दुःखात् प्रातिलोम्ये

5-4-64 दुःखात् प्रातिलोम्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः

Sampurna sutra

Up

दुःखात् कृञः प्रातिलोम्ये डाच्

Neelesh Sanskrit Brief

Up

कृ-धातोः योगे प्रयुक्तात् 'दुःख'शब्दात् प्रातिलोम्ये गम्यमाने डाच्-प्रत्ययः भवति ।

Kashika

Up

कृञ इत्येव। दुःखशब्दात् प्रातिपदिकात् प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे। प्रातिलोम्यं प्रतिकूलता। स्वाम्यादेश्चित्तपीडनम्। दुःखाकरोति भृत्यः। प्रातिलोम्य इति किम्? दुःखं करोति कदन्नम्॥

Siddhanta Kaumudi

Up

दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'प्रातिलोम्य' इत्युक्ते प्रतिकूल-वर्तनम् । 'कृ' धातोः योगे प्रयुक्ताभ्याम् 'दुःख' शब्दात् आनुलोम्ये गम्यमाने 'डाच्' प्रत्ययः स्वार्थे विधीयते । यथा - गुरुम् प्रति दुःखपूर्वकं (= प्रतिकूलम् इत्याशयः) वर्तनं करोति = दुःखा करोति । प्रक्रिया एतादृशी - दुःख + डाच् → दुःख् + आ [<<टेः>> 6.4.143 इति टिलोपः] → दुःखा विशेषः - 1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> 1.4.61 इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'दुःखाकृत्य' / 'दुःखाकृतः' आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'दुःखा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'दुःखा करोति' इत्येव वक्तव्यम्, न हि 'करोति दुःखा' इति । 2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'दुःखम् वर्तनम् करोति' इति ।

Balamanorama

Up

<<दुःखात् प्रातिलोम्ये>> - दुःखात् ।डा॑जिति शेषः । आराध्यप्रतिकूलाचरणं प्रातिलोम्यम् । अन्यत्पूर्ववत् ।

Padamanjari

Up

चितपीडनमिति। स्वाम्यादेर्यदनिष्टस्याचरणेन इष्टस्याकरणेन वा चितस्य पीडनं तत्प्रातिलोम्यम् ॥