कुत्वा डुपच्

5-3-89 कुत्वाः डुपच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः

Sampurna sutra

Up

ह्रस्वे कुत्वाः डुपच्

Neelesh Sanskrit Brief

Up

'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् 'कुतू' शब्दात् स्वार्थे 'डुपच्' प्रत्ययः भवति ।

Kashika

Up

ह्रस्व इत्येव। कुतूशब्दाद् ह्रस्वत्वे द्योत्ये डुपच् प्रत्ययो भवति। कस्यापवादः। ह्रस्वा कुतूः कुतुपम्। चर्ममयं स्नेहभाजनमुच्यते। कुतूरित्यावपनस्याख्या॥

Siddhanta Kaumudi

Up

ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् <<ह्रस्वे>> 5.3.86 इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते 'कुतू' अस्य विषये अपवादरूपेण 'डुपच्' प्रत्ययः भवति । ह्रस्वा कुतू (oil bag / oil bottle) इत्येव = कुतू + डुपच् कुतू + उप [डकारचकारयोः इत्संज्ञा, लोपः] → कुत् + उप [डित्त्वात् <<टेः>> 6.4.143 इति टिलोपः] → कुतुप । A small-sized oil container / bottle is called कुतुपः । अयम् शब्दः पुंलिङ्गे प्रयुज्यते ।

Balamanorama

Up

<<कुत्वा डुपच्>> - कुत्वा डुपच् । कुतुप इति । कुतूशब्दात् डुपचि ङित्त्वाट्टिलोपः । तत्रापि कुटीरादिवत्स्तीर्तवमपहाय पुंस्त्वमेव । तत्राऽमरकोशषमपि प्रमाणयति — कुतूः कृत्तिस्नेहेति ।

Padamanjari

Up