6-1-58 सृजिदृशोः झलि अम् अकिति उपदेशे
index: 6.1.58 sutra: सृजिदृशोर्झल्यमकिति
सृज विसर्गे, दृशिर्प्रेक्षणे इत्येतयोः धात्वोः झलादावकिति प्रत्यये परतः अमागमो भवति। स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। द्रष्टा। द्रष्टुम्। द्रष्टव्यम्। लघूपधगुणापवादोऽयममागमः। अस्राक्षीत्। अद्राक्षीत्। सिचि वृद्धिः अमि कृते भवति, पूर्वं तु बाध्यते। ज्ञलि इति किम्? सर्जनम्। दर्शनम्। अकितीति किम्? सृष्टः। दृष्टः। धातोः स्वरूपग्रहणे तत्प्रतये कार्यविज्ञानादिह न भवति, रज्जुसृड्भ्याम्, देवदृग्भ्याम् इति।
index: 6.1.58 sutra: सृजिदृशोर्झल्यमकिति
अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥
index: 6.1.58 sutra: सृजिदृशोर्झल्यमकिति
अनयोरमागमः स्याज्झलादावकिति । स्रष्टा । स्रक्ष्यति । सृक्षीष्ट । असृष्ट । असृक्षायाम् ॥ {$ {! 26 मृष !} तितिक्षायाम् $} ॥ मृष्यते । ममर्षे । ममर्षिथ । ममृषिषे । मर्षितासि । मर्षिष्यति, मर्षिष्यते ॥ {$ {! 27 णह !} बन्धने $} ॥ नह्यति, नह्यते । ननाह । नेहिथ, ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत्; अनद्ध ॥ इति दिवादयः ॥ ४ ॥
index: 6.1.58 sutra: सृजिदृशोर्झल्यमकिति
सृजिदृशोर्झल्यमकिति - इडभावपक्षे 'अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते — सृजिदृशोः । अम्-अकितीति च्छेदः । नित्यार्थमिदम् । दद्रष्ठेति । ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इट्पक्षे त्वाह — ददर्शिथेति । अझलादित्वादम् नेति भावः । द्रष्टेति । तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति । अमागमे शस्य षत्वेषढो॑रिति कत्वे सस्य ष इति भावः । पश्यतु । अपश्यत् । पश्येत् । आशीर्लिङि आह — दृश्यादिति । अझलादित्वादम् नेति भावः । लुङि विशेषमाह — इरित्त्वादङ् वेति । अत्र अङ्पक्षे गुणनिषेधे प्राप्ते —
index: 6.1.58 sutra: सृजिदृशोर्झल्यमकिति
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायत इति प्रत्यय इह सन्निधापितो झला विशेष्यत इति तदादिविधिर्विज्ञायत इत्याहझलादाविति। अकिति प्रत्यये परत इति। किति परतो न भवतीत्यर्थः। प्रसज्यप्रतिषेधो ह्ययमिष्यते, एतच्च गाङ्कुटादिसूत्र सम्यगुपपादितम्। लघूपधगुणापवा दोऽयमिति। अकितीति वृद्धिस्तु भवति, न बाध्यतेः येन नाप्राप्त्यभावात्। साप्यमि कृते भवति। तस्यैव व्याख्या। पूर्व तु बाध्यत इति। अमागमेन; नित्यत्वातस्य। रज्जुसृड्भ्याम्, देवदृग्भ्यामिति। उभयत्र व्रश्चादिसूत्रेण षत्वे जश्त्वमिति केचित्। अन्ये तु'क्विन्प्रत्ययस्य कुः' इति कुत्वमित्च्छन्ति। ननु न क्विन्नन्तावेतौ, किं तर्हि? क्विबन्तौ? नैष दोषः; यस्माद्धातोः क्वचित्क्विन् विहितः, तस्य प्रत्ययान्तरे कुत्वं भवति,'क्विनः कु' इति वक्तव्ये प्रत्ययग्रहणादिति वक्ष्यते। पदान्तस्येत्यधिकारात् स्रष्टा, द्रष्टेत्यत्र न भवति, कुत्वविधावेव तस्य निर्णयं वक्ष्यामः ॥