निष्कुलान्निष्कोषणे

5-4-62 निष्कुलात् निष्कोषणे प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः

Sampurna sutra

Up

index: 5.4.62 sutra: निष्कुलान्निष्कोषणे


निष्कुलात् निष्कोषणे कृञः डाच्

Neelesh Sanskrit Brief

Up

index: 5.4.62 sutra: निष्कुलान्निष्कोषणे


'कृ' धातोः योगे प्रयुक्तात् 'निष्कुल' शब्दात् निष्कोषणे गम्यमाने डाच्-प्रत्ययः स्वार्थे विधीयते ।

Kashika

Up

index: 5.4.62 sutra: निष्कुलान्निष्कोषणे


कृञः इत्येव। निष्कुलशब्दात् निष्कोषने वर्तमानात् कृञो योगे डाच् प्रत्ययो भवति। निष्कोषणमन्तरवयवानां बहिर्निष्कासनम्। निष्कुलाकरोति पशून्। निष्कुष्णाति इत्यर्थः। निष्कोषणे इति किम्? निष्कुलान् करोति शत्रून्।

Siddhanta Kaumudi

Up

index: 5.4.62 sutra: निष्कुलान्निष्कोषणे


निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.62 sutra: निष्कुलान्निष्कोषणे


'निष्कोषणम्' इत्युक्ते 'अन्तरवयवानाम् बहिः निष्कासनम्' (To pull the internal organs out by killing someone) । अस्याः क्रियायाः निर्देशार्थम् 'निष्कुलम्' इति शब्दः अपि प्रयुज्यते । अयमेव शब्दः यदा 'कृ' धातोः योगेन प्रयुज्यते, तदा तस्मात् वर्तमानसूत्रेण 'डाच्' प्रत्ययः भवति । यथा -

निष्कुलम् करोति इत्येव = निष्कुला करोति ।प्रक्रिया इयम् -

निष्कुल + डाच्

→ निष्कुल + आ [इत्संज्ञालोपः]

→ निष्कुल् + आ [टेः 6.4.143 इति टिलोपः[

→ निष्कुला ।

'निष्कुल' शब्दः यत्र अन्येषु अर्थेषु प्रयुज्यते (यथा - कुलस्य नाशः इति) तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'महाभारतयुद्धेन कौरवाः निष्कुलाः कृताः' - इत्यत्र वर्तमानसूत्रस्य प्रयोगः नैव क्रियते ।

विशेषः -

  1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च 1.4.61 इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -

अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।

आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् कुगतिप्रादयः 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'निष्कुलाकृतः, निष्कुलाकृत्य - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'निष्कुला करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।

इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'निष्कुला करोतिः इत्येव वक्तव्यम्, न हि 'निष्कुलम् करोति' इति ।

  1. इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'निष्कुलं करोति ' इति ।

Balamanorama

Up

index: 5.4.62 sutra: निष्कुलान्निष्कोषणे


निष्कुलान्निष्कोषणे - निष्कुलान्निष्कोषणे ।डा॑जिति शेषः । निष्कोषणम् — अन्तर्गतावयवानां बहिःकरणम् । निष्कुलाकरोति दाडिममिति । निर्गतं कुलं यस्मादिति बहुव्रीहिः । कुलशब्दश्च अन्तरवयवसमूहे वर्तते । तदाह — निर्गतमित्यादि ।

Padamanjari

Up

index: 5.4.62 sutra: निष्कुलान्निष्कोषणे


निष्कुलाकरोतीति। निष्कोशितं कुलमन्तरवयवानामस्मादिति बहुव्रीहौ डाच् ॥