5-4-66 सत्यात् अशपथे प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः
सत्यात् अशपथे कृञः डाच्
'कृ' धातोः योगे प्रयुक्तात् 'सत्य' शब्दात् 'शपथ' एतम् सन्दर्भं विहाय अन्येषु सन्दर्भेषु 'डाच्' इति प्रत्ययः स्वार्थे विधीयते ।
कृञ इत्येव। सत्यशब्दादशपथे डाच् प्रत्ययो भवति कृञो योगे। सत्यशब्दोऽनृतप्रतिपक्षवचनः। क्वचित् तु शपथे च वर्तते — सत्येन शापयेद् विप्रम् (मनु०८.११३) इति, तस्यायं प्रतिषेधः। सत्याकरोति वणिक् भाण्डम्। मयैतत् क्रेतव्यमिति तथ्यं करोति। अशपथ इति किम् ? सत्यं करोति ब्राह्मणः॥
सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥
'कृ' धातोः योगे प्रयुक्तः यः 'सत्य' शब्दः, तस्मात् स्वार्थे डाच्-प्रत्ययः विधीयते । कृ-धातोः योगे 'सत्य' शब्दः कदा प्रयुज्यते ? यदा कश्चन मनुष्यः कञ्चित् निश्चयमुक्त्वा, तादृशम् प्रत्यक्षरूपेण करोति (brings his words / thought into reality) तदा तस्य निर्दशः 'सत्यम् करोति' इति उच्यते । यथा, 'अहम् एतत् भाण्डम् क्रेष्यामि' इति उक्त्वा कश्चन वणिक् तादृशम् भाण्डम् क्रेष्यति, तदा 'वणिक् भाण्डम् सत्यम् करोति (Really purchases the pot)' इति उच्यते । अस्यैव निर्देशार्थम् 'सत्य' शब्दात् डाच्-प्रत्ययः भवति । यथा - वणिक् भाण्डम् सत्या करोति । प्रक्रिया इयम् - सत्य + डाच् → सत्य् + आ [<<टेः>> 6.4.143 इति टिलोपः] → सत्या यत्र सत्य शब्दः 'शपथ' अस्मिन् सन्दर्भे प्रयुज्यते - यथा 'विप्रः शपथे सत्यं करोति'' (A brahmin takes an oath of speaking the truth) तत्र तु अस्य सूत्रस्य प्रयोगः न भवति - इति स्पष्टीकर्तुमस्मिन् सूत्रे 'अशपथे' इतो ग्रहीतमस्ति । विशेषः 1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> 1.4.61 इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'सत्याकृत्य', 'सत्याकृतः' आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'सत्या करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'सत्या करोति' इत्येव वक्तव्यम्, न हि 'करोति सत्या' इति । 2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'वणिग् भाण्डम् सत्यं करोति' इति ।
<<सत्यादशपथे>> - सत्यादशपथे ।डा॑जिति शेषः । सत्याकरोति भाण्डमिति । रत्नादिद्रव्यजातमित्यर्थः । सत्यशब्दोऽत्र तथ्ये वर्तते ।सत्यं तथ्यमृतं सम्य॑गित्यमरः । क्रेत्वयमितीति ।एतावतैव मूल्येनेदं क्रयणार्हं नातोऽधिकमूल्येने॑त्येवं यथाभूतार्थं वदतीत्यर्थः । सत्यंकरोति विप्र इति । शपथं करोतीत्यर्थः ।
सत्सु साधु सत्यम्, प्राग्घितीये यति प्राप्तेऽस्मादेव निपातनाद्यः अन्तोदातो हि सत्यशब्दः - सत्येनोतभिता भूमिः, ऋतं च सत्यं चेति। शपेरथः शपथः, भाण्डमुरत्नादिद्रव्यजातम्। तथ्यमिति। तथैवौतथ्यम्,'पादार्घाभ्यां च' इति चकारस्यानुक्तसमुच्चयार्थत्वात्स्वार्थे यत् ॥