द्वन्द्वाच्चुदषहान्तात् समाहारे

5-4-106 द्वन्द्वात् चुदषहान्तात् समाहारे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः टच्

Sampurna sutra

Up

index: 5.4.106 sutra: द्वन्द्वाच्चुदषहान्तात् समाहारे


द्वन्द्वात् चु-द-ष-हान्तात् समाहारे टच्

Neelesh Sanskrit Brief

Up

index: 5.4.106 sutra: द्वन्द्वाच्चुदषहान्तात् समाहारे


यस्य समाहारद्वन्द्वसमासस्य अन्ते चवर्गीयवर्णः, दकारः, षकारः उत हकारः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.106 sutra: द्वन्द्वाच्चुदषहान्तात् समाहारे


तत्पुरुषाधिकारो निवृत्तः। द्वन्द्वात् चवर्गान्तात्, दकारान्तात्, षकारान्तात्, हकारान्तात् च टच् प्रत्ययो भवति, स चेद् द्वन्द्वः समाहारे वर्तते, न इतरेतरयोगे। वाक् च त्वक् च वाक्त्वचम्। स्रक् च त्वक् च स्रक्त्वचम्। श्रीस्रजम्। इडूर्जम्। वागूर्जम्। समिद्दृषदम्। सम्पद्विपदम्। वाग्विप्रुषम्। छत्रोपानहम्। धेनुगोदुहम्। द्वन्द्वातिति किम्? तत्पुरुषान् मा भूत्, पञ्च वाचः समाहृताः पञ्चवाक्। चुदषहान्तातिति किम्? वाक्षमित्। समाहारे इति किम्? प्रावृट्शरदौ।

Siddhanta Kaumudi

Up

index: 5.4.106 sutra: द्वन्द्वाच्चुदषहान्तात् समाहारे


चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च त्वक्च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्शरदौ ॥। इति द्वन्द्वसमासप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 5.4.106 sutra: द्वन्द्वाच्चुदषहान्तात् समाहारे


चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च त्वक् च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् ? प्रावृट्शरदौ ॥ इति द्वन्द्वः ॥ ५ ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.106 sutra: द्वन्द्वाच्चुदषहान्तात् समाहारे


यस्य द्वन्द्वसमासस्य अन्ते चवर्गीयवर्णः, दकारः, षकारः उत हकारः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । अयम् प्रत्ययः केवलम् समाहारद्वन्द्वसमासस्य विषये एव विधीयते, इतरेतरद्वन्द्वसमासस्य विषये न - इति स्पष्टीकर्तुमस्मिन् सूत्रे 'समाहारे' इति पदं प्रयुक्तमस्ति ।

उदाहरणानि एतानि -

[अ] चकारान्तस्य उदाहरणद्वयम् -

  1. वाक् च त्वक् च एतयोः समाहारः = वाच् + त्वक् + टच् → वाक्त्वच ।

  2. स्रक् च त्वक् च एतयोः समाहारः = स्रच् + त्वच् + टच् → स्रक्त्च ।

[आ] जकारान्तस्य उदाहरणद्वयम् -

  1. श्रीः च स्रक् च एतयोः समाहारः = श्री + स्रज् + टच् → श्रीस्रज ।

  2. वाक् च ऊर्क् च एतयोः समाहारः = वाच् + ऊर्ज् + टच् → वाचूर्ज ।

[इ] दकारान्तस्य उदाहरणद्वयम् -

  1. समिध् च दृषद् च एतयोः समाहारः = समिद् + दृषद् + टच् → समिद्दृषद ।

  2. सम्पद् च विपद् च एतयोः समाहारः = सम्पद् + विपद् + टच् → सम्पद्विपद ।

[ई] षकारान्तस्य उदाहरणद्वयम् -

  1. वाक् च विपृट् च एतयोः समाहारः = वाच् + विपृष् + टच् → वाग्विपृष ।

  2. वरम् च आशीः च एतयोः समाहारः = वर + आशीष् + टच् → वराशीष ।

[उ] हकारान्तस्य उदाहरणद्वयम् -

  1. छत्रं च उपानत् च एतयोः समाहारः = छत्र + उपानह् + टच् → छत्रोपानह ।

  2. धेनुः च गोधुक् च एतयोः समाहारः = धेनु + गोदुह् + टच् → धेनुगोदुह ।

ज्ञातव्यम् -

  1. यदि समासस्य अन्ते विद्यमानः वर्णः कश्चन अन्यः अस्ति, तर्हि टच्-प्रत्ययः न भवति । यथा - वाक् च समिध् च = वाक् + समिध् → वाक्समित् ।

  2. इतरेतरद्वन्द्वसमासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - प्रावृट् च शरद् च = प्रावृट्शरदौ । अत्र टच्-प्रत्ययः न भवति ।

Padamanjari

Up

index: 5.4.106 sutra: द्वन्द्वाच्चुदषहान्तात् समाहारे


तत्पुरुषान्मा भूदिति। तत्पुरुषादेव मा भूदित्यर्थः।'द्वन्द्वात्' इत्यनुच्यमाने हि तत्पुरुषाधिकारो न निवर्तेत ॥