पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन

2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुप् सुपा इति वर्तते, तस्य विशेषणमेतत्। पूर्वकाल एक सर्व जरत् पुराण नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्य शब्दस्यैकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्। पूर्वकाल इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम्। पूर्वकालोऽपरकालेन समस्यते। स्नातानुलिप्तः। कृष्टसमीकृतम्। दग्धप्ररूढम्। एकशाटी। एकभिक्षा। सर्वदेवाः। सर्वमनुष्याः। जरद्धस्ती। जरद्गृष्टिः। जरद्वृत्तिः। पुराणान्नम्। पुराणावसथम्। नवान्नम्। नवावसथम्। केवलान्नम्। समानाधिकरणेनेति किम्? एकस्याः शाटी॥

Siddhanta Kaumudi

Up

विशेषणं विशेष्येण <{SK736}> इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य दिक्संख्ये संज्ञायाम् <{SK727}> इति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन>> - पूर्वकालैक ।सु॑बित्यनुवृत्तं बहुवचनेन विपरिणम्यते । सुपेति चानुवर्तते । पूर्वः कालो यस्य स पूर्वकालः । पूर्वकालवृत्तिरित्यर्थः । ततश्चपूर्वकाले॑त्यनेन पूर्वकालवृत्त्यर्थकशब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथाच पूर्वकालादयः सप्तसुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते, स तत्पुरुष इत्यर्थः । समानम्-एकमधिकरणं=वाच्यं यस्येति विग्रहः । एकार्थवृत्तित्वं सामानाधिकरण्यमिति फलितम् । पूर्वनिपातेति । पश्चादनुलिप्तः पूर्वं स्नातत्वेन, पूर्वं स्नातो वा पश्चादनुलिप्तत्वेन विशेष्टुं शक्यते, अतोविशेषणं विशेष्येणे॑ति समासे सति अन्यतरस्य पूर्वनिपाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेकादीनामपीत्यर्थः । एकशब्दविषये प्रयोजनान्तरमप्याह — एकशब्दस्येति ।दिक्संख्ये संज्ञायां समस्येते॑ इति नियमस्य वक्ष्यमाणतया 'एकनाथ' इत्यत्र विशेषणसमासस्य बाधे प्राप्ते तत्प्रतिप्रसवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चाच्छब्दाऽभावेऽपि स्नानानुलेपनयोः पौर्वापर्यं समासगम्यमेव । 'पूर्वकालः समस्यते' इत्युक्ते परकालेनेत्यर्थात्प्रतीतेः । एकनाथ इति । एकश्चासौ नाथश्चेति विग्रहः । सर्वयाज्ञिका इति । यज्ञमधीयते विदन्ति वा याज्ञिकाः ।क्रतूक्थादिसूत्रान्ताट्ठक् । सर्वे च ते याज्ञिकाश्चेति विग्रहः । जरन्नैयायिका इति । मीमांसामधीयते मीमांसकाः ।क्रमादिभ्यो वुन् । पुराणश्च ते मीमांसकाश्चेति विग्रहः । नवपाठका इति । नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहचर्यान्नवशब्दो नूतनवाच्येव गृह्रते, न तु सङ्ख्याविशेषवाची । केवलवैयकरणा इति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः ।तदधीते तद्वेदे॑त्यण् । न य्वाभ्या॑मिति वृद्धिनिषेध ऐजागमश्च । केवलाश्च ते वैयाकरणाश्चेति विग्रहः ।

Padamanjari

Up