रञ्जेश्च

6-4-26 रञ्जेः च असिद्धवत् अत्र आभात् नलोपः उपधायाः शपि

Sampurna sutra

Up

रञ्जेः अङ्गस्य उपधायाः शपि नलोपः

Neelesh Sanskrit Brief

Up

रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य शप्-प्रत्यये परे लोपः भवति ।

Neelesh English Brief

Up

The उपधा-नकार of the verb रञ्ज् is removed in presence of the विकरणप्रत्यय शप्.

Kashika

Up

रञ्जेश्च शपि परत उपधाया नकारस्य लोपो भवति। रजति, रजतः, रजन्ति। पृथग्योगकरणमुत्तरार्थम्॥

Siddhanta Kaumudi

Up

एषां शपि नलोपः । स्वजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः । सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि <{SK2361}> इति सूत्रे ।<!स्वञ्जेरुपसंख्यानम् !> (वार्तिकम्) ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात् - <{SK2276}> इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा <{SK2359}> इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति -<{SK2270}> इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त । पर्यस्वङ्क्त ।{$ {!977 हद!} पुरीषोत्सर्गे$} । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥ अथ परस्मैपदिनः ॥{$ {!978 ञिष्विदा!} अव्यक्तेशब्दे$} ।{$ {!979 स्कन्दिर्!} गतिशोषणयोः$} । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

रन्जँ (रागे) इति भ्वादिगणस्य धातुः । शप्-विकरणे परे अस्य धातोः उपधा-नकारस्य लोपः भवति । यथा - रन्ज् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट् ] → रन्ज् + तिप् [<<तिप्तस्...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → रन्ज् + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति शप्] → रज् + अ + ति [शप्-प्रत्यये परे <<रञ्जेश्च>> 6.4.26 इति उपधा-नकारस्य लोपः] → रजति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे यद्यपि 'रञ्ज्' इत्यत्र ञकारः प्रयुक्तः अस्ति, तथापि अयं मूलरूपेण नकारः एव । तस्य अनुस्वारपरसवर्णौ त्रिपादीसूत्रैः प्रक्रियायाः अन्ते भवतः । 2. वस्तुतः रञ्ज्-धातोः निर्देशः अपि <<दन्शसञ्जस्वञ्जां शपि>> 6.4.25 अस्मिन्नेव सूत्रे भवितुमर्हति । परन्तु रञ्ज्-इत्यस्य अनुवृत्तिः अग्रिम-सूत्रे अपि आवश्यकी, अतः वर्तमानसूत्रे 'रञ्ज्' इति पृथग् रूपेण निर्दिष्टः अस्ति ।

Balamanorama

Up

Padamanjari

Up

पृथग्योगकरणमुतरार्थमिति । उतरत्र रञ्जेरेवानुवृत्तिर्यथा स्यात्, दंशिप्रभूतीनां मा भूत् ॥