6-4-28 स्यदः जवे असिद्धवत् अत्र आभात् नलोपः उपधायाः घञि
जवेऽभिधेये स्यद इति घञि निपात्यते। स्यन्देर्नलोपो वृद्ध्यभावश्च। इक्प्रकरणाद् <<न धातुलोप०>> १.१.४ इति प्रतिषेधो नास्ति। गोस्यदः। अश्वस्यदः। जव इति किम्? तैलस्यन्दः। घृतस्यन्दः॥
स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥
जवः - वेगः । गोस्यद इति । गोर्गतिविषयो वेग इत्यर्थः । तैलस्यन्द इति । तैलस्य स्रवणमित्यर्थः ॥