उपमानादप्राणिषु

5-4-97 उपमानात् अप्राणिषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच् शुनः

Sampurna sutra

Up

तत्पुरुषस्य शुनः उपमानात् अप्राणिषु टच्

Neelesh Sanskrit Brief

Up

उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयम् प्रत्ययः न विधीयते ।

Kashika

Up

उपमानवाची यः श्वन्शब्दोऽप्राणिषु वर्तते, तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। आकर्षः श्वेव आकर्षश्वः। फलकश्वः। <<उपमितं व्याघ्रादिभिः०>> २.१.५६ इति समासः। उपमानादिति किम् ? न श्वा अश्वा लोष्टः। अप्राणिष्विति किम् ? वानरः श्वेव वानरश्वा॥

Siddhanta Kaumudi

Up

अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यस्मिन् तत्पुरुषसमासे 'श्वन्' इति शब्दः 'उपमानम्' अस्मिन् अर्थे प्रयुज्यते, तथा च यत्र समस्तपदेन प्राणिनः निर्देशः न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः क्रियते । यथा - आकर्षः श्वा इव [A wooden object is just like a dog - शुनः प्रतिकृतिः इत्याशयः । अत्र <<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> 2.1.56 इत्यनेन तत्पुरुषसमासः भवति ।] → आकर्ष + श्वन् + टच [वर्तमानसूत्रेण समासान्तः टच्-प्रत्ययः] → आकर्ष + श्व् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → आकर्षश्व आकर्षः श्वा इव सः आकर्षश्व । A wooden instrument that resembles a dog is called आकर्षश्व. एवमेव, फलकं श्वा इव = फलकश्वः इत्यपि सिद्ध्यति । अस्मिन् सूत्रे 'अप्राणिषु' इति निर्दिश्यते, अतः 'वानरः श्वा इव' (A monkey that looks just like a dog) इत्यत्र टच्-प्रत्ययः न भवति । वानरः श्वा इव सः वानरश्वा ।अत्र 'वानर + श्वन् → वानरश्वन्' इति समासः जायते ।

Balamanorama

Up

<<उपमानादप्राणिषु>> - उपमानादप्राणिषु । आकर्षः ओवेति । आकृष्यते कुसूलदिगतधान्यमनेनेत्याकर्षः — पञ्चाङ्गुलो दारुविशेषः ।उपमितं व्याघ्रादिभिः॑ इति समासः । टच् टिलोपः, आकर्षआ इति रूपम् । उपमानात्किम् । शुनो निष्क्रान्तो निःआआ ।

Padamanjari

Up

अश्वा लोष्ट इति। अत्र' नञस्तत्पुरुषात्' इति प्रतिषेधेन भाव्यम्, तस्मान्निः श्वा लोष्ट इति प्रत्युदाहर्तव्यम् ॥