हलश्च

3-3-121 हलः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पुंसि संज्ञायां करणाधिकरणयोश्चेति सर्वमनुवर्तते। हलन्ताद् धातोः करणाधिकरणयोर्घञ् प्रत्ययो भवति। घस्यापवादः। लेखः। वेदः। वेष्टः। बन्धः। मार्गः। अपामार्गः। वीमार्गः॥

Siddhanta Kaumudi

Up

हलन्ताद्घञ् स्यात् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥

Laghu Siddhanta Kaumudi

Up

हलन्ताद् घञ्। घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः। अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

लेखःउलेखनी । वेष्टःउ वस्त्रादिः ।'विष्ट वेष्टने' । विद्येते ज्ञायेते अनेन धर्माधर्माविति वेदः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गःउ वीरुद्विशेषः । वीमार्गःउ समूहनी, पूर्ववत्कुत्वदीर्घत्वे ॥