कुमहद्भ्यामन्यतरस्याम्

5-4-105 कुमहद्भ्याम् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच् ब्रह्मणः

Sampurna sutra

Up

index: 5.4.105 sutra: कुमहद्भ्यामन्यतरस्याम्


तत्पुरुषस्य कुमहद्भ्याम् ब्रह्मणः टच् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 5.4.105 sutra: कुमहद्भ्यामन्यतरस्याम्


यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.105 sutra: कुमहद्भ्यामन्यतरस्याम्


कुमहद्भ्यां परो यो ब्रह्मा तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवत्यन्यतरस्याम्। कुब्रह्मः, कुब्रह्मा। महाब्रह्मः, महाब्रह्मा। ब्रह्मणपर्यायो ब्रह्मन्शब्दः।

Siddhanta Kaumudi

Up

index: 5.4.105 sutra: कुमहद्भ्यामन्यतरस्याम्


आभ्यां ब्रह्मणो वा टच् स्यात् तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः । कुब्रह्मा ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.105 sutra: कुमहद्भ्यामन्यतरस्याम्


यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' ( = ब्राह्मणः) शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति । यथा -

  1. कुत्सितः ब्रह्मा [कुगतिप्रादयः 2.2.18 इति तत्पुरुषसमासः]

→ कु + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ कु + ब्रह्म् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ कुब्रह्म

कुत्सितः ब्रह्मा कुब्रह्मः ।

पक्षे टच्-प्रत्ययस्य अभावे 'कुब्रह्मा' इत्यपि सिद्ध्यति ।

  1. महान् च असौ ब्रह्मा [सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः 2.1.61 इति तत्पुरुषसमासः]

→ महत् + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ महा + ब्रह्मन् + टच् [आन्महतः समानाधिकरणजातीययोः 6.3.46 इति तकारस्य आकारादेशः]

→ महा + ब्रह्म् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ महाब्रह्म

पक्षे टच्-प्रत्ययस्य अभावे 'महाब्रह्मा' इति रूपमपि सिद्ध्यति ।

स्मर्तव्यम् - तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः 5.4.86 इत्यस्मात् प्रारब्धम् तत्पुरुषसमासान्तप्रत्ययानां प्रकरणमत्र समाप्यते ।

Balamanorama

Up

index: 5.4.105 sutra: कुमहद्भ्यामन्यतरस्याम्


कुमहद्भ्यामन्यतरस्याम् - कुमहद्भ्याम् । कुब्राहृएति । टजभावे रूपम् । 'कुगतिप्रादयः' इति समासः । कुब्राहृ इति । टचि रूपं, टिलोपः ।