नेतराच्छन्दसि

7-1-26 न इतरात् छन्दसि स्वमोः नपुंसकात् अद्ड्

Sampurna sutra

Up

इतरात् नपुंसकात् अङ्गात् स्वमोः अद्ड् न छन्दसि

Neelesh Sanskrit Brief

Up

नपुंसकलिङ्गवाचिनः इतर-शब्दात् परस्य सुँ/अम्-प्रत्यययोः वेदानां विषये अद्ड्-आदेशः न भवति ।

Neelesh English Brief

Up

In case of Vedas - The सुँ and अम् प्रत्यय occurring after the नपुंसकलिङ्गवाची 'इतर' शब्द do not get the अद्ड्-आदेशः ।

Kashika

Up

इतरशब्दादुत्तरयोः स्वमोश्छन्दसि विषयेऽद्डादेशो न भवति। मृ॒त॑मि॑त॒रमा॒ण्ड॑म॑वा॒पद्यत॒ (मै०सं० १.६.१२)। वार्त्रघ्नमितरम्। छन्दसीति किम्? इतरत् काष्ठम्। इतरत् कुड्यम्। <<अतोऽम्>> ७.१.२४ इत्यस्मादनन्तरमितराच्छन्दसीति वक्तव्ये नेतराच्छन्दसीति वचनं योगविभागार्थम्। एकतराद्धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते। एकतरं तिष्ठति, एकतरं पश्येति॥

Siddhanta Kaumudi

Up

स्वमोरदड् न । वार्त्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् । समासेऽनञ्पूर्वे क्त्वो ल्यप् <{SK3332}> ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<अद्ड् डतरादिभ्यः पञ्चभ्यः>> 7.1.25 इत्यनेन इतर-शब्दात् परस्य सुँ / अम् -प्रत्यययोः अद्ड् आदेशः उच्यते । वेदानां विषये अयमादेशः न भवति । यथा - 'वार्त्रघ्नम् इतरम्' अयम् छान्दसः प्रयोगः। अत्र 'इतर + अम्' इत्यत्र <<अतोऽम्>> 7.1.24 इत्यनेन अम्-आदेशं कृत्वा रूपं सिद्ध्यति ।

Balamanorama

Up

Padamanjari

Up

अतोऽमित्यस्यानन्तरमेवेति । अमादेश एवाद्डादेशस्यापवादो भविष्यति, ततश्च न इति वक्तव्यं न भवतीति भावः ॥