बहुलं छन्दसि

7-1-10 बहुलं छन्दसि अतः भिस् ऐस्

Kashika

Up

index: 7.1.10 sutra: बहुलं छन्दसि


छन्दसि विषये बहुलमैसादेशो भवति। अतः इत्युक्तम्, अनतोऽपि भवति नद्यैः इति। अतो न भवति , देवेभिः सर्वेभिः प्रोक्तम् इति।

Siddhanta Kaumudi

Up

index: 7.1.10 sutra: बहुलं छन्दसि


अग्निर्देवेभिः (अ॒ग्निर्दे॒वेभिः॑) ।