ब्रह्मणो जानपदाख्यायाम्

5-4-104 ब्रह्मणः जानपदाख्यायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्

Sampurna sutra

Up

तत्पुरुषस्य ब्रह्मणः जानपदाख्यायाम् टच्

Neelesh Sanskrit Brief

Up

यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।

Kashika

Up

ब्रह्मन्शब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते। जनपदेषु भवो जानपदः। यस्य तत्पुरुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत् प्रत्ययविधानम्। सुराष्ट्रेषु ब्रह्मा सुराष्ट्रबह्मः। अवन्तिब्रह्मः। योगविभागात् सप्तमीसमासः। जानपदाख्यायामिति किम् ? देवब्रह्मा नारदः॥

Siddhanta Kaumudi

Up

ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

ब्रह्मन् (= ब्राह्मणः) इति शब्दः यस्मिन् तत्पुरुषसमासे उत्तरपदरूपेण विद्यते, तथा च येन समस्तपदेन 'जानपदम्' (= जनपदस्य इदम्) इति ब्रह्मणः निर्देशः भवति तस्मात् टच् इति समासान्तप्रत्ययः भवति । यथा - सुराष्ट्रे ब्रह्मा (The brahmin of Surashtra) [<<सप्तमी शौण्डैः>> 2.1.40 इत्यस्मात् 'सप्तमी' इति योगविभागेन सप्तमीतत्पुरुषसमासः] → सुराष्ट्र + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → सुराष्ट्र + ब्रह्म् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → सुराष्ट्रब्रह्म । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । The brahmin belonging to Surashtra - इत्याशयः । यदि जनपदेन सह सम्बन्धः न दर्श्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - देवानाम् ब्रह्मा देवब्रह्मा । अत्र टच्-प्रत्ययः न भवति । स्मर्तव्यम् - यस्मिन् तत्पुरुषसमासे जनपदवाची शब्दः पूर्वपदरूपेण विद्यते, तत्रैव अस्य सूत्रस्य प्रयोगः भवति, यतः तदा एव समस्तपदम् 'जनपदेन सह ब्रह्मणः सम्बन्धम्' प्रदर्शयितुम् शक्नोति ।

Balamanorama

Up

<<ब्रह्मणो जानपदाख्यायाम्>> - ब्राहृणो जानपदाख्यायां । जनपदे भवो जानपदः । भावप्रधानो निर्देशः । तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात्समासेनेति लभ्यते । तदाह — समासेनेत्यादि । जानपदत्वमित्यनन्तरं 'ब्राहृण' इति शेषः । सुराष्ट्रे ब्राहृएति । ब्राहृशब्दोऽत्र पुंलिङ्गः । ब्राहृआ — विप्रः ।वेदस्तत्त्वं तपो ब्राहृ ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । सप्तमीति योगुविभागात्समासः । टच्, टिलोपः,परवल्लिङ्ग॑मिति पुंस्त्वम् । जानपदेति किं । देवब्राहृआ नारदः ।

Padamanjari

Up

अन्तरेणापि भावप्रत्ययं जानपदशब्दो भावप्रधानः,'द्व्येकयोः' इतिवदित्याह-समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते इति। यद्यप्येकं ब्रह्मग्रहणम्, तेन च समासो विशेषितः, तथापि प्रत्यासतेर्ब्रह्मण एव जानपदत्वं विशेषणं विज्ञायते, तस्मादेतत्प्रत्ययविधानमिति। तत एव हि प्रत्ययविदाने ब्रह्मणो जानपदत्वं शक्यमाख्यातुम्। देवब्रह्मएति। षष्ठीसमासः, कर्मधारो वा ॥