आर्धधातुके

6-4-46 आर्धधातुके असिद्धवत् अत्र आभात् नलोपः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आर्धधातुक इत्यधिकारः। <<न ल्यपि>> ६.४.६९ इति प्रागेतस्माद् यदित ऊर्ध्वमनुक्रमिष्याम आर्धधातुक इत्येवं तद् वेदितव्यम्। वक्ष्यति — <<अतो लोपः>> ६.४.८ — चिकीर्षिता । जिहीर्षिता। आर्धधातुक इति किम्? भवति, भवतः। अदिप्रभृतिभ्यः शपो लुग्वचनं २.४.७२ प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यादित्येतद् न ज्ञापकं शपो लोपाभावस्य। <<यस्य हलः>> ६.४.४९ — बेभिदिता। बेभिदितुम्। बेभिदितव्यम् आर्धधातुक इति किम्? बेभिद्यते। <<णेरनिटि>> ६.४.५१ — कारणा। हारणा। आर्धधातुक इति किम्? कारयति। हारयति। <<आतो लोप इटि च>> ६.४.६४ ययतुः, ययुः। ववतुः, ववुः। आर्धधातुक इति किम्? यान्ति। वान्ति। <<घुमास्थागापाजहातिसां हलि>> ६.४.६६ — दीयते। धीयते। आर्धधातुक इति किम्? अदाताम्। अधाताम्। <<वान्यस्य संयोगादेः>> ६.४.६८ — स्नेयात् स्नायात्। आर्धधातुक इति किम्? स्नायात्। आशीर्लिङोऽन्यत्र न भवति। <<स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च>> ६.४.६२ — कारिषीष्ट। हारिषीष्ट। आर्धधातुक इति किम्? क्रि येत। ह्रियेत। यगन्तस्याजन्तत्वात् चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक् प्रसज्येत।

अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम्।

आल्लोप ईत्वमेत्वं च चिण्वद्भावश्च सीयुटि॥

Siddhanta Kaumudi

Up

इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

चिकीर्षितेति । सनन्तातृच् भवतीति सर्वत्रातो लोपे कृते अतो दीर्घो यञि इत्यस्य कोऽवकाशः, वचनात्पचाव त्यादिउ लोपं बाधित्वा दीर्घोऽस्तु । तत्र चरितार्थमदुपदेशाल्लसर्वधातुकानुदातत्वम् इति तदपि न ज्ञापकं सार्वधातुकेऽतो लोपाभावस्य यतर्ह्यदिप्रभृतिभ्यः शपो लुकं शास्ति तज्ज्ञापयति - न शपोऽतो लोप इति तत्राह - अदिप्रमृतिभ्यः शप इति । ये तर्हि न गुणवृद्धिभाजोऽदिप्रभृतयस्तेषामदादिषु पाठोनर्थकः सत्यम् वृक्षत्वम्, वृक्षतेत्यादावतो लोपे आर्दधधातुकाधिकारस्य प्रयोजनम् - बेभिद्यते इत्यत्र शपि सार्वधातुके न भवति । यङे यकारोपशस्तु हलन्तेषु चरितार्थः । कारवतीति । णिज्विधानं प्रत्ययलक्षणार्थमियङ्थ च स्यात् । यान्तीति । ननु श्नाभ्यस्तयोरात्ः इत्येन्नियमार्थ भविष्यत् - सार्वधातुके श्नाभ्यस्तयोरेवेति नैतदस्ति विपरीतोऽपि नोयमः स्यात् - श्नाभ्यस्तयोः सार्वधातुक एवेति, तदा च ययतुरित्यादौ न स्यात् । श्नाग्रहणं तूतरार्थ स्यात् । अदातामिति । लुङ्, गातिस्थाघु इत्यादिना सिचो लुक् । चिण्वद्भावे सति वृद्धिः स्यादिति । नन्वतो लोपो वृद्धेः पूर्वविप्रतिषेधे, तद्यथा - चिकीर्षक इति, अदिहनिमावाप्रभृतिभ्यः शपो लुग्विधानेन सार्वधातुकेऽतोलोपाभावस्य ज्ञापितत्वात्स्वाश्रयोऽतो लापो मा एभूच्चिण्वद्भावातु चिणि तस्य दर्शनात्स्यादेव । वृत्तिकारेण तु प्राप्तिमात्रमाश्रित्य वृद्धिः स्यात् - इत्युक्तम् । दोषोपलक्षणं वृद्धग्रहणम्, लोपेऽपि रुपासिद्धरेव । ततो युक् प्रसज्येतेति । आद्गुणः, इति तु वार्णत्वान्न लभ्यते, इट्प्रसङ्गस्तु विशेषाभावान्नोक्तः । प्रयोजनसंग्रहर्श्लोको गतार्थः । भ्रस्जो रोपधयोरमन्यतरस्याम्, दीङे युडचि क्ङिति इत्यत्र तु नास्य प्रयोजनम्, कथम् भृज्जतेः सार्वधातुके तुदादित्वाच्छः, तत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । दीङेऽपि दिवादित्वान् श्यना भाव्यमित्युक्तान्येव प्रयोजनानि । असिद्धत्वनिवृत्यर्थं द्वितीयाध्यायगोचरोः । आदेशा नेह विहिता वुगाल्लोपौ प्रयोजनम् ॥ अन्यथा - अस्त्यादेशस्य भवतेरसिद्धत्वान्न वुग्भवेत् । न चाचख्यतुरित्यादावाल्लोपः ख्याञसिद्धितः ॥