5-4-63 सुखप्रियात् आनुलोम्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः
सुख-प्रियात् कृञः आनुलोम्ये डाच्
'कृ' धातोः योगे विद्यमानात् 'सुख' तथा 'प्रिय' शब्दात् आनुलोम्ये गम्यमाने डाच्-प्रत्ययः स्वार्थे विधीयते ।
सुखप्रियशब्दाभ्यामानुलोम्ये वर्तमानाभ्यां कृञो योगे डाच् प्रत्ययो भवति। आनुलोम्यमनुकूलता, आराध्यचित्तानुवर्तनम्। सुखाकरोति। प्रियाकरोति। स्वाम्यादेश्चित्तमाराधयतीत्यर्थः। सुखं प्रियं वा कुर्वन्नप्यानुलोम्येऽवस्थित एवमुच्यते। आनुलोम्य इति किम् ? सुखं करोति, प्रियं करोत्यौषधपानम्॥
सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥
'आनुलोम्य' इत्युक्ते अनुकूल-वर्तनम् । 'कृ' धातोः योगे प्रयुक्ताभ्याम् 'सुख' तथा 'प्रिय' एताभ्यां शब्दाभ्यामानुलोम्ये गम्यमाने (= अनुकुलम् वर्तनम् इति सन्दर्भे) 'डाच्' प्रत्ययः स्वार्थे विधीयते । यथा - 1. गुरुम् प्रति सुखपूर्वकं (= अनुकूलम् इत्याशयः) वर्तनं करोति = सुखा करोति । 2. पितॄन् प्रति प्रियपूर्वकं (= अनुकूलम् इत्याशयः) वर्तनं करोति = प्रिया करोति । प्रक्रिया एतादृशी - सुख / प्रिय + डाच् → सुख् / प्रिय् + आ [<<टेः>> 6.4.143 इति टिलोपः] → सुखा / प्रिया अन्येषु सन्दर्भेषु अयम् प्रत्ययः न कर्त्तव्यः । यथा - 'सुखम् प्राप्नोति / सुखेन खादति / प्रियम् पश्यति' - इत्यत्र प्रत्ययः न भवति । विशेषः - 1. डाच्-प्रत्ययान्तशब्दानाम् <<ऊर्यादिच्विडाचश्च>> 1.4.61 इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'सुखाकृत्य' / 'सुखाकृतः' आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'सुखा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः <<ते प्राग्धातोः>> 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'सुखा करोति' इत्येव वक्तव्यम्, न हि 'करोति सुखा' इति । 2. इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'सुखम् वर्तनम् करोति' इति ।
<<सुखप्रियादानुलोम्ये>> - सुखप्रियादानुलोम्ये । सुखशब्दात्प्रियशब्दाच्च आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तमानुलोम्यम् । सुखाकरोति प्रियाकरोति गुरुमिति । चित्तानुवर्तनेन गुरु॑ सुखसंपन्नं प्रयसंपन्नं च करोतीत्यर्थः । तदाह — अनुकूलेति ।