6-4-47 भ्रस्जः रोपधयोः रम् अन्यतरस्याम् असिद्धवत् अत्र आभात् नलोपः आर्धधातुके
भ्रस्जः र-उपधयोः अन्यतरस्याम् रमार्धधातुके
आर्धधातुके प्रत्यये परे भ्रस्ज्-धातोः रेफस्य तथा उपधावर्णस्य विकल्पेन 'रम्' इति आगमः भवति ।
When followed by an आर्धधातुक प्रत्यय, रेफ and the उपधावर्ण of the the verb root gets the 'रम्' आगम.
भ्रस्जो रेफस्योपधायाश्च रमन्यतरस्यां भवति। रोपधयोरिति स्थानषष्ठीनिर्देशादुपधा रेफश्च निवर्तेते, मित्त्वात् चायमचोऽन्त्यात् परो भवति।भ्रष्टा, भर्ष्टा। भ्रष्टुम्, भर्ष्टुम्। भ्रष्टव्यम्, भर्ष्टव्यम्। भ्रज्जनम्, भर्जनम्। भृष्टः, भृष्टवानित्यत्र पूर्वविप्रतिषेधेन संप्रसारणं भवति। उपदेश इत्येव — बरीभृज्ज्यते॥
भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्तवादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ । बभर्ष्ठ । बभर्जे । रमभावे । बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । स्कोः - <{SK380}> इति सलोपः । व्रश्च - <{SK294}> इति षः । बभ्रष्ठ । बभ्रज्जे । भ्रष्टा । भर्ष्टा । भ्रक्ष्यति । भर्क्ष्यति ।<!क्ङिति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन !> (वार्तिकम्) ॥ भृज्ज्यात् । भृज्ज्यास्ताम् । भर्क्षीष्ट । भ्रक्षीष्ट । अभार्क्षीत् । अभ्राक्षीत् । अभर्ष्ट । अभ्रष्ट ।{$ {!1285 क्षिप!} प्रेरणे$} । क्षिपति । क्षिपते । क्षेप्ता । अक्षैप्सीत् । अक्षिप्त ।{$ {!1286 कृष!} विलेखने$} । कृषति । कृषते । क्रष्टा । कर्ष्टा । कृष्यात् । कृक्षीष्ट ॥ स्पृशमृशकृषेति सिज्वा । पक्षे क्सः । सिचि अम्वा । अक्राक्षीत् । अकार्क्षीत् । अकृक्षत् । तङि लिङ्सिचौ - <{SK2300}> इति कित्त्वादम्न । अकृष्ट । अकृक्षाताम् । अकृक्षत । अकृक्षाताम् । अकृक्षन्त ।{$ {!1287 ऋषी!} गतौ$} । परस्मैपदी । ऋषति । आनर्ष ।{$ {!1288 जुषी!} प्रीतिसेवनयोः$} ॥ आत्मनेपदिनश्चत्वारः । जुषते ।{$ {!1289 ओविजी!} भयचलनयोः$} । प्रायेणायमुत्पूर्वः । उद्विजते ॥
भ्रस्जो रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके। मित्वादन्त्यादचः परः। स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः। बभर्ज। बभर्जतुः। बभर्जिथ, बभर्ष्ठ। बभ्रज्ज। बभ्रज्जतुः। बभ्रज्जिथ। स्कोरिति सलोपः। व्रश्चेति षः। बभ्रष्ठ। बभर्जे, बभ्रज्जे। भर्ष्टा, भ्रष्टा। भर्क्ष्यति, भ्रक्ष्यति। क्ङिति रमागमं बाधित्वा सम्प्रसारणं पूर्वविप्रतिषेधेन। भृज्ज्यात्। भृज्ज्यास्ताम्। भृज्ज्यासुः। भर्क्षीष्ट, भ्रक्षीष्ट। अभार्क्षीत्, अभ्राक्षीत्। अभर्ष्ट, अभ्रष्ट॥ {$ {! 4 कृष !} विलेखने $} (धातुपाठे <{06.0006}>) ॥ कृषति कृषते। चकर्ष, चकृषे॥
'भ्रस्ज्' (पाके) अस्य धातोः रेफस्य तथा उपधावर्णस्य (इत्युक्ते सकारस्य) आर्धधातुके प्रत्यये परे विकल्पेन रम्-इति आगमः भवति । अत्र बिन्दुद्वयम् स्मर्तव्यम् - 1) 'रम्' अयम् मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अयमन्तिम-स्वरात् अनन्तरमागच्छति । अत्र मकारः इत्संज्ञकः, अकारश्च उच्चारणार्थः अस्ति, अतः प्रयोगे केवलं 'र्' इत्येव दृश्यते । 2) यद्यपि 'रम्' इति आगमः अस्ति, तथापि अस्मिन् सूत्रे स्थानिनौ स्पष्टरूपेण निर्दिष्टौ स्तः, अतः अस्मिन् आगमे कृते निर्दिष्टयोः स्थानिनोः लोपः भवति । इत्युक्ते, वर्तमानसूत्रेण 'भ्रस्ज्' इत्यस्य रेफ-सकारयोः लोपं कृत्वा 'र्' इत्यस्य आगमः विधीयते - भ्रस्ज् = भ् र् अ स् ज् → [रेफस्य लोपः ; सकारस्य लोपः ] भ् अ ज् → [अन्त्यात् अचः परः र् आगमः] → भ् अ र् ज् = भर्ज् यथा - भ्रस्ज्-धातोः तुमुन्-प्रत्ययान्तरूपम् - भ्रस्ज् + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> 3.3.10 इति तुमुन् । अयमार्धधातुकप्रत्ययः अस्ति ।] → भर्ज् + तुम् [<<भ्रस्जो रोपधयोः रमन्यतरस्याम्>> 6.4.47 इत्यनेन रेफस्य तथा उपधावर्णस्य च लोपः, रम्-आगमः] → भर्ष् + तुम् [<<व्रश्चभ्रस्ज...>> 8.2.36 इति षत्वम्] → भर्ष्टुम् [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] अनेन सूत्रेण उक्तः विधिः वैकल्पिकः अस्ति, अतः अस्य अभावे 'भ्रष्टुम्' इत्यपि रूपम् सिद्ध्यति - भ्रस्ज् + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> 3.3.10 इति तुमुन् । अयमार्धधातुकप्रत्ययः अस्ति ।] → भ्रज् + तुम् [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इत्यनेन सकारलोपः] → भ्रष्+ तुम् [<<व्रश्चभ्रस्ज...>> 8.2.36 इति षत्वम्] → भ्रष्टुम् [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्]
<<भ्रस्जो रोपधयोः रमन्यतरस्याम्>> - भ्रस्जो रोपधयोः । 'भ्रस्ज' इत्यवयवषष्ठी ।रोपधयो॑रिति स्थानषष्टी । रश्च उपधा च तयोरिति विग्रहः । रेफादकार उच्चारणार्थः । रेफस्य उपधायाश्च स्थाने इति लभ्यते । 'आर्धधातुके' इत्यधिकृतम् । तदाह — भ्रस्जो रेफस्येत्यादिना । रमि मकार इति । अकार उच्चारणार्थःतदाह — मित्त्वादन्त्यादचः पर इति । तथा च रेफाऽकारादुपरि सकारात् प्राक् रेफ आगम इति फलितत् । भ्र र् स् ज् अ इति स्थितम् । ननु रम आगमत्वेरोपधयो॑रिति कथं स्थानषष्ठीनिर्देश इत्यत आह — स्थानेति । स्थानं — प्रसङ्गः । रेफस्य उपधायाश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफः प्रयोज्यः । भकारादुपरि रेफो जकारात्प्राक्सकारश्च न प्रयोज्याविति लब्धम् । तथा च तयोर्निवृत्तिः फलितेति भावः । एवं च भर्ज् अ इति स्थिते द्वित्वादौ रूपमाह - बभर्जेति.अतुसादावपि संयोगात्परत्वात्कित्त्वाऽभावात्ग्रहिज्ये॑ति संप्रसारणं न भवति । भारद्वाजनियमात्थलि वेडितिमत्वाऽऽह - बभर्जिथ बभर्ष्ठेति । इडभावपक्षे बर्भज् थ इति स्थिते 'व्रश्च' इति जस्य षः । ष्टुत्वेन थस्य ठ इति भावः । बभर्जिव । लिटस्तङ्याह - बभर्जे इति । बभर्जाते इत्यादि सुगमम् । रमभावे आह — बभ्रज्जेति । णलि भ्रस्ज् अ इति स्थिते द्वित्वे हलादिशेषे अभ्यासजश्त्वे बभ्रस्ज् अ इति स्थिते सस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारैति भावः ।लिटभ्यासस्ये॑ति संप्रासरणस्य न प्रसक्तिः, अभ्यासे हलादिशेषेण रेफाऽभावात् । बभ्रज्जतुरिति । संयोगात्परत्वादकित्त्वात्ग्रहिज्ये॑ति न संप्रसारणमिति भावः । बभ्रज्जिथेति । थलिभारद्वाजनियमादिट्पक्षे रमभावपक्षे लिटस्तह्राह — बभ्रज्जेति । बभ्रज्जाते । बभ्रज्जिषे । इत्यादि सुगमम् । भ्रष्टेति । रमभावपक्षे रूपम् । भर्ष्टेति । रमागमे भर्ज् ता इति स्थिते जस्य 'व्रश्च' इति षः, ष्टुत्वेन तकारस्यट इति भावः । एवं — भ्रक्ष्यति भक्ष्र्यतीति ।षढो॑रिति कत्वे सस्य षत्वमिति विशेषः । भृज्जतु ।अभृज्जत् । भृज्जेत् । ननु आशीर्लिङि भ्रस्ज् यादिति स्थिते यासुटः कित्त्वात्ग्रहिज्ये॑ति संप्रसारणे पूर्वरूपे सकारस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारे भृज्ज्यादिति रूपं वक्ष्यति । तदयुक्तम् । संप्रसारणं बाधित्वा परत्वाद्रमागमे कृते भज्र्यादिति प्रसङ्गादित्यत आह — क्ङिति रमागममिति । आशीर्लिङस्तङि सीयुटि रमागमपक्षे आह — भर्क्षीष्टेति । रमभावे तु अकित्त्वात्संप्रसारणाऽभवादाह - भ्रक्षीष्टेति । लुङि परस्मैपदे रमागमविकल्पं मत्वाह - अभार्क्षीत् अभ्राक्षीदिति । आत्मनेपदे सिचि रमागमविकल्पं मत्वाह - अभष्र्ट - अभ्रष्टेति ।झलो झली॑ति सिज्लोपः । क्षिप प्रेरणे इति । अनिट् । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमात्थलि नित्यमिट् ।चिक्षेपिथ । एवं कृषधातुरपि.चकर्षिथ । लुटि तासिअनुदात्तस्य चर्दुपधस्ये॑त्यमागमविकल्पः । अमागमाऽभावे गुणे रपरत्वम् । तदाह - क्रष्टा कर्ष्टेति । आशीर्लिङि परस्मैपदे आह — कृष्यादिति । कित्त्वाज्झलादित्वाऽभावाच्च अमागमो गुणश्च नेति भावः । आशीर्लिङस्तङ्याह - कृक्षीष्टेति । 'लिङ्सिचौ' इति कित्त्वादमागमो गुणश्च नेतिभावः । लुङि परस्मैपदे आह - स्पृशमृशेति सिज्वेति । पक्षे इति । सिजभावपक्षे 'शलः' इति क्स इत्यर्थः । सिचि अम्वेति । सिच्पक्षे 'अनुदात्तस्य चे' त्यमागमविकल्प इत्यर्थः । क्से तु कित्त्वादमागमो नेति भावः । अक्राक्षीदिति.सिचि अमागमे रूपम् । अकार्क्षीदिति । सिचि अमभावपक्षे हलन्तलक्षणा वृद्धिरिति भावः । क्सादेशपक्षे आह — अकृक्षदिति । कित्त्वादभागमो गुणश्च ज्ञेयम् । अकृष्टेति । 'झलो झली' ति सिज्लोप इति भावः । अकृक्षदिति । कित्त्वादभागमो गुणश्चे नेति भावः । तङीति । तङि सिच्पक्षे अकृष् स् त इतिस्थिते 'लिङ्सिचौ' इतिकित्त्वादम्नेत्यर्थः । गुणोऽपि नेति ज्ञेयम् । अकृष्टेति ।झलो झलीटति सिज्लोप इति भावः । अकृक्षतेति । सिज्पक्षे अनतः परत्वाददादेश इति भावः । क्सादेशपक्षे आह — अकृक्षतेति । कित्त्वादम्नेति भावः । अकृक्षन्तेति । क्सादेशपक्षे अ कृक्ष झ इति स्थिते अच्परकत्वाऽभावात्क्सस्याची॑त्यकारलोपाऽभावादतः परत्वाददादेशाऽभावे अन्तादेश इति भावः । ऋषी गताविति । सेट् । आनर्षिथ आनर्षिव । अर्षिता । आर्षीत् । ओ विजी भयेति । सेट् । उद्विजितेत्यादौ लघूपधगुणे प्राप्ते -
रमित्ययं रोपधयोर्यदि स्थाने भवति मित्वमस्यानर्थकं स्यात्, अथाचोऽन्त्यात्पर आगमो रोपधयोः श्रवणं प्राप्नोति तत्राऽऽह - रोपधयोः प्रसङ्गे रम् प्रयुज्यते, रोपधे न प्रयुज्येते इत्यर्थः । प्रयुज्यमानश्च रम् मित्वादन्त्यादचः परः प्रयुज्यते । यस्य तु देशान्तरे विधानं नास्ति स स्थानिदेश एव भवति, तत्प्रसङ्गे हि तस्य विधानम्, विशिष्टदेशश्च स्थानिनः प्रसङ्गः । इह तु मित्वेनायं न्यायो बाध्यते स्थानषष्ठीनिर्देशसामर्थ्यातु सनः क्तिचि इत्यतो लोपग्रहणमनुवर्त्य रोपधयोर्लोपं रमागमं चान्यतरस्यां विदधति । भ्रज्जनमिति । ल्युटि सकारस्य जश्त्वम् - दकारः, तस्य चुत्वम् - जकारः । पूर्वविप्रतिषेधेनेति । रमोऽवकाशः - भ्रष्टा, भ्रष्टुअम्, सम्प्रसारणस्यावकाशः - भृज्जति, सार्वधातुकत्वादत्र रमोऽप्रसङ्गः, भृष्टः भृष्टवानित्यत्र पूर्वविप्रतिषेधः । अथैवं कस्मान्नोक्तम् - भ्रस्जो रस ऋदन्यतरस्याम् इति भ्रस्जेः सम्बन्धी रमिति योऽयं सङ्घातस्तस्य ऋ इत्ययमादेशो भवतीत्यर्थः । तस्याक्ङिति गुणे कृते भर्जनमित्यादि रुपं भवति, ऋकाराभावपक्षे तु भ्रज्जनमिति क्ङिति ऋकारपक्षे भृष्टमिति, तदभावपक्षे तु, ग्रहिज्यादिसूत्रेण सम्प्रसारणे सति तदेव रुपं भवतीति पूर्वविप्रतिषेधो न वक्तव्यो भवति उपदेशग्रहणमपि नानुवर्त्यम् न ह्यत्र पक्षे रीकः प्रसङ्गेऽस्ति अत्रापि पत्रे पूर्वविप्रतिषेधो वक्तव्यः क्व सिचि वृद्धौ अभार्क्षीदिति अन्यथा ऋकारविकल्पं बाधित्वा परत्वाद्धलन्तलक्षणा वृद्धर्नित्यं प्राप्नोति । रम्भावे तु क्रियमाणे परत्वाद्वृद्धौ कृतायामपि पुनऋ प्रसङ्गविज्ञानमिति सिद्धम् - अभार्क्षीदिति । न चान्तरङ्गत्वात्पर्वमृकारः, न सिच्यन्तरङ्गमस्तीति वक्ष्यमाणत्वात् । एवं तर्हि नित्यत्वाद्ःभावः, स हि कृतायामपि वृद्धौ प्राप्नोत्यकृतायामपि एकदेशविकृतस्यानन्यत्वात् शब्दान्तरप्राप्तिरपि नास्ति, वृद्धिस्तु कृते ऋभावे ऋकारस्याकृते त्वकारस्येति शब्दान्तरप्राप्तेरनित्या, तस्मादृकार एव विधेयः तथा तु न कृतमित्येव । भ्रस्जेर्भृज्जिरित्युच्यमाने यङ्लुकि दोषः, साभ्यासे भृज्जिभावः प्राप्नोति, इष्यते तु तत्रापि रोपधयोरेव निवृती, रम्भावश्च । बरीभृज्यत इति । यङ् सिम्प्रसारण रीगृत्वत इति वक्तव्यम् इति रीक्, तस्य तन्मध्यपतितस्य तद्ग्रहणात्प्रसङ्गः ॥