इत्यस्मात् षष्ठ्यन्तम् मः इति पदम् अत्र अनुवर्तते, एवमेव <<मो राजि समः क्वौ>> 8.3.25 इत्यस्मात् प्रथमान्तम् मः इति पदम् अपि अत्र अनुवर्तते । अनेन प्रकारेण मः मपरे हे मः वा इति अनुवृत्तिसहितं सूत्रम् जायते । मकारस्य मपरके-हकारे परे विकल्पेन मकारादेशः भवति इति अस्य सूत्रस्य अर्थः इत्थं सिद्ध्यति ।
वार्त्तिकम् — <!यवलपरे यवला वेति वक्तव्यम् !>
पदान्तमकारस्य ह् + य्, ह् + व्, ह् + ल् इत्येतेषु परेषु विकल्पेन यथासङ्ख्यम् य्ँ, व्ँ, ल्ँ एते आदेशाः भवन्ति इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —
1) किम् ह्यः → किय्ँ ह्यः, किं ह्यः ।
2) किम् ह्लादयति → किल्ँ ह्लादयति, किं ह्लादयति ।
3) किम् ह्वलयति → किव्ँ ह्वलयति, किं ह्वलयति ।
सर्वेषु उदाहरणेषु मकारस्य पक्षे <<मोऽनुस्वारः>>
8.3.23 इति अनुस्वारः अपि विधीयते ।
Balamanorama
Up
Padamanjari
Up
ह्मलयतीति ।'ह्मल चलने' , णिच्,'ज्वलह्वलह्मलनमामनुपसर्गाद्वा' इति पक्षे मित्संज्ञा,'मितां ह्रस्वः' इति ह्रस्वत्वम् । यवलपर इति । यवलाः परे यस्माद्वकारत्स तथोक्तः, यवलाश्चैते भवन्त आन्तरतम्यादनुनासिका भवन्ति, वावचनात्पक्षेऽनुस्वारोऽपि भवति । परग्रहणं शक्यमकर्तुम्; सप्तम्यैव तदर्थलाभात् - मकारे परतो यो हकारस्तत्रेति । विपर्ययस्तु न भवति; असम्भवात् । न हि मकारात्परो हकारः क्वचित् सम्भवति ॥