5-4-65 शूलात् पाके प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः
शूलात् पाके कृञः डाच्
कृ-धातोः योगे प्रयुक्तात् 'शूल' शब्दात् पाकस्य निर्देशार्थम् डाच्-प्रत्ययः भवति ।
कृञ इत्येव। शूलशब्दात् पाकविषये डाच् प्रत्ययो भवति कृञो योगे। शूले पचति, शूलाकरोति मांसम्। पाक इति किम् ? शूलं करोति कदन्नम्॥
शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥
कृ-धातोः योगे प्रयुक्तात् 'शूल' ( spear / an instrument with a pointed tip) अस्मात् शब्दात् पाकस्य निर्देशार्थम् 'डाच्' प्रत्ययः भवति । यथा - शूलं करोति मांसम् (शूले मांसं पचति / cooks meat in a pointed vessel) इत्येव = शूला करोति । प्रक्रिया इयम् - शूल + डाच् → शूल् + आ [<<टेः>> 6.4.143 इति टिलोपः] → शूला विशेषः - 1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> 1.4.61 इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'शूलाकृतः', 'शूलाकृत्य' - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'शूला करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'शूला करोति' इत्येव वक्तव्यम्, न हि 'करोति शूला' इति । 2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'शूलं करोति मांसम्' इति । अत्र 'शूलं करोति' इति शब्दः 'शूले पचति' इत्यस्मिन् अर्थे ग्रहीतव्यः ।
<<शूलात् पाके>> - शूलात्पाके ।डा॑जिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह — शूलेन पचतीत्यर्थ इति ।
शूलं करोति कदन्नमिति। शूलमूदरतोदः, कुत्सितमन्नं कदन्नम् ॥