बहुलं छन्दसि

7-1-8 बहुलं छन्दसि रुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसि विषये बहुलं रुडागमो भवति । दे॒वा॑ अ॒दुह्र॒ (मै०सं० ४.२.१३)। गन्धर्वाप्स॒र॑सो॒ अदुह्र (मै०सं० ४.२.१३)। दुहेर्लङि झकारस्यादादेशे कृते रुट् । <<लोपस्त आत्मनेपदेषु>> ७.१.४१ इति तकारलोपः। न च भवति — अदुहत। बहुलवचनादन्यत्रापि भवति — अदृ॑श्रमस्य के॒तवः॒ (ऋ०१.५०.३)। <<ऋदृशोऽङि गुणः>> ७.४.१६ इत्येतदपि बहुलवचनादेवात्र न भवति॥

Siddhanta Kaumudi

Up

शीङो रुट् <{SK2442}> ।रुडागमः स्यात् । लोपस्त आत्मनेपदेषु <{SK3563}> इति पक्षे तलोपः । धेनवो दुह्रे (धे॒नवो॑ दुह्रे) । लोपाभावे । घृतं दुहर्ते (घृ॒तं दु॑हर्ते) । अदृश्रमस्य (अदृ॑श्रमस्य) । अतो भिस ऐस् <{SK203}> ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

बहुलवचनादन्यत्रापि भवतीति । एतदर्थमेव विभाषाग्रहणे प्रकृतेऽपि बहुलग्रहणं कृतम् । अदृश्रमिति । इरितो वा इति वाङ् ॥