2-1-72 मयूरव्यंसकादयः च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन
समुदाया एव निपात्यन्ते। मयूरव्यंसकादयः शब्दास्तत्पुरुषसंज्ञा भवन्ति। चकारोऽवधारणार्थः, परममयूरव्यंसक इति समासान्तरं न भवति। मयूरव्यंसकः। छात्रव्यंसकः। काम्बोजमुण्डः। यवनमुण्डः। छन्दसि — हस्तेगृह्य। पादेगृह्य। लाङ्गलेगृह्य। पुनर्दाय। एहीडादयोऽन्यपदार्थ (ग०सू० १८)। एहीडम्, एहियवं वर्तते। एहिवाणिजा क्रिया। अपेहिवाणिजा। प्रेहिवाणिजा। एहिस्वागता। अपेहिस्वागता। प्रेहिस्वागता। एहिद्वितीया। अपेहिद्वितीया। इहवितर्का। प्रोहकटा। अपोहकटा। प्रोहकर्दमा। अपोहकर्दमा। उद्धरचूडा। आहरचेला। आहरवसना। आहरवनिता। कृन्तविचक्षणा। उद्धरोत्सृजा। उद्धमविधमा। उत्पचविपचा। उत्पतनिपता। उच्चावचम्। उच्चनीचम्। अचितोपचितम्। अवचितपराचितम्। निश्चप्रचम्। अकिंचनम्। स्नात्वाकालकः। पीत्वास्थिरकः। भुक्त्वासुहितः। प्रोष्यपापीयान्। उत्पत्यपाकला। निपत्यरोहिणी। निषण्णश्यामा। अपेहिप्रसवा। इहपञ्चमी। इहद्वितीया। जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति (ग०सू० १९)। जहिजोडः। उज्जहिजोडः। जहिस्तम्बः। उज्जहिस्तम्बः। आख्यातमाख्यातेन क्रियासातत्ये (ग०सू०२०)। अश्नीतपिबता। पचतभृज्जता। खादतमोदता। खादतवमता। खादताचमता। आहरनिवपा। आवपनिष्किरा। उत्पचविपचा। भिन्धिलवणा। छिन्धिविचक्षणा। पचलवणा। पचप्रकूटा। अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः ॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्यप्रथमःपादः॥
एते निपात्यन्ते । मयूरो व्यंसको । मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक् च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्य सः अकिंचनः ॥ (गणसूत्रम् -) आख्यातमाख्यातेन क्रियासातत्ये ॥ अश्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृज्जता । खादतमोदता ॥ (गणसूत्रम् -) एहीडादयोऽन्यपदार्थे ॥ एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहिपचम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सा उद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः ॥ (गणसूत्रम् -) जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति ॥ जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताभिधीयत इत्यर्थः ॥ जहिजोडः । जहिस्तम्बः ॥ नास्ति कुतो भयं सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ॥
<<मयूरव्यंसकादयश्च>> - मयूरव्यंसका । एते निपात्यन्त इति । कृतसमासकार्या निर्दिश्यन्त इत्यर्थः । मयूरव्यंसक इति । व्यंसकश्चासौ मयूरश्चेति विग्रहः । व्यंसको धूर्त इति । त्र कोशो मृग्यः । गुणवचनत्बाद्ब्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वचनम् । उच्चावचमिति । उदक्शब्दस्य उच्चेत्यादेशः । अवाक्शब्दस्य अवचादेशश्च । उच्चावचयं नैकबेद॑मित्यमरः । निश्चप्रचमिति । निश्चितशब्दस्य निश्चादेशः । प्रचितशब्दस्य प्रचादेशः । नास्तिकिंचनेति । चनेत्यव्ययमप्यर्थे । नास्ति किमपि यस्येत्यर्थे बहुव्रीह्रपवादस्त्रिपदस्तत्पुरुषः । नञो नकारस्य लोपश्च निपात्यते । 'नलोपो नञः' इति तु नात्र प्रवर्तते, किंशब्दस्य उत्तरपदत्वाऽभावात्, समासचरमखण्ड एव उत्तरपदशब्दस्य रूढत्वात् । नास्ति कुत इति । कुतोऽपि भयमस्य नास्तीति विग्रहस्यार्थः । अकुतोभय इति । बहुव्रीह्रपवादस्तत्पुरुषः । राजान्तरमिति । अत्राऽन्तरशब्दोऽन्यपर्यायः । तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । नित्यसमासत्वं च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम् । अत्र अन्तरशब्दस्य परनिपातः । चिन्मात्रमिति ।मात्रं कार्त्स्न्येऽवधारणे॑ इत्यमरः । नित्यसमासत्वसूचनाय अस्वपदविग्रहः । निपातनादनुनासिकनित्यतेत्याहुः । आख्यातमिति । गणसूत्रम् । क्रियासातत्ये गम्ये तिङन्तं तिङन्तेन समस्यते, स तत्पुरुष इत्यर्थः । अश्नीतपिवतेति । इहाऽसुबन्तत्वेऽपि समासः । क्रियारूपस्यान्यपदार्थस्य प्राधान्यात्स्त्रीत्वाट्टाप् । एवं पचतभृज्जतेत्यादावपि । एहीजादय इति । इदमपि गणसूत्रम् । अन्यपदार्थधे एहीडादयो निपात्यन्त इत्यर्थः । एहि ईडे इति विग्रहः । 'ईडे' इति लडुत्तमपुरुषैकवचनम् । डकारादेकारस्य अकारादेशः । एहियवमिति ।यौमी॑त्यस्य यवादेशः ।उत्सृजे॑त्यस्य विवरणं-देहीति । इह पाठ इति । एहीडादिष्वत्यर्थः ।जहि कर्मणा बहुल॑मित्यपि गणसूत्रम् । कर्ताऽभिधीयते । इति । उक्तेः कर्तेत्यर्थः । जहिजोड इति । 'जोड' इति कस्यचित्संज्ञा । जहि जोडं जहि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः । जहि स्तम्बं, जहि स्तम्बमिति य आहेति विग्रहः । [इति समानाधिकरणाधिकारः] ।
व्यंसकः उ धूर्तः, मयूरश्चासौ व्यंसकश्येति व्यंसकशब्दस्य गुणवचनत्वात्पुर्वनिपाते प्राप्ते वचनम्। एवं छात्रव्यसकादीनां कम्बोजमुण्डपर्यन्तानाम्। अन्ये त्वाहुः - मयूरैव व्यंसकः, छात्रैव व्यंसकः कम्बोज इव मुण्डः, यवन इव मुंडः, उमानसमासोऽयम्, ठुपमानानि समान्यवचनैःऽ इत्येव सिध्दे पूनर्विधानं तत्पुरुषं तुल्यार्थतृतीयेति पूर्वपदप्रकृतिस्वरो मा भूदिति, स ह्युपमानसंश्बदेनेन विहिते समासे विधीयत इति। पुनर्दायेति।'पुनश्चनसौ च्छन्दसि' इति गतिसंज्ञा वार्तिककारीयेति॥ गणकारेणेदं पठितम्, एहि इडेति यस्मिन्कर्मणि तद् एहीडम्, एवम् एहीयवम्। एहि वाणिजेति यस्यां क्रियायां सा एहिवाणिजा। एवम्-अपेहि वाणिजा, प्रेहिवाणिजा। एहि स्वागतमिति यस्यां क्रियायां सा एहिस्वागता। इहवितर्का, लोण्मध्यमैकवचनम्। प्रोह करटमिति यस्यां सा प्रोहकरटा; एवं प्रोहकर्दमादय आहरवसनान्ताः।'कृती छेदने' तदेव वचनम्, मुचादित्वान्नुम्। कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा। उध्दर उत्सृजेति यस्यां सोध्दरोत्सृजा। ठाख्यातमाख्यातेनऽ इति सिध्देऽसातत्यार्थ वचनम्। एवमुध्दमविधमा, उत्पचविपचा, उत्पतनिपता। उदक्च अवाक्च उच्चावचम्, उच्चैश्च नीचैश्च उच्चनीचम्, आचितं चोपचितं च आचोपचम्, निश्चितं च प्रचितं च निश्चप्रचम् - सर्व एते निपात्यते। न किञ्चन विद्यते यस्य सोऽकिञ्चनः, स्नात्वाकालकादिषु समासान्तोदातत्वं ल्यबभावश्च निपातनात्। प्रतीयमानक्रियापेक्षं च समानकतृकत्वम्-स्नात्वाकालकः संपन्न इति। जहि कर्मणेति। जहीति लोण्यमध्यमैकवचनम्; तदेतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्ता विधीयते। जहि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः। अश्नीत पिबतेत्येवं यत्र सततमभिधीयते सा अश्रातपिबता। एवं पचतभृज्जता,'भ्रस्ज पाके' भिन्धि लवणमिति यस्यामभिधीयते सा भिन्धिलवणा। एवं पचलवणा। अविहितलक्षमस्तत्पुरुष इति। यस्य ततपुरुषस्य लक्षणं न कृतम्, प्राप्तप्रयोगश्च भवति, स मयूरख्यंसकादेराकृतिगणत्वादत्रैव द्रष्टव्य इत्यर्थः॥ इति श्रीहरदतमिश्रविचितायां पदमञ्जयौ द्वितीयाध्यायस्य प्रथम पादः ॥